भेलसंहिता चिकित्सास्थानम्

विकिस्रोतः तः

भेलसंहिता


॥चिकित्सास्थानम्॥

॥प्रथमोऽध्यायः॥[सम्पाद्यताम्]

अथात एकादशसर्पिष्कं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.१.१
अकल्पयन्न यज्ञाङ्गं पुरा दक्षस्त्रिशूलिने।
तस्मात्प्रणाशयामास यज्ञं दक्षस्य शङ्करः॥
भेस६.१.२
तं च नाशयता यज्ञं देव्याः प्रियचिकीर्षया।
क्रोधेनोष्णं विनिश्वस्य तान् लोकान् व्यापितो ज्वरः॥
भेस६.१.३
स एष सन्तापयति जगत्स्थावरजङ्गमम्।
निधने चापि भूतानां नान्यो हेतुर्विना ज्वरात्॥
भेस६.१.४
यावन्तोऽन्ये समाख्याता व्याधयस्तु शरीरिणाम्।
संवत्सरेण ते घ्नन्ति सद्यः प्राणहरो ज्वरः॥
भेस६.१.५
रोगानीकस्य सर्वस्य ज्वरो राजा प्रकीर्तितः।
ज्वरयत्येष भूतानि तस्माज्ज्वर इति स्मृतिः॥
भेस६.१.६
शारीरमानसानां च रोगाणां प्रवरो ज्वरः।
तस्मात्प्रथमतस्तस्य प्रवक्ष्यामि चिकित्सितम्॥
भेस६.१.७
उक्तरूपसमुत्थाना ज्वराश्चाष्टौ प्रकीर्तिताः।
शीतश्चोष्णश्च नियतः समासात् द्विविधो ज्वरः॥
भेस६.१.८
शीतस्योष्णां क्रियां कुर्याद्वातश्लेष्मात्मकस्य तु।
उष्णस्यैकान्तपित्तस्य शीतां कुर्यात्क्रियां भिषक्॥
भेस६.१.९
वायुरामाशयात्पूर्वमूष्माणं समुदीरयेत्।
त्वग्गतो रोम चापन्नः संहर्षयति मानवम्॥
भेस६.१.१०
स तु पित्तानुबन्धेन तेजसा परिपाचितः।
प्राप्नोति विलयं श्लेष्मा सम्बन्धेनेव तोयदः॥
भेस६.१.११
शान्ते शीते पुनर्दाहं पित्तात्प्राप्नोति मानवः।
उत्पित्तमिन्धनीभूतं वपुर्दहति पावकः॥
भेस६.१.१२
गतवेगेनिलः पश्चादूष्मणा परिपाचितः।
स्वमेव भजते स्थानमानुलोम्यं च गच्छति॥
भेस६.१.१३
एवं ज्वरमवाप्नोति ह्येवमेव च मुच्यते।
एतद् बुद्धिमतां प्रोक्तं समासेन चिकित्सितम्॥
भेस६.१.१४
दुर्लभा बुद्धिमन्तस्तु तस्माद्वक्ष्यामि विस्तरम्।
एकादशप्रकारं हि ज्वरितानां चिकित्सितम्॥
भेस६.१.१५
सर्पिश्चैकादशं विद्यात् तन्मे विस्तरतः शृणु।
सिद्धास्स्वेदाः कषायाश्च लेहः पाचनकानि च॥
भेस६.१.१६
चूर्णः प्रदेहास्सेकाश्च वटिका मोदकाः पयः।
सर्पिश्चैकादशं प्रोक्तं सिद्धमाममथापि च॥
भेस६.१.१७
एषां प्रयोगं वक्ष्यामि वीर्याणि च पृथक् पृथक्।
श्लेष्माणमनिलं चैव जित्वा पित्तन्तु देहिनाम्॥
भेस६.१.१८
करोति यस्मादूष्माणं तस्माज्ज्वरित उच्यते।
वायुः पित्तेन संसृष्टः श्लेष्मा वा पित्तमूर्च्छितः॥
भेस६.१.१९
ऊष्माणं कुरुते यस्मात्ततः पित्तमुपाचरेत्।
तृष्यते चोष्णसलिलं देयं दोषविपाचनम्॥
भेस६.१.२०
ज्वरघ्नं दीपनीयं च कफपित्तानिलापहम्।
स्रोतसां शोधनं चैव रुचिस्वेदकरं नृणाम्॥
भेस६.१.२१
दीप्यमाने हि कायाग्नौ श्लेष्मा वायुश्च शाम्यतः।
तयोश्चाप्यनुलोमत्वात्पित्तम् अप्युपशाम्यति॥
भेस६.१.२२
तस्मादुष्णोदकं पेयं श्रेष्ठमाहुर्नवज्वरे॥
भेस६.१.२३
शीतं हि सलिलं पीतं कोपयेत्कफमारुतौ।
कुर्याद् भूयोऽग्निमृदुतां स्तैमित्यमरुचिं तथा॥
भेस६.१.२४
कामं तु तिक्तकैस्सिद्धं हितं क्वथितशीतलम्।
तेषां सामिशृतं पानं ये चाप्येकान्तशीतलाः॥
भेस६.१.२५
भोजनार्थं हि षड्रात्रं पेया देया बुभुक्षिते।
क्षुत्पिपासापहा पथ्या शकृन्मूत्रानिलापहा॥
भेस६.१.२६
औष्ण्याद्वातकफौ हन्यात्ल्लघुत्वात्परमेव च।
हृद्व्यथां विधियुक्ता तु सा हन्यात्स्वेदमावहेत्॥
भेस६.१.२७
तस्माज्ज्वरेषु सर्वेषु ज्वरमुक्ते च मानवे।
पाययेद्विधिवत्पेयाः यथास्वौषधसाधिताः॥
भेस६.१.२८
शीतज्ज्वरहरं कृत्स्नमुक्तमेवं चिकित्सितम्।
अत ऊर्ध्वं प्रवक्ष्यामि भोज्याभोज्यं सविस्तरम्॥
भेस६.१.२९
शालयः षष्टिकाश्चैव नीवारास्सप्रमोदकाः।
यवान्नविकृतिश्चापि भोजनेषु हितास्सदा॥
भेस६.१.३०
कपिञ्जलास्सहरिणा वर्तकाः कालपुच्छकाः।
एणा वर्तीरकाश्चैव जाङ्गला ज्वरिते हिताः॥
भेस६.१.३१
मुद्गाढकीमसूराणां सतीनानां तथैव च।
सिद्धास्सूपाः प्रशस्यन्ते यूषाश्च ज्वरनाशनाः॥
भेस६.१.३२
उष्णान् व्रीहीन् सयवकान् सक्तुकांश्चित्रकानपि।
माषांस्तिलांश्चोष्णवीर्यान् ज्वरितः परिवर्जयेत्॥
भेस६.१.३३
ग्राम्यानूपौदकं मांसं तथोभे गव्यमाहिषे।
छागसो रणवाराहं दधि शुक्तं च वर्जयेत्॥
भेस६.१.३४
पिष्टान्नानि च सर्वाणि शाकानि विविधानि च।
विदाहीन्युष्णवीर्याणि ज्वरितः परिवर्जयेत्॥
भेस६.१.३५
बर्हिणस्तित्तिरिक्रौञ्चान् कपोतानथ कुक्कुटान्।
पञ्चैतान्विष्किरानुष्णान् ज्वरितः परिवर्जयेत्॥
भेस६.१.३६
वमने च विरेके च स्नेहने लङ्घने तथा।
प्रोक्ता मे ज्वरिणः कालाः सूत्रस्थाने सविस्तराः॥
भेस६.१.३७
अमात्याश्चालयश्चापि सुहृदश्चानुशासिनः।
छन्दज्ञा मतिसम्पन्नाः शास्त्रज्ञानेषु कोविदाः॥
भेस६.१.३८
ते वदेयुः कथाश्चित्रा धर्मकामार्थसंहिताः।
आतुरस्य विनोदार्थं तन्द्राशोकविनाशनाः॥
भेस६.१.३९
दारुणाश्चामनोज्ञाश्च न च प्रीतिविवर्धनाः।
पित्तव्याधिपरीतानां कथाश्च परिवर्जयेत्॥
भेस६.१.४०
उत्साहमेव जनयेदातुरस्य चिकित्सकः।
उदग्रस्य हि भैषज्यममृतत्वाय कल्पते॥
भेस६.१.४१
चन्द्राननाः पीनकुचाः सुगन्धाः शुक्लवाससः।
रुजाक्लमविनाशार्थमुपासीत च योषितः॥
भेस६.१.४२
अत्याशनमतिस्थानमतिचङ्क्रमणानि च।
ज्वरितो वर्जयेन्नित्यं प्राणान् रक्षेच्च सर्वशः॥
भेस६.१.४३
क्रोधं स्त्रियं चङ्क्रमणं दिवास्वप्नातिभाषणम्।
गुरूण्यध्वा विरुद्धानि व्यायामो वेगधारणम्॥
भेस६.१.४४
प्रदुष्टो मारुतः पानं निशि जागरणं च यत्।
कारणान्युपशान्तस्य ज्वरस्य प्रभवे पुनः॥
भेस६.१.४५
न चैनं स्नापयेज्जातु सहसा ज्वरकर्शितम्।
संदूषितां ह्यस्य तनुं पुनरावर्तते ज्वरः॥
भेस६.१.४६
महेश्वरक्रोधभवो ज्वरः प्रोक्तो महर्षिभिः।
तस्माज्ज्वरविमोक्षार्थं पूजयेत् ऋषभध्वजम्॥
भेस६.१.४७
स्नानानि शान्तयो होमव्रतानि नियमो यमः।
शस्यन्ते चेष्टयः काम्या वेदोक्ता ज्वरनाशनाः॥
भेस६.१.४८
रोगाधिपतिरुग्रौजाः व्याधीनां प्रसवो ज्वरः।
सर्वभूतान्तको घोरो हुताशात्मा ज्वरः स्मृतः॥
भेस६.१.४९
प्रसङ्गी दुश्चिकित्स्यः स्याद्भिषग्भिः पापसम्भवः।
तस्माद्वेदोदितैर्मन्त्रैर्होमैश्च विनिवर्तयेत्॥
भेस६.१.५०
भूतविद्यासमुत्पन्नं चण्डकर्म ज्वरापहम्।
तत्कार्यं भूतवैद्येन तथा नाविशति ज्वरः॥
भेस६.१.५१
रुद्रभक्तेन शुचिना वैद्येनाथ तपस्विना।
प्रयतेन प्रयोक्तव्यं चिरज्वरचिकित्सितम्॥ इत्याह भगवानात्रेयः।
इति भेले चिकित्सिते प्रथमोऽध्यायः॥


॥द्वितीयोऽध्यायः॥[सम्पाद्यताम्]

अथातो विषमज्वरचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.२.१
केचिद्वातात्मकं प्राहुर्भिषजो विषमज्वरम्।
सन्निपातोद्भवं केचिदपरे पित्तसम्भवम्॥
भेस६.२.२.
श्लेष्मजं त्वपरे प्राहुरपरे भूतसम्भवम्।
जन्मनक्षत्रपीडाभिरपरे देवचिन्तकाः॥
भेस६.२.३
ईदृशः शास्त्रकाराणां मतयोऽथ पृथग्विधाः।
सन्निपातोद्भवं ह्येतदहं वक्ष्यामि हेतुभिः॥
भेस६.२.४
पक्वाशयस्थपवनो ह्यस्थिमज्जगतस्तथा।(ंधुकोश ओन् ंण्२.३८)) कुपितः कोपयत्याशु श्लेष्माणं पित्तमेव च॥
भेस६.२.५
स गम्भीरसमुत्पत्तिस्थानतन्त्रत्रयो महान्।
अन्येद्युष्कैकान्तरितौ कुर्याद्वापि चतुर्थकम्॥
भेस६.२.६
मज्जानमस्थि मेदश्च दूषयेत्प्रथमेऽहनि।
द्वितीयेऽहनि सम्प्राप्ते दूषयेन्मांसशोणितम्॥
भेस६.२.७
ततस्तृतीये दिवसे दूषयेत्कफमारुतौ।
अभिगम्य ततः पित्तं दूषयेत्तु चतुर्थके॥
भेस६.२.८
ज्वरोऽयं प्राणिनां देहे रौद्रो माहेश्वरस्तथा।
प्रयतेत प्रशान्तौ तु तस्मादस्य विचक्षणः॥
भेस६.२.९
गम्भीरस्थानसम्भूतो धातुसंकरदूषितः।
तस्माच्चतुर्थको नाम दुश्चिकित्स्यतमो मतः॥
भेस६.२.१०
शोषयत्येष भूतानि दारुणो विषमज्वरः।
तस्माच्छोषोपचारेण कुर्यात्तस्य चिकित्सितम्॥
भेस६.२.११
त्रिफलाक्वाथसिद्धेन घृतेन मतिमान् भिषक्।
स्नेहयेत्तं यथान्यायं युक्त्या वृषघृतेन वा॥
भेस६.२.१२
स्रंसयेत्तमधोभागं यथाव्याधिबलाबलम्।
दोषेष्वामाशयस्थेषु कारयेद्वमनं भिषक्॥
भेस६.२.१३
आस्थापनं च कुर्वीत तथा चाप्यनुवासनम्।
एतन्महापञ्चगव्यं विख्यातं सर्पिरुत्तमम्॥
भेस६.२.१४
चतुर्थकं मोक्षयति मन्त्रसिद्धियुतो यथा।
श्वयथुं पाण्डुरोगं च प्लीहानं सभगन्दरम्॥
भेस६.२.१५
उदराणि तथा गुल्मान् कामिलां चापकर्षति॥
भेस६.२.१६
शकृद्रसं पयो मूत्रं दधि सर्पिश्च पाययेत्।
तत्पञ्चगव्यं शमयेच्छ्वयथुं पाण्डुतां ज्वरम्॥
भेस६.२.१७
समूलपत्रशाखस्य शतं कृत्वा वृषस्य तु।
जलद्रोणे विपक्तव्यमष्टभागावशेषितम्॥
भेस६.२.१८
गर्भेण वृषपुष्पाणामाढकं सर्पिषः पचेत्॥ तत्सिद्धं पाययेद्युक्त्या मधुपादसमन्वितम्॥
भेस६.२.१९
कासं श्वासं पाण्डुरोगं तृतीयकचतुर्थकौ।
रक्तपित्तं क्षयं चैव वृषसर्पिर्नियच्छति॥
भेस६.२.२०
नागरं सैन्धवं चव्यं पिप्पलीक्षारचित्रकौ।
एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत्॥
भेस६.२.२१
क्षीरप्रस्थेन संयोज्य शनैर्मृद्वग्निना पचेत्।
एतेन गुल्माः शाम्यन्ति कुष्ठानि जठराणि च॥
भेस६.२.२२
ज्वरे च विषमे पेयं प्लीहश्वयथुमेहिनाम्।
शूले पाण्ड्वामये चैव ग्रहणीदीपनेषु च॥
भेस६.२.२३
ऊर्ध्ववाताश्च ये केचित्सर्वेषामौषधं परम्।
त्र्यूषणं चित्रकं हिंस्रां विलङ्गानि हरीतकीम्॥
भेस६.२.२४
विभीतकान्यामलकं चिरबिल्वत्वचं तथा।
दशैतानि समांशानि श्लक्ष्णान्यक्षसमानि च॥
भेस६.२.२५
तैः पाचयेद्धृतप्रस्थं सम्यक् पयसि षड्गुणे।
ग्रहणी दीप्यते तेन वातगुल्मश्च शाम्यति॥
भेस६.२.२६
अर्शसां शमनं चैव गुदशोफे च पूजितम्।
एतदेव हि वै श्रेष्ठमुदावर्ते घृतं भवेत्॥
भेस६.२.२७
दर्भवेतसमूलानि चन्दनं मधुकं बला।
फेनिला पद्मकोशीरमुभे च कमलोत्पले॥
भेस६.२.२८
किंशुकश्चेति भागाः स्युः पृथक् पञ्चपलोन्मिताः।
जलद्रोणे विपक्तव्यं चतुर्भागावशेषितम्॥
भेस६.२.२९
जीवकर्षभकौ मेदां लोध्रं लामज्जकं तथा।
कालेयकं सप्रियकं दद्यात्केसरमेव च॥
भेस६.२.३०
त्रिपुण्डरीकं लोध्रं च पद्मकं पद्मकेसरम्।
सुरभिं कुङ्कुमं चैव मञ्जिष्ठां मदयन्तिकाम्॥
भेस६.२.३१
माचिपत्रं च तुल्यानि द्विगुणं कुङ्कुमं भवेत्।
चतुर्गुणां च मञ्जिष्ठां सौवीरं स्नेहसम्मितम्॥
भेस६.२.३२
तैलप्रस्थं पचेत्तेन कषायेणार्धपेषितम्।
एतदभ्यञ्जनं तैलं विषमज्वरनाशनम्॥
भेस६.२.३३
महापद्मकमाख्यातमेतत्सर्वज्वरापहम्।
वातपित्तोद्भवं क्षिप्रं ज्वरमेतन्नियच्छति॥
भेस६.२.३४
त्रायमाणां जयां वीरां नाकुलीं गन्धनाकुलीम्।
कायस्थां च वयःस्थां च जीरकं सपलङ्कषम्॥
भेस६.२.३५
छत्रातिच्छत्रजटिलां सूकरीं कर्कटीं तथा।
चारटीं पूतनां केशीं वचां कटुकरोहिणीम्॥
भेस६.२.३६
महापुरुषदन्तां च वृश्चिकालीं कटम्भराम्।
स्थिरां च पिष्ट्वा तैस्सिद्धं चतुर्थकविनाशनम्॥
भेस६.२.३७
महापैशाचिकं नाम सर्पिरेतज्ज्वरापहम्।
भूतग्रहानपस्मारानुन्मादांश्चापकर्षति॥
भेस६.२.३८
एतैरेवौषधगणैः प्रदेहं कारयेद्भिषक्।
धूपयेज्ज्वरितं चैव तथा सम्पद्यते सुखी॥
भेस६.२.३९
बलयः शान्तिकर्माणि होमस्वस्त्ययनानि च।
स्नानानि चोपवासश्च शमयन्ति चतुर्थकम्॥
भेस६.२.४०
स्रष्टारं चास्य रोगस्य भूताधिपतिमच्युतम्।
पूजयंश्चाभिगच्छेच्च श्मशाने वृषभध्वजम्॥
भेस६.२.४१
भूतविद्यासमुत्पन्नैर्बन्धनैस्साधनैरपि।
होमैर्बलिविधानैश्च नाशयेद्विषमज्वरम्॥ इत्याह भगवानात्रेयः।
इति भेले चिकित्सिते द्वितीयोऽध्यायः॥


॥तृतीयोऽध्यायः॥[सम्पाद्यताम्]

अथातो रक्तपित्तचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.३.१
ऊर्ध्वं चाधश्च मर्त्यानां रक्तपित्तं प्रवर्तते।
अतस्तु द्विविधा प्रोक्ता चिकित्सा रक्तपित्तिनः॥
भेस६.३.२
अत्यम्ललवणाहारात् सततातपसेवनात्।
उपवासाद् भ्रमात् त्रासाद्विरुद्धाध्यशनादिभिः॥
भेस६.३.३
तिलपिण्याकाशाकानां तथा पिष्टकृतस्य च।
पित्तलानां च सर्वेषां मत्स्यादीनां च सेवनात्॥
भेस६.३.४
ऊर्ध्वं चाधश्च कुपितं रक्तपित्तं प्रवर्तते।
घ्राणकर्णाक्षिमुखतः पायुतो मेढ्रतस्तथा॥
भेस६.३.५
निष्ठीवति सरक्तं च तिक्तमम्लमथापि वा।
न च तत्पतितं भूमौ भक्षयन्ति पिपीलिकाः॥
भेस६.३.६
मक्षिका वापि तिक्तत्वाच्छुष्कं पित्तं च लक्ष्यते।
सन्दह्यते दूयते च कण्ठस्तालु च शुष्यति॥
भेस६.३.७
लोहगन्धि मुखं चास्य कण्ठो धूमायते तथा।
एतान्येवं त्वधोभागे लक्षणान्युपलक्षयेत्॥
भेस६.३.८
ऊर्ध्वभागं तु साध्यं स्यादधो वै याप्यमुच्यते।
सर्वस्रोतःप्रवृत्तं तु रक्तपित्तं न सिध्यति॥ रक्तपित्तमधोभागं छर्दिनैस्समुपाचरेत्॥ ................................................... ...................................................

॥चतुर्थोऽध्यायः॥[सम्पाद्यताम्]

.................................................. ...................................................
भेस६.४.१
स्वप्नेषु नित्यं पश्यन्ति शुष्कान्दग्धांश्च पादपान्।
मक्षिकातृणकेशाश्च सम्पतन्त्यस्य भोजने॥
भेस६.४.२
रोमाणि मूर्धजाश्चास्य विवर्धन्ते विशेषतः।
अवगुण्ठनशीलश्च रहःकामोत्थकोपनः॥
भेस६.४.३
जुगुप्सालुरमर्षी च स्त्रीकामो दुर्बलेन्द्रियः।
उचिता हीयते छाया तालुशोष्श्च जायते॥
भेस६.४.४
नासास्रावः प्रतिश्यायः स्वरभेदश्शिरोरुजा।
ऊरू च स्विद्यतोऽत्यर्थं हानिश्च बलवर्णयोः॥
भेस६.४.५
शिरसः परिपूर्णत्वं हस्तपादं च दह्यते।
अरुचिश्चाविपाकश्च मूर्छा श्वासो मृदुर्ज्वरः॥
भेस६.४.६
क्षतोरस्कश्च कासेन निष्ठीवति सशोणितम्।
एतानि पूर्वरूपाणि यक्ष्मिणां कीर्तितानि च॥
भेस६.४.७
षट् चैकादशरूपाणि शुष्यतस्तानि लक्षयेत्।
उच्छ्रितोपद्रवं चैनं पूर्वरूपैरभिद्रुतम्॥
भेस६.४.८
प्रक्षीणबलमांसं च न चिकित्सेद्विशोषिणम्।
अल्पोपद्रवसंयुक्तमचिरोपद्रवोत्थितम्॥
भेस६.४.९
द्रव्यवन्तं वयःस्थं च प्रत्याख्यायारभेत वै।
अथास्यानुमतं पूर्वं प्रवक्ष्यामि चिकित्सितम्॥
भेस६.४.१०
यदधीत्य भिषग्युक्त्या यशः स्वर्गमवाप्नुयात्।
शोषी नित्यजुगुप्सालुः सुखशीलश्च मानवः॥
भेस६.४.११
लोलो द्वेष्टा निकृष्टानां वैद्यभैषज्यकुत्सकः।
तस्मात्तस्यानुकूलेन भिषजाऽऽआश्वसनेन च॥
भेस६.४.१२
असंभ्रान्तेन युक्तेन प्रयोक्तव्यं चिकित्सितम्।
शोषिणोऽथ बलस्थस्य पञ्चकर्म विधीयते॥
भेस६.४.१३
तदेव क्षीणमांसस्य प्रयुक्तं विषमं भवेत्।
तस्य संशुद्धाकायस्य भोजनान्युपकल्पयेत्॥
भेस६.४.१४
कलमान् दीर्घशूकांश्च रक्तशालिं सषष्टिकान्।
यवान्नविकृतीश्चापि जाङ्गलांश्च मृगद्विजान्॥
भेस६.४.१५
भोजनेषु प्रशंसन्ति मुद्गान् सूपार्थमेव च।
संवत्सरस्थितं धान्यं भोजने शोषिणां हितम्॥
भेस६.४.१६
तद्धि वीर्यादहीनं स्यान्मांसं सद्योहतं च यत्।
विशेषतश्च मांसानि क्रव्यादबिलवासिनाम्॥
भेस६.४.१७
शोषी नित्यं निषेवेत मद्यानि विविधानि च।
श्लेष्मा देहे विवृद्धोऽपि वायुना सुसमीरितः॥
भेस६.४.१८
पित्तं रक्तं च सन्दूष्य स्रोतांस्यूर्ध्वं रुणद्धि हि।
ते परस्परसंरुद्धा धातवः पवनेरिताः॥
भेस६.४.१९
कफप्रधाना रुन्धन्ति सर्वा रसवहाः सिराः।
तदा ता रसवाहिन्यः सिरा हृदयवाहिकाः॥
भेस६.४.२०
रसमाहारजातानां न वहन्ति यथा पुरा।
तस्य भुक्तं न रक्ताय न मांसाय च कल्पते॥
भेस६.४.२१
न च मेदोऽस्थिमज्जभ्यो न शुक्लत्वाय् देहिनाम्।
तेषामवृद्धाधातूनां बद्धानामयनेष्वथ॥
भेस६.४.२२
भुञ्जानानामपि सरोगाणि गात्राणि देहिनाम्।
हेतुना तेन शुष्यन्ति शुष्यतां शोषवन्ति च॥
भेस६.४.२३
एतच्छोषस्य शोषत्वं मुख्यमाहुर्मनीषिणः।
सत्त्वेष्वतिप्रमाथित्वं व्यालकर्म यथाऽऽआपदि॥
भेस६.४.२४
मांसान्यपि तथा तेषां स्रोतांसि विकसन्त्यपि।
शोधयन्ति प्रमाथित्वात्स्रोतांसि ग्रथितान्यपि॥
भेस६.४.२५
तस्मात्क्रव्यादमांसानि शोषी शक्त्यावशीलयेत्।
रहस्यमेतद्वैद्यानामुपदिष्टं चिकित्सकैः॥
भेस६.४.२६
मद्यं क्रव्यादमांसं च शोषिणाममृतोपमम्।
वृकाः शृगाला ऋक्षाः श्वसिंहव्याघ्रास्ससूकराः॥
भेस६.४.२७
एणशब्देन दातव्या नानाद्रव्याभिसंस्कृताः।
गृध्रान् सहंसानुलूकान्मण्डूकाञ्श्येनवायसान्॥
भेस६.४.२८
दद्याद्बर्हिणशब्देन मद्यं च नियतं पिबेत्।
आखुमार्जारलोपाकान् द्विजिह्वाञ्शल्यकानपि॥
भेस६.४.२९
नकुलांस्ताम्रचूडांश्च भक्षयेच्च सुसंस्कृतान्।
अन्यमांसोपदेशेन मांसान्येतानि दापयेत्॥
भेस६.४.३०
जुगुप्सया वमति वा पादेऽत्यवहितो भवेत्।
तस्माद्रहस्यसिद्धानि मांसान्येतानि भक्षयेत्॥
भेस६.४.३१
बिलेशयक्रव्यभुजां भिषङ् मांसानि लाभतः।
तोयद्रोणेषु दशसु तुलामथ विपाचयेत्॥
भेस६.४.३२
अष्टभागावशिष्टन्तु रसं विस्रावयेद्भिषक्।
गर्भेण जीवनीयानां सर्पिर्द्रोणं विपाचयेत्॥
भेस६.४.३३
तत्पिबेन्मात्रतः सर्पिर्मांसं तेनैव साधयेत्।
कासं श्वासं सहृद्रोगं ज्वरं पार्श्वरुजामपि॥
भेस६.४.३४
श्वयथुं स्वरभेदं च शोषिणामपकर्षति।
पञ्चमूलं महद्ध्रस्वं गोलोमीं मधुकं बलाम्॥
भेस६.४.३५
विपाचयेज्जलद्रोणे चतुर्भागावशेषितम्।
तत्कषायं जलं पूतं घृतप्रस्थं विपाचयेत्॥
भेस६.४.३६
चतुर्गुणेन पयसा जीवनीयैश्च पेषितैः।
विदार्यामलकानां तु तथैवेक्षो रसस्य च॥
भेस६.४.३७
दद्याद् घृतसमान् भागान् तत्पचेन्मृदुनाऽग्निना॥ रसायनीयमिति तत् ख्यातं सर्पिर्बलावहम्॥
भेस६.४.३८
हृद्रोगक्षतकासानां क्षयाणां च निवारणम्।
अतः सर्पिर्गुडं कुर्याच्छर्करामधुसंयुतम्॥
भेस६.४.३९
गोधूमचूर्णेन सह मोदकान्वापि कारयेत्।
पूर्वोक्तेषु विकारेषु शोषिणाममृतोपमम्॥
भेस६.४.४०
क्षीरानुपानं भक्ष्यास्ते मोदका बलवर्धनाः।
मद्यानुपानास्सेव्यास्ते शोषः श्लेष्माधिको यदि॥
भेस६.४.४१
प्रस्थार्धं धौतलुञ्चिततिलानां कल्कपेषितम्।
तोयप्रस्थेन संयोज्य घृतप्रस्थं विपाचयेत्॥
भेस६.४.४२
अथ सिद्धं च पूतं च पुनस्तद्विपचेद् घृतम्।
सह क्रव्यादमांसेन क्षीरेणेह च सर्वशः॥
भेस६.४.४३
बिल्वमात्रेण पिण्डेन भावितेन सदाम्बुना।
जाङ्गलेन च मांसेन सुकृतेन विधानवित्॥
भेस६.४.४४
अथ सिद्धं च पूतं च पुनरग्नावधिश्रयेत्।
प्रस्थेन पयसा सार्धं सम्यगिक्षुरसाढके॥
भेस६.४.४५
विदारीं मुद्गपर्णीं च माषपर्णीं कसेरुकम्।
शृङ्गाटकमृणालानि पद्मबीजं सजीवकम्॥
भेस६.४.४६
क्षीरशुक्लां सऋषभां मेदां समधुकां तथा।
पयस्यां क्षीरकाकोलीं कन्दं नीलोत्पलस्य च॥
भेस६.४.४७
सह तालकदम्बेन कल्कांस्तानक्षसम्मितान्।
तस्मिन्नालोड्य तत्सर्वं विपचेन्मृदुनाग्निना॥
भेस६.४.४८
तत्सिद्धं स्रावयित्वा तु निर्वातं स्याद्यथामृतम्।
ततः प्रातर्घनीभूतं खजेनाभिप्रमन्थयेत्॥
भेस६.४.४९
अथात्र शर्कराचूर्णं पञ्चाशत्पलसम्मितम्।
मथ्यमानं ततो दद्याद्दत्त्वा दत्त्वा च मन्थयेत्॥
भेस६.४.५०
गन्धार्थं चात्र देयं स्याच्चूर्णं त्वङ्नागपुष्पयोः।
एकीभूतं तथा रात्रिमेकां परिवसेदथ॥
भेस६.४.५१
अक्षप्रमाणसंस्थानाः कार्यास्तु मोदकास्तथा।
यवगोधूमचूर्णाभ्यां तुगाक्षीर्या च चूर्णितान्॥
भेस६.४.५२
भक्षयेन्मोदकान् काले क्षीरपानं पिबेत्पुनः।
यक्ष्माणं शमयन्त्येते वृक्षमिन्द्राशनिर्यथा॥
भेस६.४.५३
असृग्दरं क्षतं क्षीणं हृद्रोगं विषमज्वरम्।
उन्माद रक्तपित्तं च कासं चैतेन साधयेत्॥
भेस६.४.५४
अश्वत्थस्याथ मूलानि शुङ्गानि सफलानि च।
शतावरीं पृश्निपर्णीं बृहतीं कण्टकारिकाम्॥
भेस६.४.५५
गोलोमीं श्रेयसीं कालां शारिबां सपुनर्नवाम्।
क्षीरद्रोणेषु दशसु कुट्टितानि विपाचयेत्॥
भेस६.४.५६
तच्छृतं शीतलं पूतं खजेनाभिप्रमन्थयेत्।
यत्तत्र सर्पिर्जायेत तदुद्धृत्य विपाचयेत्॥
भेस६.४.५७
भैषज्यानि च पिष्टानि तत्रेमानि समाचरेत्।
मधुकं मधुलिं द्राक्षां मेदां वृषभजीरकौ॥
भेस६.४.५८
तालमज्जां सलामज्जं तथा पुष्करबीजकम्।
जीवनीं त्रायमाणां च मधुकानि कशेरुकम्॥
भेस६.४.५९
नीलोत्पलं पुण्डरीकं वार्ताकानपि चोच्चटाम्।
काश्मर्यामलकेक्षूणां विदार्याः स्वरसं च वा॥
भेस६.४.६०
तत्सिद्धं दापयेत् पूतं कलशे राजते दृढे।
तुलार्धं शर्करायाश्च दत्त्वा चैवाभिमन्थयेत्॥
भेस६.४.६१
प्रक्षिपेच्च तुगाक्षीर्याः प्रस्थं प्रस्थं च माक्षिकात्।
आत्मगुप्ताफलस्य स्याद् गुडस्य मरिचस्य च॥
भेस६.४.६२
उच्चटीक्षुरसाभ्यां च द्वौ प्रस्थौ तत्र दापयेत्।
त्वगेलानागपुष्पाणां चूर्णं तत्र प्रदापयेत्॥
भेस६.४.६३
पलिकान् मोदकान् कृत्वा स्थापयेन्मृण्मये नवे।
अश्नीयात्तत्पलं कल्यं सायं भूयः पलं नरः॥
भेस६.४.६४
शयनं मृदु सेवेत ब्रह्मचारी समाहितः।
कर्मणानेन नियतं यक्ष्माणमपकर्षति॥
भेस६.४.६५
संबृहयति शुष्कं च पुरुषं दुर्बलेन्द्रियम्।
वाजीकरणमप्येतन्नराणां क्षीणरेतसाम्॥
भेस६.४.६६
स्त्रीभिर्हता भारहताः जीर्णाश्चातीतयौवनाः।
क्षीणमांसाः क्षीणबलाः ये चाथ क्षीणशोणिताः॥
भेस६.४.६७
पित्तरोगे रक्तपित्ते शोषे दोषज्वरे तथा।
हतेन्द्रिया नष्टशुक्लाः सक्तकण्ठाश्च ये स्मृताः॥
भेस६.४.६८
अशक्तमन्दका ये च रतिनष्टेन्द्रिया नराः।
पुनर्नवांस्तान्कुरुते योगोऽयममृतोपमः॥
भेस६.४.६९
अपस्मारानथोन्मादान् हृद्रोगानपतन्त्रकम्।
तेजो वापहृतं येषां भूतधर्मेण केनचित्॥
भेस६.४.७०
क्षीरानुपानात्तन्वन्ति सद्यः पोषं हि मोदकाः।
व्याकुलात्यल्पाधातूनां शोषिणां मन्ददेहिनाम्॥
भेस६.४.७१
अपि योगशतेनापि दुःखमेव चिकित्सितम्।
तस्माद्रसायनविधिं वर्धमाने क्षये भिषक्॥
भेस६.४.७२
संवत्सरं परमृतुमयनं वा समाचरेत्।
पिप्पलीवर्धमानं तु पञ्चपञ्चविवर्धितम्॥
भेस६.४.७३
नस्ये चाभ्यञ्जने पाने प्रशस्तं बस्तिकर्मणि।
वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे॥
भेस६.४.७४
पार्श्वशूले प्रमेहे च गुल्मे सार्शोभगन्दरे।
च्युतभग्नाङ्गहीनानां कासे श्वासे च हृद्ग्रहे॥
भेस६.४.७५
ज्वरातिसारेष्वरुचौ वर्णभेदे स्वरक्षये।
सुकुमारमिदं तैलं बालवृद्धसुखावहम्॥
भेस६.४.७६
एतद्धि वृष्यं बल्यं च मासान्मांसविवर्धनम्।
स्वरवर्णकरं चैव शोषिणाममृतोपमम्॥
भेस६.४.७७
निष्पाकश्चास्य तैलस्य सम्यक् सिद्धस्य यो भवेत्।
उदश्विदिव दध्यर्थं सोऽपि कृत्यकरो भवेत्॥
भेस६.४.७८
एकादश च षट् चैव शोषजा य उपद्रवाः।
सुकुमारं प्रशमयेन्मेधोऽग्नीनिव वृष्टिमान्॥
भेस६.४.७९
लुञ्चितानां तिलानां तु तैलप्रस्थं विपाचयेत्।
पलं तु मधुकस्यात्र गर्भं क्षीरं चतुर्गुणम्॥
भेस६.४.८०
मृदुपाकं च तत्सिद्धं भूय एव विपाचयेत्।
चतुर्गुणेन पयसा मधुकस्य पलेन च॥
भेस६.४.८१
एतेन विधिना चैव मधुकस्य शतं पचेत्।
शतकृत्वो विपक्वन्तु शतपाकमिति स्मृतम्॥
भेस६.४.८२
पानाभ्यञ्जननस्येषु बस्तौ व्यञ्जनसाधने।
भोजने चामृतप्रख्यं नराणां राजयक्ष्मिणाम्॥
भेस६.४.८३
हृद्रोगं तालुशोषं च पार्श्वशूलं प्रतानकम्।
तृष्णामुन्मादवीसर्पं कासं श्वासमसृग्दरम्॥
भेस६.४.८४
रक्तपित्तं प्रवृद्धं च सर्वतो भागमूर्च्छितम्।
कामलां पाण्डुरोगं च पानादेतन्नियच्छति॥
भेस६.४.८५
मुखपाकाक्षिपाकौ च बाधिर्यं कर्णवेदनाम्।
नक्तान्ध्यं तिमिरं काचं लिङ्गनाशं सिराचयम्॥
भेस६.४.८६
बिडालिकां पूतिनस्यं शिरोरोगं शिरोग्रहम्।
नस्तः कृतं प्रणुदति खालित्यं पलितानि च॥
भेस६.४.८७
अधोभागे रक्तपित्ते रक्तार्शस्सु भगन्दरे।
सर्वगात्रगते वाते रक्तपित्तसमुद्भवे॥
भेस६.४.८८
अप्रजस्सु च नारीषु पुंसां नष्टे च रेतसि।
जानुत्रिकादिकुब्जेषु प्रशस्तं बस्तिकर्मणि॥
भेस६.४.८९
बहूपरोधाः स्त्रीनित्याः तेषां वृष्यतमं मतम्।
प्रयोगेण प्रयुक्तं च रसायनमनुत्तमम्॥
भेस६.४.९०
सहस्रपाकमित्येतत्कल्पेनैतेन साधयेत्।
रसायनमिदं प्राहुर्नृणां वर्षसहस्रकृत्॥
भेस६.४.९१
अश्वगन्धा ह्यपामार्गो नाकुली गौरसर्षपाः।
तिला बिल्वं च कल्कं स्यात्तत्क्षयोन्मर्दनं परम्॥
भेस६.४.९२
मङ्गलाचारसंयुक्तो भवेत्स्वस्त्ययनो नरः।
स्नानानि शान्तिहोमांश्च शोषी नित्यं समाचरेते॥
भेस६.४.९३
इष्टयो वेदविहिता नाशना राजयक्ष्मणः।
ताश्च नित्यं निषेवेत पूजयेद् वृषभध्वजम्॥
भेस६.४.९४
उपद्रवाश्च ये शेषे षट् चैकादश चोदिताः।
तेषां चिकित्सितं कुर्याद्यथा स्वे स्वे चिकित्सिते॥
भेस६.४.९५
इत्येवं प्रयतेनोक्तं राज्यक्षचिकित्सितम्।
यशःस्वर्गकरं पुण्यं शिष्याणामर्थसिद्धये॥ इत्याह भगवानात्रेयः।
इति भेले चिकित्सिते चतुर्थोऽध्यायः॥


॥पञ्चमोऽध्यायः॥[सम्पाद्यताम्]

अथातो गुल्मचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.५.१
पञ्च गुल्माः समुद्दिष्टा निदानेषु सविस्तरम्।
गुल्मत्वं तेषु वक्ष्यामि चिकित्सां तु पृथक् पृथक्॥
भेस६.५.२
मारुतः कुपितो देहे स्रोतांस्युन्नह्य सर्वशः।
अभ्यागत्य दूषयति पूर्वं पित्तं कफं ततः॥
भेस६.५.३
दूषयत्यथ रक्तं च मेदो मांसं विधावति।
स सङ्घातस्थिरीभूतो गुल्मत्वमुपपद्यते॥
भेस६.५.४
दुष्टानां हन्तुकामानां परं प्राणभृतां यथा।
हस्त्यश्वरथयानानां संघातो गुल्म इष्यते॥
भेस६.५.५
एवं देहे रसादीनां धातूनां विप्रकर्षणम्।
संसर्गो गुल्म इत्युक्तः संघातो गुल्म उच्यते॥
भेस६.५.६
स्तम्बिनिस्तम्बिनीनां तु वल्लीनां वीरुधामपि।
संघातो गहनं गुल्मः तद्वद् गुल्मस्तु देहिनाम्॥
भेस६.५.७
अमूर्तत्वाद्धि वातस्य संवित्तिर्नोपजायते।
सन्धाय पित्तश्लेष्माणौ मारुतो गुल्मतां व्रजेत्॥
भेस६.५.८
मधूच्छिष्टमयं पिण्डं चिन्वन्ति भ्रमरा यथा।
तथा कोष्ठेषु पवनो धातूंस्तान्विचिनोत्यपि॥
भेस६.५.९
स्थानानि तस्य गुल्मस्य शंमन्ति गुरुलाघवम्।
कुक्षिकस्तिगतो गुल्मो वातभूयिष्ठ उच्यते॥
भेस६.५.१०
स वातगुल्मरूपाणि कुर्यात्स्थानवशेन तु।
तथैव पित्तस्थानस्थः पित्तरूपाणि दर्शयेत्॥
भेस६.५.११
एवं श्लेष्मणि रक्ते च सन्निपाते च सर्वशः।
सर्वेषां सन्निपाते तु स्वं स्वं रूपं निदर्शनम्॥
भेस६.५.१२
आगन्तुर्दूषयत्यत्र धातुं स्थानस्थ उल्बणः।
चिकित्सितं तु स्थानस्य स हि तत्र बलाधिकः॥
भेस६.५.१३
यदि वस्तिगतः पाकं वातगुल्मस्तु गच्छति।
हृन्नाभ्योरन्तरं गुल्मः पाकं गच्छति पैत्तिकः॥
भेस६.५.१४
हृदि च श्लेष्मगुल्मस्तु पाकं यात्यननुष्ठितः।
पच्यते सन्निपातात्तु गुल्मश्शोणितजस्तथा॥
भेस६.५.१५
दोषद्वयेन संसृष्टाः सर्वे गुल्माः प्रमाथिनः।
तस्मात्तेषां भेदनीयाः क्रियास्सर्वाः प्रयोजयेत्।
अत्यर्थं स्निह्यमानोऽपि गुल्मो वृद्धिमवाप्नुयात्॥
भेस६.५.१६
अतस्तु वातगुल्मस्य प्रवक्ष्यामि चिकित्सितम्।
प्रभुर्हि सर्वभूतानां वायुः प्राणेश्वरो बली॥
भेस६.५.१७
हरीतकी त्रिकटुकं वचा कटुकरोहिणी।
सौवर्चलं यवक्षारो विडङ्गं चित्रकस्तथा॥
भेस६.५.१८
अक्षप्रमाणैरेतैस्तु घृतप्रस्थं विपाचयेत्।
तस्मिद्धं स्रावयित्वा तु पाययेत्तु यथाबलम्॥
भेस६.५.१९
वातगुल्मं क्रिमिं कासं श्वासं प्लीहानमेव च।
दशाङ्गं नाशयत्येतद्रोगान् वज्रमिवासुरान्॥
भेस६.५.२०
द्वेपञ्चमूल्यौ सुषवीमश्वगन्धां पुनर्नवाम्।
कालां छिन्नरुहां रास्नां भार्ङ्गीं गोक्षुरकं बलाम्॥
भेस६.५.२१
शटिं पुष्करमूलं च पलाशं गन्धसंज्ञकम्।
एतेषां द्विपलान् भगान् जलद्रोणे विपाचयेत्॥
भेस६.५.२२
कोलानां सकुलुत्थानां माषाणां च यवैस्सह।
प्रस्थं प्रस्थं पृथक् कृत्वा तस्मिन्नेव समावपेत्॥
भेस६.५.२३
तेन पादावशिष्टेन घृतप्रस्थं विपाचयेत्।
दध्यादिभिस्समं शुक्तमारनालं तुषोदकम्॥
भेस६.५.२४
दाडिमाम्रातकरसं मातुलुङ्गरसं तथा।
चतुर्गुणं चात्र दधि गर्भे चैषां समावपेत्॥
भेस६.५.२५
कारवीं त्र्यूषणं दन्तीं त्रीण्येव लवणानि च।
हिंस्रां रास्नां वचां चैव यवानीमम्लवेतसम्॥
भेस६.५.२६
विडङ्गं दाडिमं हिङ्गु नीलिकां त्रिवृतामपि।
द्वौ क्षारौ चाजमोदां च पाठां पाषाणभेदकम्॥
भेस६.५.२७
ऊषकं वृषकं भार्ङ्गीं श्वदंष्ट्रां हपुषामपि।
त्रपुसोर्वारुबीजानि शतवीर्योपकुञ्चिके॥
भेस६.५.२८
अजाजीं चित्रकं मूर्वां तुम्बुरुं गजपिप्पलीम्।
धान्यकं सुरसं चैव दद्यादक्षेण सम्मितम्॥
भेस६.५.२९
गर्भेणानेन तत्सिद्धं पाययेत्सर्पिरुत्तमम्।
रक्तगुल्मादृते सर्वान् गुल्मानेतत्प्रणाशयेत्॥
भेस६.५.३०
एकाङ्गगे पक्षगते गृध्रस्यां प्लीह्नि चैव हि।
हृद्रोगे ग्रहणीदोषे वातगुल्मे च दारुणे॥
भेस६.५.३१
दाधिकं नाम विख्यातं सर्पिरेतन्महागुणम्।
उन्मादं कोष्ठशूलानि चापस्मारं च नाशयेत्॥
भेस६.५.३२
यावशूकं तथा क्षारं सैन्धवं हस्तिपिप्पलीम्।
पिप्पलीं शृङ्गबेरं च मरिचं च समावपेत्॥
भेस६.५.३३
एषां षण्णां षडेव स्युः पृथग्भागाः पलं पलम्।
एषामर्धपलान् भागान् कषायमुपसाधयेत्॥
भेस६.५.३४
पेष्यैरर्धपलीनैस्तु घृतप्रस्थं विपाचयेत्।
स्नेहतुल्यं कषायं तु क्षीरं तद्द्विगुणं भवेत्॥
भेस६.५.३५
इत्येतत् षट्पलं नाम सर्पिर्गुल्मविनाशनम्।
प्लीहानमर्शांसि तथा ग्रहणीदोषमेव च॥
भेस६.५.३६
वस्तिकुण्डलवर्ध्मानि पानादेवापकर्षति।
एषामन्यतमैः स्वेहैः स्नेहितं वातगुल्मिनम्।
विरेचनेन स्निग्धेन युक्त्या संशोधयेद् भिषक्॥
भेस६.५.३७
घृतं च सक्तुं च तथा चित्रकं सैन्धवं वचाम्।
पिप्पलीं च पचेत्क्षीरं प्रशस्तं चावतारयेत्॥
भेस६.५.३८
ततो बिडालपदकं पिबेदुष्णेन वारिणा।
घृतेन पयसा वापि मद्येनोष्णेन वारिणा॥
भेस६.५.३९
वातगुल्मं नुदत्येष गुल्मशूलानि यानि च।
सप्लीहानमुदावर्तं श्लेष्मगुल्मं च नाशयेत्॥
भेस६.५.४०
महौषधं देवदारु वासा कटुकरोहिणी।
चित्रकः पिप्पलीमूलं पिप्पल्यो हस्तिपिप्पली॥
भेस६.५.४१
कुष्ठं च सर्पगन्धा च पञ्चैव लवणानि च।
द्वौ क्षारौ त्रिवृता दन्ती द्रवन्ती चोपकुञ्चिका॥
भेस६.५.४२
एषामर्धपलान् भागान् लवणानां पलं पलम्।
चूर्णानि दध्नः प्रस्थार्धे समालोड्य विपाचयेत्॥
भेस६.५.४३
वसातैलघृतानां च प्रस्थं प्रस्थं प्रदापयेत्।
प्रदीप्तं च यथाशान्तमथैनमवतारयेत्॥
भेस६.५.४४
ततो बिडालपदकं पिबेदुष्णेन वारिणा।
घृतेन पयसा वापि मद्येनाम्लेन वा पुनः॥
भेस६.५.४५
एष क्षारागदो नाम वातगुल्मविनाशनः।
प्लीहानमर्शःशूलानि वर्ध्मोदावर्तकुण्डलम्॥
भेस६.५.४६
क्रिमीन् सग्रहणीदोषान् विषान् वातापतानकौ।
सर्पमूषकदंशांश्च ग्रन्थितान् गदयोजितान्॥
भेस६.५.४७
वातश्लेष्मसमुत्थानं सन्निपातात्मकं तथा।
प्रसह्य नाशयेद् गुल्मं छिन्नाभ्राणीव मारुतः॥ वन्ध्या च लभते गर्भं गरानपि च नशयेत्।
अपस्मारानथोन्मादान्......................... ................................................ ...............................................

॥षष्ठोऽध्यायः॥[सम्पाद्यताम्]

.................................................... ....................................................
भेस६.६.१
.................पित्तं भृशं देहे प्रकुप्यति।
तत्प्रदुष्टं दूषयति रक्तमांसमथोल्बणम्॥
भेस६.६.२
तत्र कुष्ठानि जायन्ते देहे बहुविधानि तु।
तेषां रूपाणि वक्ष्यामि चिकित्सां च यथाक्रमम्॥
भेस६.६.३
दोषाणां सञ्चितानां तु त्वङ्मांसाच्छास्रचारिणाम्।
प्रदूषणं हि सर्वेषां कुष्ठमित्यभिधीयते॥
भेस६.६.४
विरुद्धमाहारयतोऽप्यजीर्णाध्यशनेन च।
छर्दिमूत्रपुरीषाणां वेगानां च विधारणात्॥
भेस६.६.५
ग्राम्यानूपौदकं मांसं शाकं हरितकानि च।
मद्यमम्लमथात्यर्थं सेवित्वा यः पिबेत्पयः॥
भेस६.६.६
भुक्त्वा वाप्युष्णमाहारं मधु मांसं च सेवते।
मद्यं मधु च यः पीत्वात्युष्णमन्नं च सेवते॥
भेस६.६.७
विदग्धभुक्तो यश्चापि ग्राम्यधर्म निषेवते।
उष्णातपाम्यां सहसा यश्चाप्यप्सु निमज्जति॥
भेस६.६.८
तस्योष्मा सन्निरुद्धस्तु प्रकोपयति मारुतम्।
उदीरयति वायुस्तु दूषितो दोषसंचयान्॥
भेस६.६.९
दोषाश्शिराः प्रपन्नास्ते रुधिरं दूषयन्त्यति।
रक्तमांसनिरुद्धास्तु वातपित्तकफास्त्रयः॥
भेस६.६.१०
जनयन्त्याशु कुष्ठानि नृणामष्टादशैव तु।
निदानेष्वपि निर्दिष्टं निदानं साप्तकुष्ठिकम्॥
भेस६.६.११
अष्टादश तु कुष्ठानि तेषां वक्ष्यामि लक्षणम्।
यत्कुष्ठमरुणाभासं श्यामं रूक्षं सवेदनम्॥
भेस६.६.१२
पिपीलिकाकीर्णमिव कर्कशं चापि वातिकम्।
क्षिप्रमुत्तिष्ठते यस्तु दूष्यते परिदह्यते॥
भेस६.६.१३
ताम्रं श्यावप्रकुपितं सज्वरं चापि पैत्तिकम्।
समुत्पन्नेषु वा तेषु स्तिमितं बहुलं गुरु॥
भेस६.६.१४
पाण्डु स्निग्धं च गुरु च यत्कुष्ठं श्लेष्मसम्भवम्।
स्फुटितं स्रावबहुलं दाहरागरुजान्वितम्॥
भेस६.६.१५
त्वग्रोमनखमांसैश्च दीर्यद्भिस्सान्निपातिकम्।
प्रादुर्भविष्यतां चैव पूर्वरूपाणि मे शृणु॥
भेस६.६.१६
तानि संलक्ष्य मेधावी चिकित्सितमुपाचरेत्।
ऊष्मायणं परीतापः स्वेदो रौक्ष्यं विवर्णता॥
भेस६.६.१७
सुप्तत्वं रोमहर्षश्च गात्राणां गौरवं क्लमः।
रागः पिपासा दौर्बल्यं दवथुः पिटकादयः॥
भेस६.६.१८
ततः कुष्ठानि जायन्ते तेषां वक्ष्यामि लक्षणम्।
स्वेदनं काकणाभासं समुप्तन्नं सवेदनम्॥
भेस६.६.१९
स्फुटितं नीलपर्यन्तं काकणं कुष्ठमुच्यते।
उदुम्बरनिभैर्यत्तु मण्डलैर्बहुभिश्चितम्॥
भेस६.६.२०
निरास्रावैः स्रवद्भिर्वा विद्यादौदुम्बरं तु तत्।
मण्डलैर्बन्धुजीवाभैरुत्सन्नैश्च विदाहिभिः॥
भेस६.६.२१
विद्यान्मण्डलकुष्ठं तद्वेदनाचोषणान्वितम्।
र्श्यजिह्वोपमं कुष्ठं ऋश्यजिह्वं विभावयेत्॥
भेस६.६.२२
पुण्डरीकदलाभासं पुण्डरीकं तु तद्विदुः।
अलाबुपुष्पसदृशं सिध्मं कुष्ठमुदाहृतम्॥
भेस६.६.२३
कपालकुष्ठं कृष्णन्तु मण्डलैः परुषं तथा।
चर्मकुष्ठं तु बहुलं हस्तिचर्मनिभं खरम्॥
भेस६.६.२४
सस्फोटका ससन्तापा पामा कण्डूरुजान्विता।
दृढं पुनः प्रस्रवति कण्डूरोधान्वितं च यत्॥
भेस६.६.२५
वर्तते च समुत्पन्नं किटिबं तत्प्रकीर्तितम्।
श्यावा रक्ता समुत्पन्ना प्रक्लिन्ना स्राविणी तथा॥
भेस६.६.२६
मांसेनोपचिता युक्ता विज्ञेया सा विचर्चिका।
परिशुष्काणि रूक्षाणि कण्डूराणि घनानि च॥
भेस६.६.२७
मण्डलान्युन्नताग्राणि दुद्रुकुष्ठं हि तत्स्मृतम्।
अरुड्भिश्चीयमानं तु नीललोहितकैः खरैः॥
भेस६.६.२८
बहुभिश्च स्रवद्भिश्च शतारुष्कन्तु तद्विदुः।
शालिशूकप्रतीकाशैर्लोमभिः शुक्ललोहितम्॥
भेस६.६.२९
अन्योन्यैर्मण्डलैर्विद्धं श्वित्रं तदुपपादयेत्।
मीनमूषिककीटानां विषवेगेन दूषितम्॥
भेस६.६.३०
सकण्डूरागपिटकं विषजं श्याममेव वा।
पाणिपादतलाङ्गुष्ठपार्ष्णिदेशेषु जायते॥
भेस६.६.३१
स्फुटितं वेदनादाहयुक्तं वैपादिकं स्मृतम्।
उदुम्बरसवर्णं तु समुत्पन्नं सवेदनम्॥
भेस६.६.३२
पिच्छारागविवर्णं च कुष्ठं स्थूलारुरुव्यते।
विसर्पैस्संपरिक्रान्तं विकूणं सपरिस्रवम्॥
भेस६.६.३३
तदेककुष्ठमित्युक्तमेकं वीसर्पसम्भवम्।
एतान्यष्टादशोक्तानि कुष्ठानीह स्वलक्षणैः॥
भेस६.६.३४
नव तेषामसाध्यानि चिकित्स्यानि तथैव च।
पुण्डरीकमथ श्वित्रं ऋष्यजिह्वं सकाकणम्॥
भेस६.६.३५
उदुम्बरशतारुष्कं चर्मकुष्ठं च यत्स्मृतम्।
एककुष्ठं तु यत्प्रोक्तं कुष्ठं वैपादिकं च यत्॥
भेस६.६.३६
एतानि नव कुष्ठानि न सिध्यन्ति कदाचन।
सिध्मं विचर्चिका पामा दद्रुश्च किटिकानि च॥
भेस६.६.३७
कपालकुष्ठं स्थूलारुर्मण्डलं विषजं च यत्।
एतानि नव साध्यानि कुष्ठान्याहुर्मनीषिणः॥
भेस६.६.३८
कर्मजानि नव ह्येषां दोषजानि नवैव तु।
कर्मजानि न सिध्यन्ति सिध्यन्ति हीतराणि तु॥
भेस६.६.३९
आत्मवान्मुच्यते तेभ्यः कुशलेन स्वनुष्ठितः।
रक्तोद्भवानि कुष्ठानि सन्निपातोद्भवानि च॥
भेस६.६.४०
तस्मात्तेषां प्रथमतः सिराकर्म विधीयते।
कुष्ठस्यात्यल्पतो न्याय्यं बहुशः प्रच्छनं स्मृतम्॥
भेस६.६.४१
जलूकालाबुशृङ्गैर्वा शोणितं तस्य स्मृतम्।
शृणु रक्तविकारांस्तु पृथग्धातुसमाश्रितान्॥
भेस६.६.४२
सफेनमरुणं रूक्षं वातिकं शोणितं तनु।
नीलपीतासितं तप्तं रक्तं पित्तान्वितं स्मृतम्॥
भेस६.६.४३
विज्जलं पाण्डुरं स्निग्धं तन्तुमच्च कफात्मकम्।
सर्वेषां दर्शने विद्याच्छोणितं सान्निपातिकम्॥
भेस६.६.४४
इन्द्रगोपकसङ्काशमदुष्टं रक्तमुच्यते।
नरस्य मुक्तरक्तस्य प्रतिभुक्तवतस्तथा॥
भेस६.६.४५
सिद्धैर्घृतैः स्नेहितस्य कुर्यात्संशोधनं ततः।
वमनं रेचनं चैव तथा शीर्षविरेचनम्॥ आस्थापनं च कुर्वीत न चैनमनुवासयेत्॥
भेस६.६.४६
शालीन सष्टष्टिकांश्चैव जाङ्गलांश्च मृगद्विजान्।
यवान्नविकृतीश्चैव कुष्ठी नित्यं समाचरेत्॥
भेस६.६.४७
ग्राम्यानूपौदकं मांसमिक्षुस्तिलघृतं सुरा।
दधि दुग्धं दिवास्वप्नः फलान्यम्लानि मिअथुनम्॥
भेस६.६.४८
मूलकं पिष्टविकृतिर्वसा हरितकानि च।
कफं पित्तं च रक्तं च सर्वमेतत्प्रकोपयेत्॥
भेस६.६.४९
एवंविधानि चान्नानि ह्यभिष्यन्दकराणि च।
अजीर्णाध्यशनं चैव कुष्ठी नित्यं विवर्जयेत्॥
भेस६.६.५०
धान्वन्तरं पिबेत्सर्पिः स्वेहनार्ह्तेषु कुष्ठितः।
महद्वै पञ्चगव्यं वा तैलं शैरीषमेव वा॥
भेस६.६.५१
पिप्पलीवर्धमानं वा माक्षिकेण समाचरेत्।
अरिष्टमभयारिष्टं गण्डीरारिष्टमेव वा॥
भेस६.६.५२
मुष्टिं खदिरसारस्य कुट्टितं प्रतिभोजयेत्।
त्र्यहं शृतं पिबेत्तच्च स्नायादुद्वर्तयेत्ततः॥
भेस६.६.५३
तेन सिद्धं च भुञ्जीत पानीयार्थं च कारयेत्।
पक्षं मासमृतुं वापि षण्मासानेवमाचरेत्॥
भेस६.६.५४
प्रसद्य खदिरो हन्ति कुष्ठानि सुगुरूण्यपि।
संवृद्धो लोकपर्याये युगान्ताग्निर्नगानिव॥
भेस६.६.५५
पञ्चाभयास्तु सव्योषाः सगुडा वापि चूर्णिताः।
लिह्यात्पथ्याशनः कुष्ठशान्तिर्वा नचिराद्भवेत्॥
भेस६.६.५६
गोमूत्रेण हरिद्रां तु रसाञ्जनमथापि वा।
प्रयोगेण पिबेत्कुष्ठी तथा रोगात्प्रमुच्यते॥
भेस६.६.५७
द्राक्षा हरिद्रा मञ्जिष्ठा त्रिफला देवदारु च।
नागरं पञ्चमूल्यौ द्वे मुस्ता मधुरसा तथा॥
भेस६.६.५८
सप्तपर्णो ह्यपामार्गः पिचुमन्दाटरूषकौ।
विडङ्गं चित्रकं दन्ती पिप्पल्यो मरिचानि च॥
भेस६.६.५९
तेषां तु समभागानां कुष्ठी चूर्णपलं पिबेत्।
मासं गोमूत्रसंयुक्तं तथा कुष्ठात्प्रमुच्यते॥
भेस६.६.६०
उष्ट्रीक्षीरं पिबेज्जीर्णे क्षीरवृत्तिर्भवेन्नरः।
जातक्रिमीणि कुष्ठानि च्युतरोमनखान्यपि॥
भेस६.६.६१
अपि वा शीर्णमांसानि क्षीरमौष्ट्रं विनाशयेत्।
एतास्त्वाभ्यन्तराः प्रोक्ताः क्रियाः कुष्ठनिबर्हणाः॥
भेस६.६.६२
बाह्यां क्रियां प्रवक्ष्यामि विस्तरेण निबोध मे।
आलेपनानि कुर्वीत मुक्तरक्तस्य देहिनः॥
भेस६.६.६३
विघृष्य शस्त्रैः पत्रैर्वा गोमयैरपि वा पुनः।
ततः कुष्ठानि लेप्यानि प्रलेपैः कुष्ठनाशनैः॥
भेस६.६.६४
स्वर्जकाकुष्ठतुथानि विडङ्गमरिचानि च।
मनःशिला च लोध्रं च लेपः कुष्ठविनाशनः॥
भेस६.६.६५
अवल्गुजफलं दन्तीं श्योनाकं गजपिप्पलीम्।
चित्रकौ सर्षपौ द्वौ तु हरिद्रे द्वे विपेषयेत्॥
भेस६.६.६६
मातुलुङ्गरसैनैतत्समालोड्य निखानयेत्।
सप्तरात्रात्परं चैव कुष्ठानां लेपनं परम्॥
भेस६.६.६७
दद्रुं कपालकुष्टानि किटिकानि विचर्चिकाम्।
स्थूलारुष्काणि विषजं सिध्मानि च नियच्छति॥
भेस६.६.६८
करवीरो लाङ्गलिकी दन्ती हिंस्रा शुकानना।
चित्रकार्कस्त्रिकटुकं त्रिफला कटुरोहिणी॥
भेस६.६.६९
कोशातकी भद्रमुस्ता बृहती सर्षपा वचा।
करञ्जबीजं सुधा च स्वर्णक्षीरी निदिग्धिका॥
भेस६.६.७०
पिचुमन्दश्च जात्याह्वः पीलुतिल्वकपल्लवम्।
सौधामलकबीजानि कर्णिकारोह्यवल्गुजः॥ भेस६.६.?। ..............................भल्लातकम्.........।
...................................................

॥सप्तमोऽध्यायः॥[सम्पाद्यताम्]

.................................................. ..................................................
भेस६.७.१
स्त्रियं च युक्त्या सेवेत दिवास्वप्नं च वर्जयेत्।
कषायस्नाननित्यस्य कषायोदकसेविनः॥
भेस६.७.२
विशेषतः श्लेष्ममेहान् तीक्ष्णैरेव समाचरेत्।
सकषायं च तिक्तं च पैत्तिकेषु प्रयोजयेत्॥
भेस६.७.३
असाध्यवातजान्मेहांश्चतुरः परिवर्जयेत्।
अरुचिश्चाङ्गमर्दश्च तृष्णाकासौ भ्रमस्तमः॥
भेस६.७.४
शूलानि पिटका कण्डूः प्रमेहाणामुपद्रवाः।
अक्रियाभिः प्रमेहेषु पिटकास्वपि कारयेत्॥
भेस६.७.५
उपद्रवैश्च युक्तानां पिटकाभिस्तथैव च।
प्रमेहिणामिदं प्रोक्तं मया भैषज्यमुत्तमम्॥
भेस६.७.६
व्यस्तैरेतैस्समस्तैश्च यो गैस्तु प्रविभागशः।
चिकित्सां कल्पयेद्वैद्यो यथादोषं यथाबलम्॥
भेस६.७.७
विंशतेर्मूत्ररोगाणां लक्षणानि निरीक्ष्य तु।
दोषसंसर्गहेतूंश्च ततो योगान् प्रकल्पयेत्॥
भेस६.७.८
उद्देशमात्रं तेषां तु तस्माद्वक्ष्यामि भेषजम्।
भूयो मूत्रप्रशान्त्यर्थं प्रविभागं च तच्छृणु॥
भेस६.७.९
शतावरीमूलरसः समांशो मधुसर्पिषा।
इक्षुमेहे तु पातव्यः कफपित्तप्रशान्तये॥
भेस६.७.१०
किराततिक्तस्वरसः पटोलारुकयोस्तथा।
सक्षौद्रः शमयेन्मेहं क्वाथस्तूदकसंज्ञितम्॥
भेस६.७.११
पिप्पली शृङ्गिबेरं च मरिचानि तथैव च।
पिबेत्सुखाम्बुना ह्येतत्सान्द्रमेहात्प्रमुच्यते॥
भेस६.७.१२
चव्यचित्रकमूलानि पूतिकस्य त्वचस्तथा।
खले यूषेषु संस्कृत्य भुञ्जानो वै सुखी भवेत्॥
भेस६.७.१३
क्षीरसिद्धैर्यवैर्भक्ष्यैर्यच्छस्तं हिङ्गुसंयुतम्।
घृतं प्रसङ्गेन पिबन् भस्ममेहात्प्रमुच्यते॥
भेस६.७.१४
कपित्थश्चाजमोदा च मरिचानि तथैव च।
ततो युतं तैर्लवणं काचप्रोक्तं प्रदापयेत्॥
भेस६.७.१५
पिप्पलीकणसंयुक्तं मधुयुक्तं सशर्करम्।
जयेल्लवणमेहन्तु पीतं शीतेन वारिणा॥
भेस६.७.१६
मेहयुक्तेन भोक्तव्यं सान्द्रप्रस्रवणेन वा।
एतत्तु विजयेन्नित्यं मेहं लवणसंभवम्॥
भेस६.७.१७
एलाप्रवालकं हिङ्गु लवणं च समं भवेत्।
मद्येनोष्णेन वा पीतं मेहं ससिकतं जयेत्॥
भेस६.७.१८
तुम्बुरूणि कपित्थानां निर्यासं क्षौद्रसंयुतम्।
शुक्लमेहे प्रशंसन्ति यवान्नस्य च सेवनम्॥
भेस६.७.१९
सकुलुत्थानि यूषाणि सद्रवाणि विशेषतः।
भोज्यानि शुक्लमेहेषु यवान्नविकृतिस्तथा॥
भेस६.७.२०
श्वदंष्ट्रादर्भमूलैस्तु केवलं क्वथितं पयः।
सशर्करं पिबेज्जन्तुः क्षारमेहात्प्रमुच्यते॥
भेस६.७.२१
द्राक्षाशृतं वापि पिबेत् तथा क्षीरिशृतं नरः।
पित्तमेहात्प्रमुच्येत क्षारमेहाच्च सर्वशः॥
भेस६.७.२२
पीतामञ्जिष्ठचूर्णौ द्वौ मेहनाच्च प्रयोजयेत्।
सक्षौद्रं शीतमेहे तु यवान्नोपहितं सदा॥
भेस६.७.२३
मदयन्त्याश्च पत्राणां कल्कं क्षौद्रयुतं पिबेत्।
दर्भमूलस्य च तथा रक्तमेही सुखी भवेत्॥
भेस६.७.२४
पिबेत्तु ते सपयसी नीलमेहात्प्रमुच्यते।
प्ररोहैः क्षीरिवृक्षाणां क्षीरं संक्वथितं पिबेत्॥
भेस६.७.२५
सशर्करेण मुच्येत नीलमेहाअत्तु पैत्तिकात्।
कुमुदोत्पलदण्डैश्च सनालैः क्वथितैस्तथा॥
भेस६.७.२६
पिबेत्प्रायो यथाशक्ति वारिमेहात्प्रमुच्यते।
समां क्षीराशनश्चापि यवान्नमितभोजनः॥
भेस६.७.२७
शर्करासमभागं तु क्षौद्रेण सह संसृजेत्।
शीतेन तोयेन पिबन्नम्बुमेहात्प्रमुच्यते॥
भेस६.७.२८
इत्येतत् षोडशानां तु कफपित्तहरं पृथक्।
चिकित्सितं मया प्रोक्तं प्रमेहाणां विनाशनम्॥
भेस६.७.२९
असाध्या वातजाश्चैव विज्ञेया भृशदारुणाः।
अवगाद्यातिसूक्ष्मत्वाद्दाया प्रस्रवणं शृतम्(?)॥
भेस६.७.३०
आस्थापनैर्वातहरैः सुकृतैश्चानुवासनैः।
मज्जप्रमेहिणं दृष्ट्वा बहुशस्तमुपाचरेत्॥
भेस६.७.३१
प्रातः प्रातश्च सेवेत केवले मधुसर्पिषी।
कोरदूषयवान्नानि स्थितानि च विशेषतः॥
भेस६.७.३२
हस्तिमेहं जयेदेवं वस्तिस्वेदैः प्रयत्नतः।
यत्नवान्वातमेहं हि बस्तमूत्राणि वा चरेत्॥
भेस६.७.३३
पाययेच्चारयेच्चापि गजमेहं भयावहम्।
कषायैस्तिक्तकटुकैः रसैरेतैः, पिबेत्पयः॥
भेस६.७.३४
शास्त्रोक्तामथ संप्रेक्ष्य क्रियामेतां विचक्षणः।
यथास्वं हि सम्प्रधार्य प्रमेहान् साधयेद्भिषक्॥
भेस६.७.३५
एतत्प्रमेहिकं प्रोक्तं शिष्याणामार्थसिद्धये।
चिकित्सितं विस्तरेण यथावदनुपूर्वशः॥ इत्याह भगवानात्रेयः।
इति भेले चिकित्सिते सप्तमोऽध्यायः॥


॥अष्टमोऽध्यायः॥[सम्पाद्यताम्]

अथात उन्मादचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.८.१
पञ्चोन्मादास्समाख्याता निदानेषु सविस्तराः।
सलिङ्गास्ससमुच्थानाः शृणु तेषां चिकित्सितम्॥
भेस६.८.२
चित्तबुद्धीन्रियाणां हि तेषामपि विचेष्टितम्।
शिरस्ताल्वन्तरगतं सर्वेन्द्रियपरं मनः॥
भेस६.८.३
तत्रस्थं तद्धि विषयानिन्द्रियाणां रसादिकान्।
समीपस्थान् विजानाति त्रीन् भावांश्च नियच्छति॥
भेस६.८.४
सुमनःप्रभवं चापि सर्वेन्द्रियमयं बलम्।
कारणं सर्वबुद्धीनां चित्तं हृदयसंश्रितम्॥
भेस६.८.५
क्रियाणां चेतरासां च चित्तं सर्वत्र कारणम्।
सुचित्तास्सत्पथं यान्ति दुश्चित्तास्तु विमार्गगाः॥
भेस६.८.६
विदितं मनसा चित्तमालभ्य प्रभवेत्ततः।
ततो बुद्धिः प्रभवति कार्याकार्यविचारिका॥
भेस६.८.७
शुभाशुभं हि कुर्वाणा बोधनं बुद्धिरिष्यते।
बोधनाच्चापि बोध्यस्य नरो बुध इहोच्यते॥
भेस६.८.८
सा बुद्धिः परमात्मा च स शरीरे प्रकीर्तितः।
यथा कृती कर्मकरः क्रियां योजयते नृषु॥
भेस६.८.९
मनसश्चित्तबुद्धीनां स्थानान्येतानि कर्म च।
सन्दूषितानां तेषां तु शृणु हेतुमतः परम्॥
भेस६.८.१०
ऊर्ध्वं प्रकुपिता दोषाः शिरस्ताल्वन्तरे स्थिताः।
मनः सन्दूषयन्त्याशु ततश्चित्तं विपद्यते॥
भेस६.८.११
चित्ते व्यापदमापन्ने बुद्धिर्नाशं नियच्छति।
ततस्तु बुद्धिव्यापत्तौ कार्याकार्यं न बुध्यते॥
भेस६.८.१२
एवं प्रवर्तते व्याधिरुन्मादो नाम दारुणः।
तस्माद्विशेषं वक्ष्यामि ह्युन्मादमदयोरपि॥
भेस६.८.१३
शोकात्कोपात्तथा हर्षाद् द्रव्याणां च विनाशनात्।
चलिते चित्तमनसि मदमाशु नियच्छति॥
भेस६.८.१४
प्रध्यायति प्रस्विपिति रोदितीहानिमित्ततः।
हसत्यकस्मान्निद्रालुरल्पवाङ् नित्यमुत्सुकः॥
भेस६.८.१५
त्रस्तः शरीरी क्रोधनो निरपत्रपः।
पुरस्तादवलोकी च न यथावृत्त एव च॥
भेस६.८.१६
परुषत्वं तथा लोम्नामाविलं चक्षुषोरपि।
एतानि यस्य रूपाणि स मदो नाम कीर्तितः॥
भेस६.८.१७
विवर्धमानस्तु मद उन्मादत्वं नियच्छति।
सवातिकानि रूपाणि श्लेष्मपित्तोद्भवानि च॥
भेस६.८.१८
उन्मादस्तूच्यते धीरैः सन्निपातात्मकानि च।
एतल्लक्षणमुद्दिष्टमुन्मादस्य निरुक्तितः॥
भेस६.८.१९
निदाने पूर्वमुद्दिष्टं शृणु तेषां चिकित्सितम्।
स्नेहितं स्वेदितं चैव योजयेत्पञ्चक्र्मणा॥
भेस६.८.२०
दाधिकं वा पिबेत्सर्पिस्तैलं शैरीषमेव वा।
शतपाकं बलातैलं महापैशाचिकं घृतम्॥
भेस६.८.२१
दाधिकं च महाक्षारमुन्मत्तः शीलयेत्तथा।
यच्चिकित्सितमाख्यातमपस्मारविनाशनम्॥
भेस६.८.२२
तदेव सर्वं निखिलेषून्मादेष्ववचारयेत्।
घातयेत्तं कशाभिश्च वध्नीयात्ताडयेत्तथा॥
भेस६.८.२३
गजेनाप्यथवाश्वेन त्रासयेत्पन्नगेन वा।
पुनस्तृणाग्निना वापि सर्वतस्समवाकिरेत्॥
भेस६.८.२४
अवकीर्याथवाङ्गारैः प्रदीप्तैः पारिभद्रकैः।
प्रयुक्तं शीतलेनैव जलेनाभ्युक्षयेत्पुनः॥
भेस६.८.२५
प्रसारयेद्वा सरिति सरणे वा निरोधयेत्।
बुभुक्षया शोषयेद्वा कूपे प्रक्षिप्य मानवः॥
भेस६.८.२६
अपूर्वा भीषयेयुस्तं पुरुषाः शस्त्रपाणयः।
वित्रासयेयुर्वैद्यास्तं त्रासनैस्तु पृथग्विधैः॥
भेस६.८.२७
त्रासास्तीव्रा हि कुर्वन्ति चित्तस्य विकृतिं भयात्।
भयमेव तु चित्तस्य मानवानर्थमुच्यते॥
भेस६.८.२८
प्रक्षिप्तचित्तो विचरेत् त्रास्यमानोऽपि शस्त्रतः।
कुमारबृन्दानुगतस्तमसाध्यं विनिर्दिशेत्॥
भेस६.८.२९
तापनाञ्जननस्यैश्च क्षारैः क्षारागदैरपि।
प्रोक्तैरपस्मारहरैरुन्मादं समुपाचरेत्॥
भेस६.८.३०
पुराणं पाययेच्चैनं सर्पिरुन्मादनाशनम्।
स्थितं वर्षशतं श्रेष्ठं कुम्भसर्पिस्तदुच्यते॥
भेस६.८.३१
पानाभ्यञ्जननस्येषु हितमुन्मादिनां सदा।
काञ्जिकं लशुनं चैव बस्तमूत्रेण पेषवेत्॥
भेस६.८.३२
उन्मादिनां प्रयोगोऽयं पुराणघृतसंयुतः।
एताः क्रियाः प्रयुञ्जीत वैद्यः कायचिकित्सकः॥
भेस६.८.३३
शान्तिकर्माणि होमांश्च कुर्याद् भूतचिकित्सकः।
इष्टयः शान्तिकर्मणि होमाः स्वस्त्ययनानि च।
वेदोक्ताः कर्मविधयः कार्याश्चोन्मादनाशनाः॥ इत्याह भगवानात्रेयः।
इति भेले चिकित्सिते अष्टमोऽध्यायः॥

॥नवमोऽध्यायः॥[सम्पाद्यताम्]

अथातोऽपस्मारचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.९.१
उक्तं रूपं समुत्थानमपस्मारस्य कृत्स्नशः।
निदानेषु, चिकित्सां तु विस्तरेण निबोध मे॥
भेस६.९.२
गजाश्वयानात्पतनादभिघातात् भ्रमादपि।
इष्टद्रव्यविनाशाच्च चित्तं विभ्रममृच्छति॥
भेस६.९.३
तस्य चित्ते परिभ्रान्ते हृदयं परिशुष्यति।
रुणद्धि वायुरूष्माणं नाडीं प्राप्य जलावहाम्॥
भेस६.९.४
भृशं तृष्णापरीतः स मोहं गच्छत्यपस्मरन्।
अपस्मरत्यपस्मारी फेनं मुञ्चति वेपते॥
भेस६.९.५
सेवेत तैलं शैरीषं घृतं कल्याणकं तथा।
महापैशाचिकं वापि महाक्षारं च दाधिकम्॥
भेस६.९.६
शणबीजानि कैडर्यं ... ... चापलूनकम्।
रूपस्था च वयस्था च पूतना केशमारिणी॥
भेस६.९.७
त्रिफला त्र्यूषणं मुस्ता लशुनं पापचेलिका।
एतानि समभागानि वसातैलघृतानि च॥
भेस६.९.८
ऊर्णकं च तथैकध्यं पचेद् गोमूत्रसंयुतम्।
यदा प्रज्वलितं शान्तमथैनमवतारयेत्॥
भेस६.९.९
बिडालपदमात्रं तु क्षारस्यास्य सुखाम्बुना।
पिबेदपस्मारहरमुन्मादस्य च नाशनम्।
अर्शांसि गुल्मान्मेहांश्च प्लीहानमुदरामयम्॥ ................................................... ...................................................

॥दशमोऽध्यायः॥[सम्पाद्यताम्]

................................................... ................................................... भयाद्वा यदि शोकाद्वा योऽतिसारः प्रवर्तते।
भेस६.१०.१
अतिसारस्तु भूयिष्ठं साम एव स संभवेत्।
तस्मात्सर्वमतीसारं लङ्घनैस्समुपाचरेत्॥
भेस६.१०.२
लङ्घयेद्बलवन्तं च, दीपनीयानि कारयेत्।
दुर्बलस्य तु संसर्गीं कारयेत्तु विरिक्तवत्॥
भेस६.१०.३
स्तिमितं यस्य गुरु च पर्याध्मातमिवोदरम्।
दीपनीयोपपपन्नं तु बहुदोषं तु देहिनम्॥
भेस६.१०.४
स्तोकं स्तोकं स्रंसमानं निगृहीतं सवेदनम्।
दीपनीयसमायुक्तं पाययेत्स्रंसनं परम्॥
भेस६.१०.५
विशुद्धस्रोतसस्तस्य दोषेषु स्रंसितेषु च।
सुखं तद्ग्रहणं कर्तुं पाचनं स्तम्भ एव च॥
भेस६.१०.६
हरीतकीं त्रिकटुकं हिङ्गु सौवर्चलं वचाम्।
शुक्लामतिविषां चैव पाययेदुष्णवारिणा॥
भेस६.१०.७
नियतं जनिताध्मानमतिसारं सवेदनम्।
स्थापयत्यतिसंवृद्धं वेलेव वरुणालयम्॥
भेस६.१०.८
हरीतकी सातिविषा हिङ्गु सौवर्चलं वचा।
सैन्धवं चेति पिष्टानि पाययेदुष्णवारिणा॥
भेस६.१०.९
आमातिसारे योगोऽयं विधितस्तु चिकित्सकैः।
युक्ते क्वाथे प्रयोक्तव्यो बैद्येनापि यशोऽर्थिना॥
भेस६.१०.१०
आमातिसारो यो ह्याभ्यां योगाभ्यां न निवर्तते।
न स साधयितुं शक्यो ह्यन्यैर्मार्गशतैरपि॥
भेस६.१०.११
भूयिष्ठमामप्रभवः कुक्षिरोगः कफात्मकः।
प्रवर्तते नृणां तस्य शृणु सम्यक् चिकित्सितम्॥
भेस६.१०.१२
चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी।
पाठा वत्सकबीजानि हरीतक्यो महौषधम्॥
भेस६.१०.१३
एतदामसमुत्थानमतिसारं सवेदनम्।
कफात्मकं सपित्तं च वर्चो बध्नाति च ध्रुवम्॥
भेस६.१०.१४
पाठा वचा त्रिकटुकं कुष्ठं कटुकरोहिणी।
तत् साधुपीतान्येतानि श्लेष्मातीसारनाशनम्॥
भेस६.१०.१५
भल्लातकं शक्रयवाः पाठा कटुकरोहिणी।
यवान्यजाजीकुष्ठं च चित्रकोऽतिविषा॥
भेस६.१०.१६
शटी पुष्करमूलं च तथा हिङ्गु हरीतकी।
सौवर्चलं शृङ्गबेरं गवां मूत्रेण पेषयेत्॥
भेस६.१०.१७
वटकानक्षमात्रांस्तान् छायाशुष्कान्निधापयेत्।
तेषामेकं पिबेद् द्वौ वा सुखोष्णेनैव वारिणा॥
भेस६.१०.१८
एतद्ध्यामसमुत्थानमतिसारं सवेदनम्।
नुदत्यर्शांसि च तथा तमांसीव दिवाकरः॥
भेस६.१०.१९
ग्रहणीदीपनीयाश्च ये योगाः परिकीर्तिताः।
श्लेष्मातिसारे ते कार्याः क्षारः क्षारगुडस्तथा॥
भेस६.१०.२०
एतदामातिसाराणां श्लेष्मातीसारिणामपि।
चिकित्सितं समाख्यातं पित्तातीसारिणां शृणु॥
भेस६.१०.२१
अतिसारस्तु यः पित्तादुत्थोऽतिसरतीह सः।
पाचितं स्तम्भयेदेनं यथावत्तन्निबोध मे॥
भेस६.१०.२२
बिडं बिल्वशलाटूनि तिन्त्रिणीकं सदाडिमम्।
सौवर्चलं धातकी च समङ्गा चेति तत्समम्॥
भेस६.१०.२३
कल्कपिष्टं भवेत्पेयं काल्यमुष्णेन वारिणा।
पित्तातीसारशूलार्तं नरं सद्यश्चिकित्सते॥
भेस६.१०.२४
रसाञ्जनं सातिविषं कुटजस्य फलं त्वचम्।
धातकीं शृङ्गबेरं च पाययेत्तण्डुलाम्बुना॥
भेस६.१०.२५
माक्षीकयुक्तो नुदति पित्तातीसारमुल्बणम्।
मन्दं दीपयते चाग्निं शूलं चाशु निवर्तयेत्॥
भेस६.१०.२६
पाठा दारुहरिद्रा च पिप्पलीमूलमेव च।
फलत्वचे वत्सकस्य शृङ्गबेरं तथैव च॥
भेस६.१०.२७
एतानि कल्कपेष्याणि पाययेत्तण्डुलाम्बुना।
अम्बष्ठकी शिलोद्भेदं धातकी चाम्लवेतसम्॥
भेस६.१०.२८
उशीरं बालह्रीबेरं दाडिमत्वङ् महौषधम्।
जम्बूफलं कपित्थस्य मध्यं बिल्वशलाटु च॥
भेस६.१०.२९
एतानि चैव तुल्यानि पाययेत्तण्डुलाम्बुना।
माक्षीकयुक्तं नुदति पित्तातीसारलक्षणम्॥
भेस६.१०.३०
सवातां च समूलां च नाशयेत्परिकर्तिकाम्।
समङ्गा निचुलं लोध्रं धातकी मधुकं तथा॥
भेस६.१०.३१
वटलोध्रप्रवालाश्च दाडिमस्य फलं त्वचम्।
माषपर्णीशिलोद्भेदं साम्बष्ठाकमथापि च॥
भेस६.१०.३२
पित्तातिसारे दातव्यं तण्डुलोदकसंयुतम्।
समङ्गा धातकीपुष्पं साम्बष्ठाकमथापि च॥
भेस६.१०.३३
पित्तातिसारे पद्मं च तण्डुलाद्भिः पिबेन्नरः।
शशस्यैणस्य वा रक्तं मधुकं कृष्णमृत्तिका॥
भेस६.१०.३४
पित्तातिसारे दातव्यं तण्डुलोदकसंयुतम्।
दुष्टः पित्तातिसारस्तु गम्भीरस्थानमाश्रितः॥
भेस६.१०.३५
अतीव सार्यते रक्तमतिसारस्स रक्तजः।
नीलोत्पलं बिल्वतिला मधुकं गुडशर्करा॥
भेस६.१०.३६
केसरं पुण्डरीकस्य कुमुदं क्षौद्रमेव च।
आजेन पयसा पीतं रक्तातीसारनाशनम्॥ निर्वाहि ... ... ... ...
भेस६.१०.३७
अथास्य वर्चोजननीमनुयुक्तिं प्रदापयेत्।
दीप्ताग्निक्षीणमांसस्य सशूलस्यातिसारिणः॥
भेस६.१०.३८
अजस्य महतो मध्याद्वेशवारं सशोणितम्।
दध्नाथ यावके सिद्धं गुडत्रिकटुकान्वितम्॥
भेस६.१०.३९
तेन संभोजयेत्काले मृदुसुस्विन्नदेहिनम्।
कल्पेनैतेन वाराहं क्रौञ्चं मांसञ्च कारयेत्॥
भेस६.१०.४०
एतेनैव च कल्पेन कारयेच्चरणायुधान्।
तित्तिरीन् कच्छपान् लाभान्मयूरान्क्रकरानपि॥
भेस६.१०.४१
वातातिसारिणामेतत्समाख्यातं चिकित्सितम्।
वातातिसारे कर्तव्यं सर्वमर्शश्चिकित्सितम्॥
भेस६.१०.४२
भयाद्वा यदि वा शोकाद्योऽतिसारः प्रवर्तते।
यः कुप्यति ततो दोषस्तस्य कुर्याच्चिकित्सितम्॥
भेस६.१०.४३
नित्यमाश्वासयेयुस्तं सुहृदश्च विपश्चितः।
मनः प्रहृष्टं कुर्याच्च, तदा सम्पद्यते सुखी॥
भेस६.१०.४४
सर्वगात्रपरिस्तब्धो विवर्णः स्तिमितश्च यः।
न च दुःखं विजानीते परिवर्ज्यस्तथाविधः॥
भेस६.१०.४५
यस्य केशाः प्रलुप्यन्ते बलं वर्णश्च हीयते।
परिशुष्कमुखो यश्च न स जीवति तद्धिधः॥
भेस६.१०.४६
विवेष्टमानो यश्शेते सर्वगात्राणि विक्षिपेत्।
स्तब्धगात्रो न संचारी परिवर्ज्यस्तथाविधः॥
भेस६.१०.४७
हनुं दशति योऽभीक्ष्णं न वेदयति योऽसुखम्।
जिह्वां खादति चात्यर्थं गतायुरिति निर्दिशेत्॥
भेस६.१०.४८
संरक्षन्वै यशः प्राज्ञो न चैनं समुपाचरेत्।
अर्थघ्नं च यशोघ्नं च न कर्म समुपाचरेत्॥
भेस६.१०.४९
दृष्ट्वा साध्यमसाध्यं च यः करोति स सिध्यति।
पूजां च लभतेऽत्यर्थं विद्वत्सु च विराजते॥
भेस६.१०.५०
विषूच्यास्तु प्रवक्ष्यामि चिकित्सां लक्षणानि च।
विरुद्धगुरुपिष्टान्नशाकरूक्षरसाशिनाम्॥
भेस६.१०.५१
अजीर्णभोजिनां नित्यं त्रयः कुप्यन्ति धातवः।
तद्दोषबलमुद्भूतमारुतेन विवर्धितम्॥
भेस६.१०.५२
अधश्चोर्ध्वं च तिर्यक् च स्रोतांसि निरुणद्ध्यति।
रुद्धैश्च मारुते रुद्धस्रोतांसि निरुणद्धि च (?)॥
भेस६.१०.५३
तेषु दोषपरीतेषु दुष्टेनान्नरसेन च।
ऊर्ध्वं चाधश्च वेगोऽस्य कथंचित्संप्रवर्तते॥
भेस६.१०.५४
तां विलम्बीं विगर्हन्ति विषकल्पां विषूचिकाम्।
यथायथोत्पन्नरसो देहेषु विषमाश्रितः॥
भेस६.१०.५५
नाडीस्स व्याकुलीकृत्य वर्धयेत्तु बलासकम्।
तस्य कासो ज्वरो मूर्छा भक्तद्वेषो विवर्णता।
भेस६.१०.५६
ग्लानिश्चैवाविपाकश्च श्लेष्मसेकः प्रवाहिका।
उरोघातस्तथात्यर्थं हृद्रोगश्चान्त्रकूजनम्॥
भेस६.१०.५७
विबन्धो गात्रहानिश्च सोऽलसो नाम दारुणः।
उत्क्लेशो वेपथुश्छर्दिर्विदाहो वेष्टनं ज्वरः॥
भेस६.१०.५८
श्वासाध्मानं शकृद्भेदो विद्विष्टाहारलक्षणम्।
श्लेष्मप्रचुरकासश्च जृम्भणं हृदयग्रहः॥
भेस६.१०.५९
तथा श्वासश्च कासश्च पार्श्वशीर्षरुजान्वितः।
विषूच्याः पूर्वरूपाणि स्वेदो गात्रस्य शीतता॥
भेस६.१०.६०
उद्गारो गुरुकोष्ठत्वं मूत्रानिलशकृद्ग्रहः।
एतत्पञ्चविधं प्रोक्तमन्नविभ्रमलक्षणम्॥
भेस६.१०.६१
चिकित्सां तत्र कुर्वीत सर्वामामातिसारिणाम्।
उपद्रवाश्च ये प्रोक्ताः विषूच्यामलसे तथा॥
भेस६.१०.६२
तांश्चिकित्सेद् भिषक् सम्यग्यथास्वैश्च चिकित्सितैः।
एतद्विषूच्यामाख्यातं समासेन चिकित्सितम्॥
भेस६.१०.६३
कूरत्वादस्य रोगस्य भूयो वक्ष्यामि विस्तरम्।
विषूच्याः पूर्वरूपाणि संनिशम्य चिकित्सकः॥
भेस६.१०.६४
वमनं कारयेत्क्षिप्रमुष्णेन लवणाम्बुना।
यावत्स तिष्ठेत्तस्य स्यान्नान्यदुद्धारणात्सुखम्॥
भेस६.१०.६५
कारकं च कषायं स्यादथवार्जुनसाधितम्।
पीतं कषायं वमनं सद्यो हन्ति विषूचिकाम्॥
भेस६.१०.६६
तथा मुस्तादिकः कल्कः पिप्पलीकल्कसंयुतः।
पीतश्चोष्णेन तोयेन हन्यात्क्षिप्रं विषूचिकाम्॥
भेस६.१०.६७
विरुद्धा हि रसा भुक्ता दूषिताः पवनादिभिः।
विषीभवन्ति देहेषु पूर्ववृद्धैर्मलाशये॥
भेस६.१०.६८
तस्माद्विषसमा ह्याशु क्रियास्सर्वाः प्रयोजयेत्।
धूमान् कषायान् वर्तीश्च प्रदेहोत्सादनानि च॥
भेस६.१०.६९
अवपीडान् प्रधमनमग्निकर्मोपनाहनम्।
संस्पर्शान्युपचारांश्च विषूच्यां कारयेत्क्रियाम्॥
भेस६.१०.७०
भल्लातकं त्रिकटुकं पूतिकं क्षवकं बलाम्।
फणिज्जं लशुनं कुष्ठं करञ्जस्य फलानि च॥
भेस६.१०.७१
त्रिफलां च यवानीं च कुटजस्य फलानि च।
वर्तिमेतां शिवां नाम बस्तमूत्रेण पेषयेत्॥ विषूचलाक्षाक्षारश्च जायते(?)... ... ... ... ... ... ... ... ... ... ...

(भेस६.१०.२.१)। हनुभ्यां निगृहीताभ्यामव्यक्तं व्याहरत्यपि।
सुसंहतहनुर्वापि न व्याहरति किंचन॥ (भेस६.१०.२.२.)। स्नेहपानानि नस्यं च स्वेदाः पथ्याशनानि च।
उपनाहाश्च शस्यन्ते वस्तयश्चार्दिते हिताः॥ (भेस६.१०.२.३)। दध्यारनालयोर्द्रोणे वसा लाभेन चाढके।
आनूपौदकनित्यानां मांसान्यपि च लाभतः॥ (भेस६.१०.२.४)। तिलान् कुलुत्थान्माषांश्च बदराणि यवान् बलाम्।
द्वे पञ्चमूल्यौ रास्नां च शतमूलां शतावरीम्॥ (भेस६.१०.२.५)। एतत्सर्वं समाहृत्य साधयेन्मृदुनाग्निना।
बाष्पेणोच्चरता तेन नाडीस्वेदेन स्वेदयेत्॥ (भेस६.१०.२.६)। तैलमेभिश्च विपचेदभ्यञ्ज्याच्च पिबेच्च तत्।
एतमेव च सम्भारमुपनाहं च कारयेत्॥ (भेस६.१०.२.७)। यच्चिकित्सितमाख्यातं वातव्याधिविनाशनम्।
तदेव सर्वं निखिलमर्दितेष्वपि कारयेत्॥ (भेस६.१०.२.८)। महास्नेहं बलातैलं तैलं शैरीषमेव वा।
पानाभ्यङ्गेषु नस्येषु वस्तौ वापि प्रयोजयेत्॥ (भेस६.१०.२.९)। आनूपानि च मांसानि वेशवारं प्रकुट्टयेत्।
नातिस्निग्धेन तेनास्य कारयेदुपनाहनम्॥ (भेस६.१०.२.१०)। श्लेष्मणा समुपस्तब्धो यस्येह पवनो भवेत्।
मन्ययोर्न्मूर्ध्नि गण्डे च शोषस्तस्योपजायते॥ (भेस६.१०.२.११)। मूको निद्रापरीतश्च कण्ठनिश्वसितो भृशम्।
भृशं लालापरीतश्च जिह्मजिह्वीकृतो नरः॥ (भेस६.१०.२.१२)। श्लेष्मोपष्टब्धमेतादृगर्दितं परिकीर्तितम्।
तस्यानुवासनं कुर्यात्तथा शीर्षविरेचनम्॥ (भेस६.१०.२.१३)। तिल्वकेन विरेक्तव्यो भवेद् बिन्दुघृतेन वा।
पुराणं वा पिबेत्सर्पिर्धूमं तीक्ष्णं पिबेत्तथा॥ (भेस६.१०.२.१४)। श्लेष्मण्युपरते तस्य बृंहणैः समुपक्रमः।
वातव्याधिचिकित्सां च यथोक्तां समुपाचरेत्॥ (भेस६.१०.२.१५)। स्थानस्थस्तत्र च कफः वायुरागन्तुरुच्यते।
तस्मात्तयोर्गतिं दृष्ट्वा वातघ्नीं कारयेत्क्रियाम्॥ इत्याह भगवानात्रेयः।
इति भेले षड्विंशो??ऽध्यायः॥


॥एकादशोऽध्यायः॥[सम्पाद्यताम्]

अथातो ग्रहणीचिकित्सां व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.११.१
अग्निर्वाऽऽआयुर्मनुष्याणां प्राणास्तत्र प्रतिष्ठिताः।
बलमारोग्यमायुश्च सुखदुःखं तदाश्रयम्॥
भेस६.११.२
म्रियते ह्युपशान्तेऽग्नौ युक्ते चोष्मणि जीवति।
तस्मात्प्राणायुषी विद्यादग्निमूले शरीरिणाम्॥
भेस६.११.३
सोऽग्निस्समुचितं भुक्तं रसाय वितनोत्यधः।
तेनेन्द्रियबलं पुष्टिं वर्णञ्च लभते नरः॥
भेस६.११.४
चतुर्विधं पचत्यग्निः समं तीक्ष्णं तथा मृदु।
विषमं चेति तेषां तु यः समोऽग्निः स शस्यते॥
भेस६.११.५
भजतां गुरु रूक्षं च दिवास्वप्नं च नित्यशः।
रात्रौ न वा संस्वपतां तथा वेगविधारिणाम्॥
भेस६.११.६
अध्यश्नतामजीर्णेऽन्ने ह्यतिस्नेहे विरेकिणाम्।
ज्वरान्मद्यप्रसङ्गाच्च तथाऽसात्म्यनिषेवणात्॥
भेस६.११.७
मधुरक्षीरनित्यानां तथा जलविहारिणाम्।
पिष्टान्नदधिशाकानामहृद्यानां निषेवणात्॥
भेस६.११.८
ईदृशैर्ग्रहणी जन्तोर्दूष्यतेऽति निषेवितैः।
मन्दा तीक्ष्णातिविषमा त्रिविधं सा प्रकुप्यति॥
भेस६.११.९
तथा रोगाः प्रवर्तन्ते ग्रहणीदोषजा नृणाम्।
ज्वरः कासः पाण्डुरोगः श्वयथुः परिकर्तिका॥
भेस६.११.१०
अरुचिश्चाविपाकश्च गुल्मार्शांसि भगन्दरम्।
अतिसारश्च कुष्ठं च शूलान्यलसको भ्रमः॥
भेस६.११.११
एतांश्चान्यांश्च जनयेद्रोगानस्यामिताशिनः।
ग्रहणी दूषिता जन्तोः सामा रोगान्निहन्ति वा॥
भेस६.११.१२
यस्याक्रान्ते हि कायाग्नौ श्लेष्मणा मधुराशिनः।
न पच्यतेऽन्नं कालेन स मन्दाग्निरिति स्मृतः॥
भेस६.११.१३
अग्नौ मन्दे कफेनास्य शीघ्रं भुक्तं न पच्यते।
स भूयो मृदुतां याति गुरुभोजनदूषितः॥
भेस६.११.१४
एवं रूपश्च वृद्धश्च कफे तस्य प्रशाम्यति।
एवं स विषमो नाम ग्रहणीदोष उच्यते॥
भेस६.११.१५
अग्निस्सोमक्षयाद्यस्य भृशं देहे प्रकुप्यति।
भुक्तं भुक्तं जरयते न च वर्णबलाय च॥
भेस६.११.१६
भुक्ते भुक्ते क्षुधाप्यस्य जायते न च पुष्यति।
अत्यग्निरिति तं विद्यात्स च दुःखतमः स्मृतः॥
भेस६.११.१७
इत्येष रोगस्त्रिविधः ग्रहणीसंश्रितो मया।
प्रोक्तस्तस्य चिकित्सां तु विस्तरेण निबोध मे॥
भेस६.११.१८
धान्वन्तरं पिबेत्सर्पिः प्राजापत्यमथापि वा।
ततोऽस्मै वमनं दद्यात्ततश्चोर्ध्वं विरेचनम्॥
भेस६.११.१९
पिप्पलीवर्धमानं वा पिबेत्क्षारागदानपि।
तक्रं मासं पिबेच्चापि गण्डीरारिष्टमेव वा॥
भेस६.११.२०
दाधिकं च पिबेत्सर्पिस्तैलं शैरीषमेव वा।
महद्यत्पञ्चगव्यं वा ... ... ... ... ... ... ॥ ... ... ... ... ... ... ... ... ... ... ... ... ...

॥द्वादशोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...
भेस६.१२.१
तालपत्रीकषायं तु मूत्राघातेषु दापयेत्।
भोजनं क्रौञ्चमांसेन मूत्राघातेषु शस्यते॥
भेस६.१२.२
पिष्ट्वा तु तस्य चैवास्थि क्षीरेण सह पाययेत्।
मूत्रकृच्छ्राणि शमयेदश्मरीं च भिनत्त्यपि॥
भेस६.१२.३
एभिर्यदि प्रयोगैस्तु शर्करा नोपशाम्यति।
तामुद्धरेच्छल्यहर्ता दृष्टकर्मा बहुश्रुतः॥
भेस६.१२.४
प्रतीघातादिन्द्रियस्य यस्य कृच्छ्रं प्रवर्तते।
अनुसन्नं च शूलं च शृणु तस्य चिकित्सितम्॥
भेस६.१२.५
बलातैलेन स्वभ्यक्तमुष्णाम्बुपरिषेचितम्।
आस्थापयेत्पाचनेन मुस्ताद्येन तु वस्तिना॥
भेस६.१२.६
प्रत्यागते निरूहे तं भोजयेत्सिद्धमोदनम्।
तनुना मुद्गयूषेण जाङ्गलेन रसेन वा॥
भेस६.१२.७
ततस्तु शुद्धाम्बरया नार्या स्नातानुलिप्तया।
इष्टया संविशेत्सार्धं कल्याणगुणयुक्तया॥
भेस६.१२.८
विशुद्धे रेतसो मार्गे मारुतः प्रगुणी भवेत्।
स्वं स्थानं मारुते प्राप्ते कृच्छ्रं तस्य निवर्तते॥
भेस६.१२.९
अष्टानां मूत्रकृच्छ्राणामेतदुक्तं चिकित्सितम्।
रूपाणि चैव सर्वेषां शिष्याणामर्थसिद्धये॥ इत्याह भगवानात्रेयः।
इति भेले द्वादशोऽध्यायः॥


॥त्रयोदशोऽध्यायः॥[सम्पाद्यताम्]

अथात उदरचिकित्सां व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.१३.१
भाराभिहतदेहस्य कटुतिक्तोपसेविनः।
वायुस्सर्वशरीरस्थो दुष्टो वातहताः सिराः॥
भेस६.१३.२
गत्वा हि पूरयेत्कोष्ठं तथाध्मानं करोति च।
दृतिवच्च समुन्नद्धमुदरं स्यात्समन्ततः॥
भेस६.१३.३
कृष्णराजिवनद्धं च कृष्णरोमाचितं तथा।
एतद्वातोदरं विद्यादेतैर्लिङ्गैस्समन्वितम्॥
भेस६.१३.४
उष्णाभितप्तो यो जन्तुर्विदाहीन्युपसेवते।
व्यायामोपरतश्चैव क्लान्तो यश्चोदकं पिबेत्॥
भेस६.१३.५
तस्य देहे कफो दुष्टः सिराः कफवहा गतः।
उत्सन्नो दूषितश्चापि कोष्ठमभ्यन्तराश्रितः॥
भेस६.१३.६
सर्वमाध्मापयेत्कोष्ठं वेदनां च करोति सः।
शुक्लराजिवनद्धं च शुक्लरोमाचितं तथा॥
भेस६.१३.७
तस्य सीदन्ति गात्राणि मुखस्रावश्च जायते।
दुर्गन्धितास्यमालस्यं सकफोदरिलक्षणम्॥
भेस६.१३.८
समश्नतः सर्वरसान् मिथ्याहारविहारिणः।
तस्यान्यार्धमिवात्यर्थमुदरं संप्रकाशते॥
भेस६.१३.९
नानाराजिवनद्धं च नानारोमाचितं तथा।
तथा नानावेदनाड्यमुदरं सान्निपातिकम्॥
भेस६.१३.१०
आमनन्त्युदरं नार्यो गरमात्मोद्भवं यदा।
कर्णरोधकृतं चापि शुक्लं जिह्वामलं नखम्॥
भेस६.१३.११
मनुष्यमेदोरोमाणि स्त्रीणामार्तवशोणितम्।
पुरीषं च प्रयच्छन्ति भक्त दुष्टोदरं भवेत्॥
भेस६.१३.१२
सर्ववर्णसिरानद्धं नीलपीतप्रभं तथा।
नृणां दूष्योदरं नाम जायते सान्निपातिकम्॥
भेस६.१३.१३
तस्याङ्गमर्दः कासश्च श्वासो हिक्का च जायते।
निद्रा तन्द्रा तथालस्यं दाहश्चाङ्गगतो भवेत्॥
भेस६.१३.१४
सदनं सर्वगात्राणां शोषणं पाण्डुवर्णता।
विषपीते च यल्लिङ्गं तच्च तस्योपजायते॥
भेस६.१३.१५
एवं दूष्योदरं त्वेतैर्लिङ्गैर्मरणमृच्छति।
अभुक्त्वा यः पिबेन्नित्यमुदकं प्रातरुत्थितः॥
भेस६.१३.१६
वर्षाहेमन्तकालेषु पिबेद्यश्चोदकं बहु।
तस्योदरेऽधिका पीडा चान्यतः सम्प्रपद्यते॥
भेस६.१३.१७
सदनं रोमहर्षश्च शीताग्नित्वं शिरोग्रहः।
तथा स्निग्धावभासञ्च स्निग्धरोमाचितं च यत्॥
भेस६.१३.१८
एतैर्लिङ्गैस्समस्तैस्तु नृणां तदुदकोदरम्।
शङ्कुना स्नायुभेदेन मत्स्यानां वाथ कण्टकैः॥
भेस६.१३.१९
शकृत्तृणाग्रैर्वा भुक्तैरन्त्रं यस्य विभिद्यते।
तेनान्नपानं छिद्रेण स्रवेत्तस्यान्तरोदरे॥
भेस६.१३.२०
उन्नतं जायते तस्मादुदरं स्यात्समन्ततः।
सिराऽऽआयता जायते च त्वर्धे जठरसन्निधौ॥
भेस६.१३.२१
संस्राविणि च जठरे लक्षणं परिकीर्तितम्।
यः प्लवेल्लङ्घयेद्वापि यश्च व्यायच्छते नरः॥
भेस६.१३.२२
तेनास्यान्त्राणि तुद्यन्ते बध्यन्ते चाप्यथैकतः।
तथा मुञ्जैश्च बालैश्च भुक्तैरन्त्रं निवेष्ट्यते॥
भेस६.१३.२३
तेन बद्धं गुदं नृऋणां जायतेऽन्त्रनिपीडनात्।
उत्क्षिप्तकुक्षिर्भवति तथा संक्षिप्तमेहनः॥
भेस६.१३.२४
शूनाक्षः शूनवृषणः शूनहस्तस्तथैव च।
शूनपादगुदश्चैव सुप्ताङ्गश्चापि जायते॥
भेस६.१३.२५
नतोन्नतः समश्चापि नरो बद्धोदरी भवेत्।
आमधान्ययवान् यस्तु नरो भुङ्क्ते निषेवते॥
भेस६.१३.२६
सकेसरं फलं वापि भक्षयित्वोदकं पिबेत्।
हस्त्यश्वरथयानं च भुक्तमात्रे निषेवते॥
भेस६.१३.२७
महौषधं समरिचं द्वौ क्षारौ त्रिफला वचा।
यवानी कुञ्चिका हिङ्गु तिन्त्रिणीकाम्लवेतसौ॥
भेस६.१३.२८
धान्याजगन्धे त्रायन्ती दाडिमं सयवासकम्।
कटुका कौटजं बीजं सैन्धवं च समान् भिषक्॥
भेस६.१३.२९
त्रिवृता सप्तला दन्ती कम्पिल्लं नीलिकाऽभया।
सुवर्णक्षीरी द्विगुणं सर्वाण्येतानि चूर्णयेत्॥
भेस६.१३.३०
आजे गव्येऽथवा मूत्रे सप्ताहं परिभाव्य तम्।
द्विगुणं शर्करां चात्र दापयेत्त्र्यङ्गुलं पिबेत्॥
भेस६.१३.३१
गोमूत्रत्रिफलाक्षाररसैर्मद्यैः सुखाम्बुना।
सुवर्णसमकं चूर्णं सर्वरोगार्तिभेषजम्॥
भेस६.१३.३२
सर्वोदरप्लीहशोषगुल्महृद्रोगनाश्नम्।
वाताष्ठीलामथानाहं श्वयथुं सर्वगात्रजम्॥
भेस६.१३.३३
हलीमकामिलापाण्डुप्रमेहान् सज्वरान् जयेत्।
जीविते संशयं कृत्वा गरलं जठरी पिबेत्॥
भेस६.१३.३४
त्रपुसोर्वारुकं वापि मूलकं वापि दंशयेत्।
क्रुद्धेन कृष्णसर्पेण जठरी तानि भक्षयेत्॥
भेस६.१३.३५
कुक्षिं विपाट्य मानेन छिद्रमन्त्रस्य वीक्ष्य च।
ततः पिपीलिकादंशं छिद्रे त्वन्त्र्सय दापयेत्॥
भेस६.१३.३६
अन्त्रच्छिद्रे संगृहीते सीव्येत्कुक्षिं ततो भिषक्।
एवं छिद्रोदरं वैद्यः शल्यकर्तुरुपाचरेत्॥
भेस६.१३.३७
तथा बद्धगुदं चैव पाटयेच्छल्यशास्त्रवित्।
मुञ्जान् वालांस्तथोद्धृत्य बद्धं सीव्येत्ततो भिषक्॥
भेस६.१३.३८
दकवन्ति हि सर्वाणि जठराण्यक्रियावताम्।
व्यथनं तेषु कुर्वीत शल्यकर्तुः प्रयोगवित्॥
भेस६.१३.३९
वामे पार्श्वे त्वधः कुक्षेर्मुक्त्वा च चतुरङ्गुलम्।
नाभ्यां वा प्रणयेच्छस्त्रं मात्रायुक्तं चिकित्सकः॥
भेस६.१३.४०
विस्रावयेच्च जठरं भिषगामयपीडितम्।
मर्दयेदुदरं चास्य वेष्टनेन तु वेष्टयेत्॥
भेस६.१३.४१
वेष्टितं जठरं चास्य नाध्मापयति मारुतः।
पिबेद्यवागूं च ततो लवणस्नेहवर्जिताम्॥
भेस६.१३.४२
ततः परं तु क्षीरेण मासार्धं समुपाचरेत्।
ततः क्षीरयवागूं च, त्रीन्मासांस्तु यवान्भिषक्॥
भेस६.१३.४३
भुञ्जीतालवणं तस्मात्त्रीन्मासान् लघु भोजनम्।
ततः सलवणं भोज्यमुच्यते तूदरेऽपि च॥
भेस६.१३.४४
के तूदराणामिच्छन्ति लवणं योगवाहतः।
केचित्तु जठरे प्राहुरग्निकर्म चिकित्सकाः॥
भेस६.१३.४५
अजाततोये जठरे पवनश्लेष्मसम्भवे।
प्लीहोदरं हिनस्त्यग्निः जयेत्तस्माद्विशेषतः॥
भेस६.१३.४६
निवृत्तिर्वर्णिता, तत्र सलिलोदरखेदिनः।
... ... यावत्पेया प्रकोदरम्(?)॥
भेस६.१३.४७
मण्डलं निर्मितं यच्च श्वयथुः स्पर्शने मृदुः।
आकोटितमशब्दं च न च राजिसमाकुलम्॥
भेस६.१३.४८
आक्रम्यमाणं नाभ्यान्तु मृदुरेव हि सर्पति।
ततश्च सलिलोद्भूतिं पिच्छनैश्च विनिर्दिशेत्।
क्रियायतीश्च सर्वाणि सक्रियापिश्च देहिनाम्(?)॥
भेस६.१३.४९
भल्लातकानां पवनाहतानां वृन्तच्युतानामिह चाठकं स्यात्।
तदिष्टकाचूर्णकणैर्विघृष्य प्रक्षालयित्वा विसृजेत् प्रवाते॥
भेस६.१३.५०
शुष्कं पुनस्तद्विदलीकृतं च विनिक्षिपेदप्सु चतुर्गुणासु।
पादावशिष्टं परिपूतशीतं क्षीरेण तुल्येन पुनः पचेत॥
भेस६.१३.५१
तदर्धया शर्करयावगाढं लोहाभयाव्योषकचूर्णयुक्तम्।
एतत्समं शर्करपादयुक्तं ततः खजेनोन्मथितं निधाय॥
भेस६.१३.५२
प्रस्थद्वयेनामलकीमधूनां शीतेऽथ धान्येन पुनः पचेत।
तत्सप्तरात्रादुपजातवीर्यं सुधारसादप्यधिकत्वमेति॥
भेस६.१३.५३
प्रातर्विशुद्धीकृतदेहभाजां मात्रां ददीतात्मशरीरयोग्याम्।
न चान्नपाने परिहार्यमस्ति न चोष्णवाताध्वनि मैथुने च॥
भेस६.१३.५४
जन्तुर्नितान्तं नरसिंहवत्स्याद् भवेन्नरः काञ्चनराशिसारः।
दन्ताश्च शीर्णाः पुनरुद्भवन्ति केशाश्च शुक्लाः पुनरेव कृष्णाः॥
भेस६.१३.५५
विशीर्णकर्णाङ्गुलिनासिकोऽपि कृतान्तदन्तान्तगतोऽपि कुष्ठी।
सोऽपि क्रमेणाङ्गुलिगात्रशाखस्तरुर्यथा रोहति वारिसिक्तः॥ भेस६.१३.?। महामयूराञ्जयति स्वरेण बलेन नागांस्तुरगाञ्जवेन।
स्मृमतिबलमसत्य(?) ... ... ... ... ....॥

॥चतुर्दशोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...
भेस६.१४.१
वंशको नक्तमालश्च मूर्वा कटुकरोहिणी।
तर्कारी प्रग्रहश्चैव पीलूनि निचुलानि च॥
भेस६.१४.२
असनः स्प्तपर्णश्च त्रिफला मरिचानि च।
एतानि समभागानि कषायमुपपादयेत्॥
भेस६.१४.३
एतान्येव च चूर्णानि माक्षिकेण पिबेन्नरः।
अनेनैव कषायेण भोजयेत्सिद्धमोदनम्॥
भेस६.१४.४
पिचुमन्दस्य मूलानि चित्रको हस्तिपिप्पली।
त्वक्पत्रफलमूलानि करञ्जात्सर्षपास्तथा॥
भेस६.१४.५
तुल्यान्येतानि सर्वाणि वल्मीकस्य च मृत्तिका।
गवां मूत्रेण पिष्टानि श्लक्ष्णान्युद्वर्तनं वरम्॥
भेस६.१४.६
रास्ना वचा ह्यर्कमूलं हिंस्रा दन्ती तथैव च।
शतपुष्पा च कुष्ठं च द्वे हरिद्रे पुनर्नवा॥
भेस६.१४.७
अश्वमूत्रे त्वपामार्गः शारिवा नक्तमालिका।
वल्मीकमृत्तिका युक्तमेतैरुद्वर्तनं वरम्॥
भेस६.१४.८
करजस्सुरसो बिल्वं देवदारु वचार्जुनः।
तर्कारी मेषशृङ्गी च शोभाञ्जनक आरणी॥
भेस६.१४.९
उभे बृहत्यौ श्योनाकः श्बदंष्ट्रा खदिरासनौ।
जले सिद्धैरिमैस्त्तुल्यैः कषायपरिषेचनम्॥
भेस६.१४.१०
एतैरेवौषधैस्तुल्यैः क्षीरपिष्टं प्रलेपयेत्।
अनेन विधिना शीघ्रमूरुस्तम्भः प्रशाम्यति॥
भेस६.१४.११
द्वे पञ्चमूल्यौ त्रिफला चित्रको देवदारु च।
एकाष्ठीला त्वपामार्गः श्रेयसी वायसी सुधा॥
भेस६.१४.१२
काला भार्ङ्गी पृथक्पर्णी सुवहा मदयन्तिका।
काश्मरी च विशल्या च हिंस्रा हेमविदारिका॥
भेस६.१४.१३
चिरबिल्वो ह्यशोकश्च बला चांशुमती तथा।
वयस्था पीलपर्णी च पाठा चैव शतावरी॥
भेस६.१४.१४
एषां पंचपलान् भागान् जलद्रोणेषु सप्तसु।
अष्टभागावशेषं च पचेत्तैलाढकं शनैः॥
भेस६.१४.१५
कुष्ठं च शतपुष्पा च चित्रकस्त्र्यूषणं तथा।
देवदार्वगरु श्रेष्ठं विडङ्गं मुस्तमेव च॥
भेस६.१४.१६
अश्वगन्धा च पाठा च मूर्वा श्योनाक एव च।
पिप्पल्यः शृङ्गबेरं च दन्ती हिङ्ग्वम्लवेतसौ॥
भेस६.१४.१७
गर्भेणानेन वैद्यस्तु कषायेण सुसाधयेत्।
सिद्धं पूतं च शीतं च क्षौद्राज्येनानुसंसृजेत्॥
भेस६.१४.१८
तदस्य दद्यात्पानार्थं तथैवाभ्यज्जनादिषु।
ऊरुस्तम्भश्चिरोत्पन्नस्तैलेनैतेन शाम्यति॥
भेस६.१४.१९
श्लीपदान्याठ्यवातं च खुडवातांश्च नाशयेत्।
पिप्पलीवर्धमानं वा माक्षिकेण जलेन वा॥
भेस६.१४.२०
ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव वा।
क्षाराः क्षारागदाश्चैव निरूहाश्च पृथग्विधाः॥
भेस६.१४.२१
हरीतक्याः प्रयोगो वा ह्यूरुस्तम्भे प्रशस्यते।
विलेख्यमानो हि यतः क्षीणमांसबलो भवेत्॥
भेस६.१४.२२
शरीररक्षणार्थाय भोजयेद् बृंहयेदपि।
भुञ्जीत षष्टिकान् जीर्णान् पुराणांश्चैव शालिकान्॥
भेस६.१४.२३
जाङ्गलानि च मांसानि सेवेत मृगपक्षिणाम्।
ऊरुस्तम्भपरीतो यो यदा वाताधिको भवेत्॥
भेस६.१४.२४
सम्यक् प्रोक्तमिदं सर्वमूरुस्तम्भचिकित्सितम्॥ इत्याह भगवानात्रेयः।
इति भेले चतुर्दशोऽध्यायः॥


॥पञ्चदशोऽध्यायः॥[सम्पाद्यताम्]

अथातो विसर्पवातशोणितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.१५.१
वातात्पित्तात्कफाच्चैव सन्निपाताद् द्वयादपि।
विसर्पाः पञ्च निर्दिष्टास्तेषां वक्ष्यामि लक्षणम्॥
भेस६.१५.२
कषायकटुरूक्षांश्च यो नित्यमुपसेवते।
तस्य वायुः प्रकुपितः त्वग्रक्तं मांसमेव च॥
भेस६.१५.३
सिराश्च समधिष्ठाय विसर्पं जनयेद्बली।
पिपीलिकां विसर्पन्तीं मन्यते तु, घृतेऽपि च (?)॥
भेस६.१५.४
जृम्भिका तालुशोषश्च पार्श्वशूलग्रहज्वराः।
घोरश्चारुणवर्णाभः श्वयथुः कृष्ण एव च॥
भेस६.१५.५
इत्येष वातवीसर्पः तस्य कर्मविधिं शृणु।
तस्य निर्वापणं कुर्यात्क्षीरेण परिषेचनम्॥
भेस६.१५.६
पीत्वा च तैल्वकं सर्पिर्हरीतक्या विरेचनम्।
अविदाहीनि चान्नानि भोजनार्ह्तं प्रदापयेत्॥
भेस६.१५.७
क्षीरं च यवचूर्णं च घृतं चैवात्र साधयेत्।
यष्टीमधुकसंयुक्तमेतदालेपनं वरम्॥
भेस६.१५.८
गवां मूत्रं च क्षीरं च गोशकृद्रस एव वा।
पञ्चमूली च तत्सिद्धं जलं सेके प्रशस्यते॥
भेस६.१५.९
रास्नां च मधुकं चैव पेषयेद्दधिमस्तुना।
प्रदेहो वातवीसर्पे घृताक्तस्य प्रशस्यते॥
भेस६.१५.१०
शृङ्गाणि क्षीरिवृक्षाणां मधुकं नीलमुत्पलम्।
क्षीरसिद्धमिदं कोष्णं वातवीसर्पनाशनम्॥
भेस६.१५.११
एतैरेवौषधैस्सर्वैः क्षीरपिष्टैः प्रलेपयेत्।
सुखोष्णैर्वातवीसर्पे तथा सम्पद्यते सुखी॥
भेस६.१५.१२
अथ वा दधिमण्डेन तैलक्षीरघृतेन वा।
सेचयन्ति सुखोष्णेन विसर्पे वातसम्भवे॥
भेस६.१५.१३
कट्वम्ललवणक्षारतीक्ष्णं ह्युष्णानि चाश्नतः।
तस्य पित्तं प्रकुपितं शिरामांसत्वगाश्रितम्॥
भेस६.१५.१४
रक्तेन सह संसृष्टं शरीरे देहवेष्टितम्।
ज्वलयित्वा ज्वरं पूर्वं ज्वलिताग्निशिखोपमम्॥
भेस६.१५.१५
विसर्पं जनयेत्तीव्रं दारुणं पित्तसम्भवम्।
स्फोटास्तस्योपजायन्ते वह्निनेव समीरिताः॥
भेस६.१५.१६
यत्र यत्र च जायन्ते स्फोटास्तत्र विलीयते।
हारिद्रं हरितं कृष्णं कोषं मुञ्चत्यभीक्ष्णशः॥
भेस६.१५.१७
एषोऽग्निकल्पो वीसर्पः पैत्तिको देहनाशनः।
चिकित्सां तत्र कुर्वीत प्रत्याख्याय चिकित्सकः॥
भेस६.१५.१८
विरेचनं स्नेहयुक्तं पाययेत्तं चिकित्सकः।
परिषेकांश्च कुर्वीत क्षीरैरिक्षुरसेन वा॥
भेस६.१५.१९
अभीक्ष्णं सेचयेच्चैव हिमकल्पेन वारिणा।
क्षीरिवृक्षकषायैर्वा कषायैर्मधुकस्य वा॥
भेस६.१५.२०
प्रदेहं त्वस्य कुर्वीत शतधैतेन सर्पिषा।
मधुकोत्पलकल्कैस्तु क्षीरपिष्टैः प्रलेपयेत्॥
भेस६.१५.२१
मञ्जिष्ठा पद्मकं पद्मं चन्दनं नीलमुत्पलम्।
मधूकं मधुकं द्राक्षा लामज्जककसेरुकौ॥
भेस६.१५.२२
मृणालानि विदारी च समुद्रान्ता शतावरी।
सहस्रवीर्या नलदं बला दन्ती मधूलिका॥
भेस६.१५.२३
एतानि समभागानि जलद्रोणे विभावयेत्।
एतैरेव कषायैश्च पिष्टैश्चैव विपाचयेत्॥
भेस६.१५.२४
घृतं तस्य हितोऽभ्यङ्गः विसर्पे पित्तसम्भवे।
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसजास्तथा॥
भेस६.१५.२५
कल्काः पञ्च प्रशस्यन्ते क्षीरपिष्टाः प्रलेपने।
श्लेष्मलान्यन्नपानानि श्लेष्मलो यो निषेवते॥
भेस६.१५.२६
तस्य श्लेष्मा प्रकुपितो रक्ते तिष्ठति देहिनः।
ततोऽस्य श्लेष्मवीसर्पो जायते मन्दवेदनः॥
भेस६.१५.२७
स्फोटाश्च तस्य जायन्ते श्वयथुः पाण्डुरेव च।
तस्य तन्द्रा च निद्रा च ज्वरः कासः शिरोग्रहः॥
भेस६.१५.२८
चिराच्च पाकं व्रजति विसर्पः श्लेष्मसम्भवः।
वमनं रेचनं चैव कुर्यात्तस्य यथाबलम्॥
भेस६.१५.२९
तैल्वकं वा पिबेत्सर्पिः पुराणं घृतमेव वा।
सर्जाश्वकर्णौ सुस्ता च सल्लकी सोमवल्कलः॥
भेस६.१५.३०
द्वौ करञ्जौ कपित्थत्वक् शिरीषोशीरसारिबाः।
क्षीरिवृक्षप्रवालानि कुटजत्वग्धनज्जयः॥
भेस६.१५.३१
धवः पलाशः स्योनाकः खदिरो वेतसासनौ।
कषायं साधयेदेतं सुखोष्णेन च सेचयेत्॥
भेस६.१५.३२
अजाक्षीरेण पिष्टैस्तु कल्कैरेतैः प्रलेपयेत्।
तैलप्रस्थं पचेदेभिः कषायैरथ पेषितैः॥
भेस६.१५.३३
अभ्यञ्जनेन वीसर्पः श्लैष्मिकस्तेन शाम्यति।
गोमांसखण्डैरुष्णैश्च विसर्पमुपनाहयेत्॥
भेस६.१५.३४
मज्जभिर्जाङ्गलानां च तदभ्यङ्गं प्रकल्पयेत्।
मांसोपनाहं कुर्वीत श्लैष्मिके वातिकेऽपि वा॥
भेस६.१५.३५
जाङ्गलैर्गव्यमायूरैः कुक्कुटैश्छागलैरपि।
यदा प्रकुपिता दोषास्त्रयस्त्वङ्मांसमाश्रिताः॥
भेस६.१५.३६
रक्तेन सह संसृष्टाः शरीरोद्देशचेष्टिताः।
संश्यामं मण्डलं तत्र जायते कृष्णमेव च॥
भेस६.१५.३७
अथ लोहितपर्यन्तं विसर्पति सवेदनम्।
ज्वरस्तृष्णा च दाहश्च छर्दिर्मूर्छा भ्रमस्तथा॥
भेस६.१५.३८
यद्यच्च स्पृश्यते तेन तत्रोष्मा न निवर्तते।
दग्धे च शोणिते गात्रं शुष्कालाबुनिभं भवेत्॥
भेस६.१५.३९
... ... ... ... ... यां तत्र कारयेत्।
सुकुमारं बलातैलं तैलं शैरीषमेव वा।
धान्वन्तरं चापि घृतं पाययेद्वातशोणिते॥
भेस६.१५.४०
पिप्पलीवर्धमानं वा तक्रासवमथापि वा।
खादिरं वा निषेवेत वातशोणितपीडितः॥
भेस६.१५.४१
नित्यमास्थापयेच्चैनं मुस्ताद्येन तु वस्तिना।
पायये---रवस्तिभ्याम्(?) अथवा माधुतैलिकैः॥
भेस६.१५.४२
यच्चिकित्सितमाख्यातं विसर्पे वातसम्भवे।
तद्वातशोणिते सर्वं कर्तव्यं शोणितोत्तरे॥
भेस६.१५.४३
यदि शोणितमाक्रान्तं गम्भीरे वातशोणिते।
वातवत्तच्चिकित्सेत स्नेहपानानुवासनैः॥
भेस६.१५.४४
मयूरकौञ्चलावानां वसा मज्जा च लामतः।
पानेऽभ्यङ्गे च वस्तौ च बलातैलं प्रशस्यते॥
भेस६.१५.४५
अक्रियाभिः क्रियाभिर्वा पक्वं यद्वातशोणितम्।
पाटनं तत्र कुर्वीत सुविकल्प्य प्रयोगवित्॥ इत्याह भगवानात्रेयः।
इति भेले पञ्चदशोऽध्यायः॥


॥षोडशोऽध्यायः॥[सम्पाद्यताम्]

अथातोऽर्शसां चिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.१६.१
वातात्पित्तात्कफाच्चैव सन्निपातात्तथैव च।
सहजानि च रक्ताच्च षोडार्शांस्यथ देहिनाम्॥
भेस६.१६.२
तेषां निदानं वक्ष्यामि चिकित्सां चानुपूर्वशः।
अदृश्यानां च यत्प्रोक्तं दृश्यानां च यथाक्रमम्॥
भेस६.१६.३
विदाहिगुरुरूक्षाणामानूपौदकसेवनात्।
दधिदुग्धगुडादीनां पिशितानां च भोजिनाम्॥
भेस६.१६.४
यवानामुदकानां च दुष्टानामवचारणात्।
नित्याजीर्णभुजां चापि वेगानां च विधारणात्॥
भेस६.१६.५
प्रवाहणाच्चतिमात्रं मैथुनस्यातिसेवनात्।
दुष्टपानप्रसङ्गाच्च कठिनात् पृष्ठपीडनात्॥
भेस६.१६.६
निरूहस्यातियोगाच्च वस्तीनां विभ्रमादपि।
स्नेहपानाच्च विभ्रान्तान्मद्यदोषाच्छ्रमात्क्षयात्॥
भेस६.१६.७
एभिः प्रकुपिता दोषा वातपित्तकफास्त्रयः।
एकशस्सर्वशो वाथ द्वन्द्वशः शोणितेन वा॥
भेस६.१६.८
गुदाभिष्यन्दमेवाशु कर्वन्ति गुदमाश्रिताः।
कीलास्तत्र प्रहोहन्ति सूक्ष्मसर्षपसन्निभाः॥
भेस६.१६.९
यवमुद्गादिनिष्पावकर्कन्धुबदरोपमाः।
शरीराङ्गुष्ठमात्रा वा ताम्रा गोस्तनसन्निभाः॥
भेस६.१६.१०
निरूढास्ते गुदे कीलाः स्तम्भयन्ति गुदं भृशम्।
स्रोतसां गुदमानह्य मूलं बध्नन्ति वाप्यथ॥
भेस६.१६.११
निरोधात्स्रोतसां तेषामूर्ध्वं दोषास्समुत्थिताः।
एकैकं दूषयित्वा तु रोगान् कुर्वन्ति चाशयान्॥ ६.१भेस६.१२.। पुरीषभेदो वैवर्ण्यं शूलं निर्वाहिका तथा।
अवदारस्तृषा दाहो गुदपृष्ठे मेदो ज्वरः॥
भेस६.१६.१३
अरुचिश्चाविपाकश्च गात्रक्षयबलक्षयौ।
पण्डुत्वं पर्वभेदश्च श्वयथुश्चाक्षिकूटयोः॥
भेस६.१६.१४
ग्लानिर्मैथुनहानिश्च गुदभ्रंशो गुदग्रहः।
अर्शसां रूपसादृश्यं पृथक्त्वं तेषु वक्ष्यते॥
भेस६.१६.१५
कृष्णं पुरीषं भवति रूक्षं किंचित्सफेनिलम्।
नित्यं गाढपुरीषश्च भिन्नवर्चाः पुनः पुनः॥
भेस६.१६.१६
ऊरुपृष्टकटिग्राहो नित्यानद्धसुदुर्बलः।
जायते पर्वभेदश्च कर्णशूलस्तृषा भ्रमः॥
भेस६.१६.१७
अर्शो यकृद्धि पवनो जठरं वापि वर्धयेत्।
शूलाश्चास्योपजायन्त आध्मानं च पुनः पुनः॥
भेस६.१६.१८
ग्रहणी दूषिता चास्य वैवर्ण्यं चोपजायते।
हृत्पार्श्वकोष्ठशूलाश्च दुर्नाम्न्यनिलसम्भवे॥
भेस६.१६.१९
सज्वरं पिटकं तृष्णा तीक्ष्णवेगं सशोणितम्।
उष्णं द्रवं सदाहं च पित्तार्शस्सूपवेश्यते॥
भेस६.१६.२०
पाण्डुवर्णश्च भवति पीताभासश्च लक्ष्यते।
दह्यते च गुदोऽत्यर्थः गुदपाकश्च जायते॥
भेस६.१६.२१
श्लेष्मजेष्वपि चार्शस्सु पिच्छिलं शुक्लसंप्लवम्।
पुरीषं सकफं याति स्तोकं स्तोकं सवेदनम्॥
भेस६.१६.२२
उपविष्टश्चिरं चास्ते निःस्वनं चोपवेश्यते।
शूयते मेढ्रवृषणं वस्तिश्च गुद एव च॥
भेस६.१६.२३
अरुचिश्चाविपाकश्च न च पक्वं विरिच्यते।
श्वयथुश्च विशत्येनं विशेषेणाक्षिकूटयोः॥
भेस६.१६.२४
एतच्छलेष्मसमुत्थानामर्शसां रूपमुच्यते।
सन्निपातसमुत्थानं जानीयात्सर्वलक्षणैः॥
भेस६.१६.२५
सङ्घातरक्तं विस्रं वा भिन्नं वा पित्तमिश्रितम्।
चिरेण च प्रवाहोऽस्य प्रसक्तं वा कदाचन॥
भेस६.१६.२६
अभिष्यण्णानि मुञ्चन्ति रक्तार्शांस्यथ शोणितम्।
वहन्ति धारया रक्तं यथा विद्धा सिरा स्थिता॥
भेस६.१६.२७
रजस्वलेव युवती रक्तं मुञ्चन्त्यभीक्ष्णशः।
अतीवमुः द्रं सुरां(?) दन्तीं ककुभं समयूरकम्॥
भेस६.१६.२८
गवां च महिषीणां च मूत्राण्यथ समाचरेत्।
भस्मीकृत्य तु तं क्षारं युक्त्या मद्येन पाययेत्॥
भेस६.१६.२९
श्लेष्मार्शांसि प्रशमयेच्छवयथुं पाण्डुतामपि।
अर्शसां वातिकानां तु यदुक्तं वै चिकित्सितम्॥
भेस६.१६.३०
तदेव श्लैष्मिकाणां तु स्नेहवर्जं समाचरेत्।
रक्तजेष्वपि चार्शस्सु क्षीरमाजं प्रशस्यते॥
भेस६.१६.३१
ऋतुं वाप्ययनं वापि पिबेन्मासमथापि वा।
बलाबिल्वशलाटूनि त्रिफला हस्तिपिप्पली॥
भेस६.१६.३२
करञ्जमधुपालाशमधुकोत्पलतिन्दुकैः।
कल्कैरक्षसमैरेतैर्घृतप्रस्थं विपाचयेत्॥
भेस६.१६.३३
अजाक्षीरे दशगुणे तत्सिद्धं मात्रया पिबेत्।
एतद्रक्तसमुत्थानि पित्तजानि हि यानि च॥
भेस६.१६.३४
अर्शासि नाशयत्याशु छिन्नाभ्राणीव मारुतः।
लोध्रं दारुहरिद्रा च मज्जा बैभीतकी तथा॥
भेस६.१६.३५
तण्डुलोदकपीतानि मधुनार्शोविनाशनम्।
लाक्षा हरिद्रा मञ्जिष्ठा मधुकं नीलमुत्पलम्॥
भेस६.१६.३६
अजाक्षीरेण पीतानि रक्तजानां विनाशनम्।
शिरीषपुष्पं पुष्पं च कौटजं ककुभस्य च॥
भेस६.१६.३७
दार्वी हरिद्रा लोध्रं च धातकी कट्फलं वृषः।
एतेषां पाययेत्कल्कान्युक्तितस्तण्डुलाम्बुना॥
भेस६.१६.३८
मधुयुक्तः प्रशमयेदर्शो वै रक्तपित्तजम्।
मधुकं बदरं द्राक्षा मूलं च कुशकाशयोः॥
भेस६.१६.३९
तण्डुलोदकपीतानि मधुनार्शोविनाशनम्।
न्यग्रोधोदुम्बराश्वत्थबदरीप्लक्षवेतसात्॥
भेस६.१६.४०
पृथक् प्रवालान्यार्द्राणि द्विपलीनानि संहरेत्।
अवाक्पुष्प्याः पलान्यष्टवष्टौ दार्व्यास्तथैव च॥
भेस६.१६.४१
शालिपर्णीपृश्निपर्ण्योः पले द्वे द्वे समावपेत्।
द्वे रालशाकस्य पले सर्वमेतत्समावपेत्॥
भेस६.१६.४२
द्विद्रोणे सलिले साध्यमष्टभागावशेषितम्।
घृतस्य चाढकः साध्यः सकषायः सुखाम्बुना॥
भेस६.१६.४३
चाङ्गेर्याम्लिकया जातः स्वरसः स्नेहसम्मितः।
देवदार्वभया मुस्ता चित्रको बिल्वपेशिका॥
भेस६.१६.४४
कट्फलं शृङ्गबेरं च पिप्पली चन्दनं तथा।
सौवीरमञ्जनं मूलं पिप्पल्यास्तिक्तरोहिणी॥
भेस६.१६.४५
गुडप्रियङ्गुपुष्पं च शाल्मलीपिच्छसाह्वया।
वत्सकस्य च बीजानि तथैवातिविषा वचा॥
भेस६.१६.४६
एतानक्षसमान् भागान् पृथग्दत्वा विपाचयेत्।
एतत्सिद्धं घृतं युक्त्या रक्तार्शो वै विनाशयेत्॥
भेस६.१६.४७
पित्तगुल्ममतीसारं शूलं ज्वरमरोचकम्।
स्त्रीणामसृग्दरं घोरं रक्तपित्तं प्रवाहिकाम्॥
भेस६.१६.४८
पाण्डुरोगं विषं कासं कृमींश्चैवापकर्षति।
नाशनं श्लेष्मजातानां कायाग्नेर्दीपनं परम्॥
भेस६.१६.४९
गर्भाधानं च वन्ध्यानां शोषिणां चामृतोपमम्।
चाङ्गेरीघृतमित्येतत् ख्यातमर्शोविनाशनम्॥
भेस६.१६.५०
बलवर्णकरं चैव रक्तगुल्महरं तथा।
पित्तजेष्वपि चार्शस्सु हितं तद्रक्तजेष्वपि॥
भेस६.१६.५१
सन्निपातसमुत्थेषु सर्वेष्वेव च पूजितम्।
अर्शसां सहजानान्तु यथाप्रकृति चाचरेत्॥
भेस६.१६.५२
चिकित्सितं स्वयं बुद्ध्या सम्प्रधार्य यथाबलम्।
त्रिपलं शृङ्गबेरस्य चतुर्थं मरिचस्य च॥
भेस६.१६.५३
पिप्पली कुडवार्धं च चव्यस्य पलमेव च।
तालीसपत्रस्य पलं पलार्धं केसरस्य च॥
भेस६.१६.५४
द्वे पले पिप्पलीमूलं चित्रकस्य पलं तथा।
तथा त्वक्पत्रयोः कर्षौ सूक्ष्मैलाकर्षमेव च॥
भेस६.१६.५५
त्रिंशद्गुडपले शुद्धे चूर्णान्येतानि साधयेत्।
ततोऽक्षमात्रा वटिकाः प्राणदा इति विश्रुताः॥
भेस६.१६.५६
तालीसपत्रवटकास्त एव परिकीर्तिताः।
पूर्वं भक्तस्य पश्चाद्वा भक्षयेत्तु यथाबलम्॥
भेस६.१६.५७
मद्यैर्मांसरसैर्यूषैः क्षीरैश्चाप्युपभोजयेत्।
एतेन हन्ति कफजान्यर्शांसि सहजानि च॥
भेस६.१६.५८
वातपित्तसमुत्थानि रक्तजानीतराणि च।
मदात्यये मूत्रकृच्छ्रे प्रमेहे हृदयग्रहे॥
भेस६.१६.५९
विषज्वरे पार्श्वशूले क्षते क्षीणे विरेचिते।
मन्दाग्निविषमाग्नीनां तथैव कृमिकोष्ठिनाम्॥
भेस६.१६.६०
शूलगुल्मपरीतानां छर्द्यतीसारिणामपि।
हृद्रोगिणां कामलिनां शोषिणामूर्ध्ववातिनाम्॥
भेस६.१६.६१
कासश्वासपरीतानां सेव्याश्च वटकाः शुभाः।
भूयिष्ठं सहजानीह क्षपयन्ति शरीरिणम्॥
भेस६.१६.६२
तस्माच्छोषोपचारेण कुर्यात्तस्य चिकित्सितम्।
रोगानीकस्य सर्वस्य परमर्शः सुकीर्तितम्॥
भेस६.१६.६३
तस्मादर्शो विस्तरेण चिकित्सेत्तु चिकित्सकः।
शस्त्रेण छेदनं तेषां क्षारेण दहनं तथा॥
भेस६.१६.६४
शल्यकर्ता प्रयुञ्जीत दृष्टकर्मा चिकित्सितम्।
आयुर्वेदविदा यत्तु प्रयोक्तव्यं चिकित्सितम्॥
भेस६.१६.६५
आलेपनाभ्यङ्गविधिं स्वेदकर्म च तच्छृणु।
अभ्यज्य नाभिं कुक्षिं च वस्तिमुष्कौ गुदं तथा॥
भेस६.१६.६६
अम्लैः क्षीरैश्च मूत्रैश्च सुखोष्णैः परिषेचयेत्।
तरुणैर्मूलकैः स्विन्नैस्तथा गृज्जनकैरपि॥
भेस६.१६.६७
सुखोष्णैः स्वेदयेद्युक्त्या पिण्याकैर्गोमयेन वा।
राठमेरण्डमूलं च मधूकं देवदारु च॥
भेस६.१६.६८
यवचूर्णनयुक्तानि क्षीरेणालोड्य पाययेत्।
तेनोपनाहं कुर्वीत स्वेदयेच्च पुनः पुनः॥
भेस६.१६.६९
अर्शांसि शममायान्ति वेदना च निवर्तते।
वृषार्कनक्तमालानां काश्मर्यादण्डयोस्तथा॥
भेस६.१६.७०
पत्रक्वाथैः स्वेदयेत्तु तत्र चैवोपवेशयेत्।
महानिम्बं शृङ्गबेरं कुष्ठं कासीसमेव च॥
भेस६.१६.७१
सैन्धवं चित्रकं दन्तीं करवीरं शिलाकणाम्।
पूतिकं वरुणाद्वल्कं विदारीं लाङ्गलाह्वयाम्॥
भेस६.१६.७२
विडङ्गं हेमदुग्धां च हरितालं च पेषयेत्।
गर्भेणानेन विपचेत् तैलं मूत्रचतुर्गुणे॥
भेस६.१६.७३
स्नुह्यर्कक्षीरयोश्चात्र कुडवः कुडवो भवेत्।
एतदालेपनं युक्तमर्शसां शमनं परम्॥
भेस६.१६.७४
क्षारकर्मकरं ह्येतन्न च दूषयते गुदम्।
कुलीरशृङ्गी हस्त्यस्थि बला लाङ्गलिकी तथा॥
भेस६.१६.७५
हिङ्गु कुष्ठं च तुत्थं च बिल्वं भल्लातकानि च।
अर्शसां लेपनं तेन सप्तरात्रं पुनः पुनः॥
भेस६.१६.७६
शिरीषबीजं द्वौ क्षारौ लङ्गली सैन्धवं तथा।
स्नुहीक्षीरेण पिष्टानि गवां पित्तेन भावयेत्॥
भेस६.१६.७७
अर्णांसि लेपयेत्तेन सप्तरात्रं पुनः पुनः।
एतेन लिप्तान्यर्शांसि विनश्यन्ति न संशयः॥
भेस६.१६.७८
शिग्रु ... ... ... ... ... ... ... ।
सर्वमेकत्र संहृत्य स्नुहीक्षीरेण पेषयेत्॥
भेस६.१६.७९
करवीरोऽनवद्यश्च मालती स्वर्णयूथिका।
प्रक्षालनकषायोऽयमर्शसां हित उच्यते॥
भेस६.१६.८०
सक्षौद्रं नवनीतं तु प्रलेपो व्रणरोपणः।
दह्यते सप्तरात्रेण पुंस्त्वं च न विनश्यति॥
भेस६.१६.८१
सौर्मिकाबिददं ... ... ... ... ... ... ।
... ... र्शात्रिकटुकं स्नुहीक्षीरेण पेषयेत्॥
भेस६.१६.८२
एतदालेपनं श्रेष्ठं दुर्नामानं विनाशयेत्।
स्वर्णक्षीरी तु ... ... ... त्सकम्॥
भेस६.१६.८३
कुक्कुट्स्य पुरीषं च स्नुहीक्षीरेण पेषयेत्।
एतदालेपनं श्रेष्ठमर्शसां क्षारसम्मितम्॥
भेस६.१६.८४
दह्यन्तेऽर्शांसि सप्ताहात् पुंस्त्वं च न विनश्यति।
यवास्सिद्धार्थकाश्चैव भल्लातकमथो वसा॥
भेस६.१६.८५
धूपनं चन्दनं कुष्ठं शिंसपासार एव च।
गवां शकृच्च वाराहं पत्रे वारिष्टशिग्रुजे॥
भेस६.१६.८६
घृतमिश्रं प्रशंसन्ति श्रेष्ठं धूपनमर्शसाम्।
रक्तपित्तसमुत्थेषु प्रशस्ताः क्षीरवस्तयः॥
भेस६.१६.८७
तीक्ष्णाः कफसमुत्थेषु वातिकेष्वनुवासनम्।
सन्निपातादसाध्यानि चिरोत्थानीह यानि तु।
रक्तजास्सहजा याप्याः साध्या अन्ये त्रयोऽपि ते॥ इत्याह भगवानात्रेयः।
इति भेले षोडशोऽध्यायः॥

॥सप्तदशोऽध्यायः॥[सम्पाद्यताम्]

अथातः श्वयथुचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.१७.१
यः क्षीणमांसो मन्दाग्निः व्याधियुक्तस्सुदुर्बलः।
गुरूणि सेवतेऽत्यर्थमम्लपित्तकराणि च॥
भेस६.१७.२
सद्यो वान्तो विरिक्तो वा गुरूण्यन्नानि सेवते।
उपोषितश्च योऽत्यर्थं शाकमूलफलाशनः॥
भेस६.१७.३
मत्स्यान् दधि पयो भुङ्क्ते दिवास्वप्नरतिश्च यः।
अपथ्याजीर्णभोजी च नरो व्यायामसेवितः॥
भेस६.१७.४
यश्च तिक्तकषायाणि क्षाराम्लकटुकानि च।
लघूनि सेवतेऽत्यर्थं रूक्षाणि तु विशेषतः॥
भेस६.१७.५
तस्य वातः प्रकुपितः शिरा बाह्याः प्रपद्यते।
स पित्तं कोपयत्याशु रक्तं श्लेष्माणमेव च॥
भेस६.१७.६
सिरास्ता दोषसम्पूर्णाः संविसर्पन्ति दारुणाः।
समुपेत्यैकदेशे वा सर्वगात्रेषु वा पुनः॥
भेस६.१७.७
एवं तच्छ्वयथुर्नाम व्याधिर्भवति दारुणः।
दोषैः पक्वाशयस्थैस्तैः सोऽधस्ताच्च्वयथुर्भवेत्॥
भेस६.१७.८
पादप्रवृत्तः श्वयथुर्नराणां नाशयत्यसून्।
योषितां मुखसम्भूत उभयोरपि गुह्यजः॥
भेस६.१७.९
भूयिष्ठमिह शोफस्तु दोषसङ्घातसंभवः।
यस्तेषां त्वधिको हि स्यात्स स्वरूपं हि दर्शयेत्॥
भेस६.१७.१०
श्वयथुर्वातिको रूक्षः कृष्णवर्णस्सवेदनः।
करोति पीडितो निम्नमनिमित्तं च नश्यति॥
भेस६.१७.११
पैत्तिकश्वयथुर्नीलो लोहितः पीत एव वा।
रुजादाहपरीतश्च क्षिप्रपाको ज्वरान्वितः।
भेस६.१७.१२
शुक्लावभासो बहलः श्वेतपीतः स्थिरस्तथा।
आलम्बश्चाप्यनाशश्च भृशं शोफः कफात्मकः॥
भेस६.१७.१३
वातपित्तकफानान्तु रूपं स्यात्सान्निपातिके।
असाध्यश्चोपसर्गश्च श्वयथुः प्रसृतश्च यः॥
भेस६.१७.१४
नीलपीतारुणं ज्योतिर्दृश्यते श्वयथौ यदि।
किञ्चित्क्षरत्यस्लिलं तमसाध्यं विनिर्दिशेत्॥
भेस६.१७.१५
शस्त्रदण्डप्रहाराभ्यां प्रापातादस्थिभङ्गतः।
श्वयथुः पञ्चमो दृष्टो भूयिष्ठं स तु रक्तजः॥
भेस६.१७.१६
अभिघाताच्च जातानां मांसमस्थि च पीडितम्।
सिराः सन्दूषयत्याशु ततो रक्तं प्रदुष्यति॥
भेस६.१७.१७
स दाहरागाहुलो वर्धते तीव्रवेदनः।
क्षतवैसर्पिकीं तस्य क्रियां कुर्याच्चिकित्सकः॥
भेस६.१७.१८
एतल्लक्षणमुद्दिष्टं श्वयथूनां यथाविधि।
चिकित्सितं प्रवक्ष्यामि यथावदनुपूर्वशः॥
भेस६.१७.१९
कल्याणकं पिबेत्सर्पिर्महातिक्तमथापि वा।
महद्यत्पञ्चगव्यं वा ततस्संशोधयेन्नरम्॥
भेस६.१७.२०
हरीतकीं समधुकां सक्षौद्रं वापि लेहयेत्।
माक्षिकेण च कृष्णां च लिह्यात्क्षीरेण वा पिबेत्॥
भेस६.१७.२१
हरीतकी शृङ्गबेरं देवदारु च तत्समम्।
एतत्सुखाम्बुना पीतं श्वयथूनां निवारणम्॥
भेस६.१७.२२
अयोरजस्त्रिकटुकं त्रिवृता तिक्तरोहिणी।
त्रिफलारसपीतं तच्छ्वयथूनां निवारणम्॥
भेस६.१७.२३
महौषधं देवदारु सुधा वर्षाभुरेव च।
एतैः क्षीरं समैः सिद्धं श्रेष्ठं श्वयथुनाशनम्॥
भेस६.१७.२४
गोमूत्रस्य प्रयोगो वा श्रेष्ठः श्वयथुनाशनः।
सक्षीरं वा पिबेन्मूत्रं माहिषं मूत्रमेव वा॥
भेस६.१७.२५
औष्ट्रं मूत्रं पिबेच्चैव तदुष्ट्रीक्षीरमेव वा।
यथाबलं यथादोषं श्रेष्ठं श्वयथुनाशनम्॥
भेस६.१७.२६
मूलकानि च सिद्धानि सानिले भक्षयेन्नरः।
रसेन मूलकानां तु कुर्वीत परिषेचनम्॥
भेस६.१७.२७
नक्तमालार्कमूलानां वृषस्यारग्वधस्य च।
कषायं परिषिक्तं तु श्वयथूनां निवारणम्॥
भेस६.१७.२८
सुवर्चला व्याघ्रनखं कुष्ठं कटुकरोहिणी।
काकमाचि ऋषभको रास्ना मूर्वा पुनर्नवा॥
भेस६.१७.२९
वार्ताकी निचुलं मूलं त्रिफला चित्रको वचा।
कुठेरको हरिद्रे द्वे श्यामा मूषकपर्णिका॥
भेस६.१७.३०
विडङ्गं शिग्रुवल्कं च नक्तमालं महौषधम्।
गोमूत्रपिष्टं श्वयथौ मुख्यमुद्वर्तनं भवेत्॥
भेस६.१७.३१
दन्ती विडङ्गं त्रिफला त्रयूषणं कटुरोहिणी।
चित्रकं देवकाष्ठं च त्रिवृता हस्तिपिप्पली॥
भेस६.१७.३२
चूर्णन्येतानि तुल्यानि द्विगुणं स्यादयोरजः।
क्षीरेणालोड्य पीतानि श्रेष्ठं श्वयथुनाशनम्॥
भेस६.१७.३३
त्रिफलायास्तु कुडवं पिप्पलीकुडवं तथा।
विडङ्गमरिचानान्तु द्वे द्वे पले स्मृते॥
भेस६.१७.३४
पलं पलं च कुर्वीत दन्तीचित्रकयोरपि।
पलं च पिप्पलीमूलं तुष्टेभ्यश्च पलं तथा॥
भेस६.१७.३५
शृङ्गबेरपले द्वे च गव्यात्पञ्च पलानि च।
शेषाण्यर्धपलीनानि यानि तानि निबोध मे॥
भेस६.१७.३६
रास्ना बला गोक्षुरकं मधुकं देवदारु च।
वचा सातिविषा पाठा मुस्ता कटुकरोहिणी॥
भेस६.१७.३७
कट्फलं सारिबे द्वे च श्यामा भल्लातकानि च।
पुनर्नवा सतेजोह्वा त्वक् च पत्रं शतावरी॥
भेस६.१७.३८
निदिग्धिका व्याघ्रनखं मञ्जिष्ठा कुशशम्भली।
त्रिफला त्रिवृता भार्ङ्गी कुटजस्य फलत्वचः॥
भेस६.१७.३९
एतदाहृत्य सम्भारं द्विस्तावत्स्यादयोरजः।
तदैकथ्यं कृतं युक्त्या लेहयेन्मधुसर्पिषा॥
भेस६.१७.४०
क्षीरं चानुपिबेद्युक्त्या निरन्नक्षीरसेविता।
अयोरजीयमित्येतत् ख्यातं सिद्धरसायनम्॥
भेस६.१७.४१
संवत्सरप्रयोगेण शतवर्षाणि जीवति।
वर्षद्वयेन मनुजो द्वे जीवेच्छरदां शते॥
भेस६.१७.४२
निहन्याच्छ्वयथुं घोरं वृक्षमिन्द्राशनिर्यथा।
पाण्डुरोगमथार्शांसि मन्दमग्निं कृमीनपि॥
भेस६.१७.४३
भगन्दरं कामिलां च कुष्ठानि जठराणि च।
सप्लीहानमपस्मारं शूलानि परिकर्तिकाम्॥
भेस६.१७.४४
अतिसारं प्रमेहांश्च क्षतकासं क्षयं तथा।
यस्मिन्यस्मिन्विकारे तु योगोऽयं सम्प्रयुज्यते॥
भेस६.१७.४५
तं तं निहन्ति वै रोगं देवारीन् केशवो यथा।
अनुप्रयोगो लाजानां सक्तवो मधुना सह॥
भेस६.१७.४६
क्षीरानुपानं लेह्योऽयं दिवसान् स्प्त पञ्च वा।
अर्शस्स्वामातिसारेषु विधिः स्यात्परिकर्तने॥
भेस६.१७.४७
तथा क्षीणेषु कासेषु ज्वरेषु विषमेषु च।
वर्षोथितोऽपि श्वयथुस्तस्मान्मासेन शाम्यति॥
भेस६.१७.४८
रसायनप्रयोगाच्च पूर्वोद्दिष्टाद्यथाविधि।
शालीन् सषष्टिकांश्चैव नवान्नविकृतीस्तथा॥
भेस६.१७.४९
क्षाराम्ललवणांश्चापि सदा धूमं विवर्जयेत्।
आगन्तुश्वयथुर्वापि यो वा स्याद्दोषसम्भवः॥
भेस६.१७.५०
लङ्गनैश्च विलेपैश्च रक्तसेकैः प्रशाम्यति।
अविपाको ज्वरश्छर्दिर्दौर्बल्यं परिकर्तिका।
श्वासोऽतिसारो हिक्का च शोफस्योपद्रवाः स्मृताः॥ इत्याह भगवानात्रेयः।
इति भेले सप्तदशोऽध्यायः॥


॥अष्टादशोऽध्यायः॥[सम्पाद्यताम्]

अथात उदावर्तचिकित्सितं व्याखयास्याम इति ह स्माह भगवानात्रेयः।
भेस६.१८.१
प्रकृत्या वातलो यस्तु रूक्षाण्यन्नानि सेवते।
कषायं कटुकान्नित्यं रसांस्तिक्तांश्च सेवते॥
भेस६.१८.२
कर्कन्धूनि कपित्थानि करीरलिकुचानि च।
पारावतानि भव्यानि यच्चान्यत्फलमीदृशम्॥
भेस६.१८.३
शुक्तकानि च वल्लूरं पिण्याकं कोद्रवौदनम्।
अभिष्यन्दीनि कटुकं वेत्रशाकं च सेवते॥
भेस६.१८.४
वातमूत्र्पुरीषाणां विधृत्या मैथुनस्य च।
एतैरन्यैश्च गुरुभिर्हेतुभिः कुपितोऽनिलः॥
भेस६.१८.५
निगृह्णाति गुदद्वारं शरीरं व्याप्य सर्वशः।
स शोषयति तत्रस्थः शरीरं शोषयन् भृशम्॥
भेस६.१८.६
अधोवहानि स्रोतांसि पित्तश्लेष्मवहान्यपि।
मूत्रान्नमलवाहीनि बध्नाति पवनो भृशम्॥
भेस६.१८.७
वातसन्दूषितास्ते तु धावन्तो ह्यूर्ध्वमास्थिताः।
आमपक्वाशयस्थान उन्माद्यन्ति सुदारुणम्॥
भेस६.१८.८
ऊर्ध्वं ह्यपानस्सम्प्राप्य चोदानेन समागतः।
उदार्वत इति प्रोक्तः शस्त्रसर्पविषोपः॥
भेस६.१८.९
अथ शूलानि तीव्राणि दाहो मूर्च्छा विवर्णता।
शूयते वस्तिमूलं च मूत्रवर्वोग्रहस्तथा॥
भेस६.१८.१०
वतावथ च कुक्षौ च हृदि पार्श्वोदरे तथा।
देवनाभिपरीतश्च निस्संज्ञो वेततेऽसकृत्॥
भेस६.१८.११
निश्वसित्यथ ताम्यंश्च तृष्यत्यपि च हिक्कते।
उपद्रवा उदावर्ते शृणु तेषां चिकित्सितम्॥
भेस६.१८.१२
सुस्निग्धमेनमभ्यज्य तैलेन लवणेन च।
संकरे प्रस्तरे स्वेदे द्रोण्यां वा स्वेदयेत्ततः॥
भेस६.१८.१३
ततोऽस्य गुदमभ्यज्य निरूहं सम्प्रदापयेत्।
एकं द्वौ वा भिषक् कृत्वा यावद्वा साधु मन्यते॥
भेस६.१८.१४
सुरिरूढं च तं ज्ञात्वा सुखाम्बुपरिषेचितम्।
उष्णोदकानुपानं च भोज्येन्मृदुमोदनम्॥
भेस६.१८.१५
स्नुहायाः पत्रशाकेन त्रिवृच्छाकेन वा पुनः।
ताभ्यां यूषेण भुञ्जीत यच्चान्यद्भेदनं परम्॥
भेस६.१८.१६
नित्यं भिन्नपुरीषैस्तं भोजनीयैरुपाचरेत्।
एवं तस्य पुरीषं हि वायुर्भूयो न शोषयेत्॥ ... ... ... ... ... ... ... ...


॥एकोनविंशोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...
भेस६.१९.१
सर्वाण्येतानि लिङ्गानि दृश्यन्ते मर्मरोगिणः।
सन्निपातसमुत्थोऽसौ नैव सिध्यति कर्मणा॥
भेस६.१९.२
निर्भिद्यते देवनार्तं दह्यते मर्म दूयते।
भक्तद्वेषो ज्वरो मूर्च्छा श्वासश्च परितप्यते॥
भेस६.१९.३
भिन्नवर्णोऽथ दीनश्च हृदि कण्डूश्च जायते।
हृद्रोगः क्रिमिजः प्रोक्तः पञ्चमस्स तु दुर्जयः॥
भेस६.१९.४
साध्यास्त्रयस्तु हृद्रोगा वातपित्तकफात्मकाः।
द्वौ चासाध्यौ स्मृतौ तत्र साध्यानां शृणु भेषजम्॥
भेस६.१९.५
हृद्रोगिणं स्नेहयित्वा शमयेच्छोधयेत्तथा।
लङ्घयेदचिरोत्त्यं तं हृद्रोगं वातिकाद्विना॥
भेस६.१९.६
हरीतकी वचा रास्ना पिप्पल्यौ विश्वभेषजम्।
शठी पुष्करमूलं च चूर्णं हृद्रोगनाशनम्॥
भेस६.१९.७
पाठावचायवक्षारा अभया चाम्लवेतसम्।
दुरालभा चित्रकं च त्र्यूषणं लवणत्रयम्॥
भेस६.१९.८
शठी पुष्करमूलं च तिन्त्रिणीकं सदाडिमम्।
मातुलुङ्ग्याश्च बीजानि सूक्ष्मचूर्णानि कारयेत्॥
भेस६.१९.९
सुखोदकेन मद्यैर्वा चूर्णान्येतानि पाययेत्।
अर्शः शूलं सहृद्रोगं गुल्मं चापि व्यपोहति॥
भेस६.१९.१०
सौवर्चलं शृङ्गबेरं दाडिमं साम्लवेतसम्।
श्वासहृद्रोगशमनमिदं स्याद्धिङ्गुपञ्चमम्॥
भेस६.१९.११
पञ्चाशदभयाकल्कं पले सौवर्चलस्य च।
चतुर्गुणजले मुख्यं घृतप्रस्थं विपाचयेत्॥
भेस६.१९.१२
एतद्वल्लभकं नाम प्राणिनां सर्पिरुत्तमम्।
अमृतप्रतिमं सृष्टं श्वासहृद्रोगनाशनम्॥
भेस६.१९.१३
पिबेत्कल्याणकं सर्पिर्धान्वन्तरमथापि वा।
मातुलुङ्गस्य च रसं पिबेत्क्षारागदानपि॥
भेस६.१९.१४
शतपाकं बलातैलं शैरीषं सुकुमारकम्।
तैलान्येतानि सेवेत सदा हृद्गदपीडितः॥
भेस६.१९.१५
पिबेद्रसायनं सर्पिः क्षीराणि च गुडानपि।
पित्तहृद्रोगशमना ये चोक्ता घृतमोदकाः॥
भेस६.१९.१६
जीवकर्षभकौ द्राक्षा शर्करा श्रेयसी बला।
द्वे मेदे द्वे च काकोल्यौ खर्जूर्यसितमुत्पलम्॥
भेस६.१९.१७
घृतप्रस्थं पचेदेभिः तुल्यांशैर्माहिषं भिषक्।
चतुर्गुणेन पयसा पातव्यं युक्तितश्च तत्॥
भेस६.१९.१८
वातपित्तसमुत्थाने हृद्रोगे नाशनं परम्।
वसा लाभेन मज्जा च तुल्यं तैलघृतं तथा॥
भेस६.१९.१९
अमूनि लाभतो दद्यादथ चापि चतुर्गुणम्।
वचा त्रिकटुकं रास्ना जीवन्ती जीवको बला॥
भेस६.१९.२०
निदिग्धिका चांशुमती नीली भार्ङ्गीं पुनर्नवा।
सिद्धमेभिर्महास्नेहं बलमालोक्य पाययेत्॥
भेस६.१९.२१
हृद्रोगं वातिकं स्नेहः सद्य एव चिकित्सति।
विचारयेत्स्वयं बुद्ध्या वैद्यो हृद्रोगभेषजम्॥
भेस६.१९.२२
मधुरं पित्तहृद्रोगे स्निग्धमुष्णं च वातिके।
त्रयस्तु परिशेषा ये तीक्ष्णोष्णैस्तानुपाचरेत्॥
भेस६.१९.२३
क्षारैः क्षारागदैश्चैव वमनैस्सविरेचनैः।
चिकित्सितं विस्तरेण यदुक्तं कृमिकोष्ठिनाम्॥
भेस६.१९.२४
तदेव क्रिमिहृद्रोगे कर्तव्यमनसूयया।
औदकानूपमांसानि दधि दुग्धं गुडो रसः॥
भेस६.१९.२५
अभिष्यन्दकरं सर्वं वातहृद्रोगनाशनम्।
एतान्येव तु शेषेषु हृद्रोगेषु विवर्जयेत्।
लघूनि चान्नपानानि शस्यन्ते तेषु सर्वदा॥ इत्याह भगवानात्रेयः।
इति भेले एकोनविंशोऽध्यायः॥


॥विंशोऽध्यायः॥[सम्पाद्यताम्]

अथातः कासचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.२०.१
पञ्च कासाः समुद्दिष्टा वातपित्तकफात्मकाः।
क्षतजः क्षयजश्चेति तेषां वक्ष्यामि लक्षणम्॥
भेस६.२०.२
उदावर्तादभीघाताद् व्यायामाच्चापि कर्शनात्।
संभोजनाद्दिवास्वप्नाद् द्रुतपानात्प्रलम्बनात्॥
भेस६.२०.३
कर्शितानां च रोगेभ्यो दोषासात्म्यकृतात्क्षयात्।
तीक्षोष्णगुरुसेवाभिर्नृणां कासा भवन्ति ते॥
भेस६.२०.४
तेषां रूपाणि वक्ष्यामि चिकित्सां च पृथग्विधाम्।
मारुतात्कासते शुष्कं शूकपूर्णगलो यथा॥
भेस६.२०.५
निष्ठीवति च शुष्कं च तत्र मुक्ते न कासते।
प्रताम्येत्कासमानस्य हृदयं चावकृष्यते॥
भेस६.२०.६
पार्श्वे च रुजतोऽत्यर्थं श्वासेन च विकूजति।
शङ्खयोर्जायते शूलं तालुशोषस्तथैव च॥
भेस६.२०.७
श्यावे नेत्रे च वीक्ष्येते स्वरो वर्णश्च भिद्यते।
विशेषाद्रिक्तकोष्ठश्च कासते वातपीडितः॥
भेस६.२०.८
अम्लरूक्षान्नपानादिव्यायामोष्णनिषेवणात्।
कटुकक्षाररूक्षान्नतीक्ष्णमद्यनिषेवणात्॥
भेस६.२०.९
सदाहः सज्वरश्चैव पित्तकासः प्रवर्तते।
हारिद्रं कटुकोष्णं च पीतं ष्ठीवति चाति सः॥
भेस६.२०.१०
मुखस्य कटुकत्वं च तृष्णा चास्योपजायते।
हारिद्रे चक्षुषी चास्य लक्ष्येते पित्तकासिनः॥
भेस६.२०.११
अभिष्यन्दिगुरुस्निग्धशीतमेद्यान्नसेविनः।
दिवास्वप्नप्रसक्तस्य वेगांश्चापि निरुन्धतः॥
भेस६.२०.१२
कफप्रसेको बहलः कासस्तस्योपजायते।
गुरुत्वं शिरसोऽत्यर्थं माधुर्यं वदनस्य च॥
भेस६.२०.१३
कफात् स्त्यानं च हृदयं भक्तस्यानभिनन्दनम्।
स्तम्भश्चैवाविपाकश्च कफकासस्य लक्षणम्॥
भेस६.२०.१४
व्यायामाद्भारहरणान्निग्रहादश्वदन्तिनाम्।
निहन्यते यस्य वक्षः क्षतकासः स उच्यते॥
भेस६.२०.१५
सरक्तं पूतिपूयाभं ग्रथितं दोषसञ्चयम्।
निष्ठीवति स कासार्तो ज्वर्यते चातिसर्यते॥
भेस६.२०.१६
उरो निर्भिद्यमानं च मन्यते प्रश्वसित्यपि।
स ताम्येत्कासमानश्च तृष्णा शोषो मुखस्य च॥
भेस६.२०.१७
मुहुराशूयते कण्ठः स्वरभेदश्च जायते।
सघोषं कासते चापि विकृतं भिन्नविस्वरम्॥
भेस६.२०.१८
दुर्गन्धं च तथोद्गारं क्षतकासे विमुञ्चति।
सर्वेषां सन्निपाताच्च क्षयकासः प्रवर्तते॥
भेस६.२०.१९
तस्य ज्वरः पार्श्वरुजा हस्तपादं च दह्यते।
कासमानश्च निष्ठीवेत् कफपूर्वं स शोणितम्॥
भेस६.२०.२०
क्षीयेते बलवर्णौ च गात्रं च परिहीयते।
न चास्य स्वदते भोज्यं न भुक्तं च विपच्यते॥
भेस६.२०.२१
अतिसारो ज्वरश्छर्दिर्मूर्च्छा चास्योपजायते।
क्षयकासस्समाख्यातः स चासाध्यः प्रकीर्तितः॥
भेस६.२०.२२
क्षतकासस्तु याप्यः स्यात्साध्यानां साधनं शृणु।
बलवन्तं स्नेहितं च शोधनैस्समुपाचरेत्॥
भेस६.२०.२३
शोधितं भोजयेच्चैनं पुराणान् शालिषष्टिकान्।
जाङ्गलानां च मांसानि निषेवेन्मृगपक्षिणाम्॥
भेस६.२०.२४
औदकानूपमांसानि गुरूणि च विवर्जयेत्।
दशकल्कोपसिद्धं वा कल्यणकमथापि वा॥
भेस६.२०.२५
रसयनं च सेवेत सर्पिः सर्पिर्गुडानि च।
सर्पिर्मोदकयोगं वा रसायनविधिं तथा॥
भेस६.२०.२६
यदुक्तं शोणिते पूर्वं तत्कासेष्वपि योजयेत्।
पिप्पल्यामलकं द्राक्षा तुगाक्षीर्यथ शर्करा॥
भेस६.२०.२७
लाजा घृतं माक्षिकं च लेहः कासविनाशनः।
पिप्पल्यामलकं रास्ना लेहो माक्षिकसंयुतः॥
भेस६.२०.२८
हरीतक्यास्सपिप्पल्याश्चूर्णं माक्षिकसंयुतम्।
प्रलेहः स्यान्मधुघृतं सक्षौद्रं शर्करान्वितम्॥
भेस६.२०.२९
त्र्यूषणं त्रिफलां चैव पद्मकं देवदारु च।
रास्नां बलां विडङ्गानि सूक्ष्मचूर्णानि कारयेत्॥
भेस६.२०.३०
चूर्णं शर्करया युक्तं लेहयेन्मधुसर्पिषा।
एष लेहः प्रणुदति पञ्च कासान् समुत्थितान्॥
भेस६.२०.३१
यवक्षारं विडङ्गानि हिङ्गु भार्ङ्गी महौषधम्।
सैन्धवं पिप्पली रास्ना तुल्यान्येतानि चूर्णयेत्॥
भेस६.२०.३२
घृतमात्रायुतं चूर्णं पिबेत्कासविनाशनम्।
मन्दाग्नितां तमश्वासं हिक्कां चैवापकर्षति॥
भेस६.२०.३३
समूलफलशाखां तु कुट्टयेत्कण्टकारिकाम्।
तां पचेत्सलिलद्रोणे चतुर्भागावशेषितम्॥
भेस६.२०.३४
कषायं तं परिस्राव्य पुनरग्नावधिश्रयेत्।
घृतं च युक्त्या दातव्यं कल्कांश्चेमान्प्रदापयेत्॥
भेस६.२०.३५
दुरालभा छिन्नरुहा त्र्यूषणं चित्रकं तथा।
रास्ना कर्कटकाख्या च पिप्पलीमूलमेव च॥
भेस६.२०.३६
एतान्यर्धपलीनानि तथा फाणितशर्करा।
पलानि विंशतिं दत्वा तं लेहं सान्द्रमुद्धरेत्॥
भेस६.२०.३७
शीते दद्यात्पिप्पलीनां चूर्णस्य कुडवं मितम्।
तुगाक्षीर्याश्च कुडवं मधुनः कुडवं तथा॥
भेस६.२०.३८
तं लिह्यान्मात्रया लेहं पञ्चकासविनाशनम्।
हृद्रोगानथ हिक्कां च श्वासं चैवापकर्षति॥
भेस६.२०.३९
सिद्धं मन्त्रं यथा सर्पो नातिक्रामेदुदीरितम्।
तथा लेहमिमं कासो नातिक्रामति देहिनाम्॥
भेस६.२०.४०
दशमूलीमपानार्गं शङ्खपुष्पीं शठीं वचाम्।
चित्रकं चात्मगुप्तां च पिप्पलीमूलमेव च॥
भेस६.२०.४१
बलां पुष्करमूलं च तथैव गजपिप्पलीम्।
द्विपलीनान् पृथग्दद्यात्प्रत्यग्रं चाभयाशतम्॥
भेस६.२०.४२
यवाढकं सहैभिश्च जलं पञ्चाढकं पचेत्।
अवतार्य यवैस्सिद्धैरुद्धरेत्तु हरीतकीः॥
भेस६.२०.४३
भेदनं तासु कर्तव्यं ततो वंशशलाकया॥ ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...

॥एकविंशोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... एतदालेपनं कार्यं शङ्खकस्य विनाशनम्।
एतान्येव तु सर्वाणि कषायमुपधारयेत्॥
भेस६.२१.१
तेन शीतेन कर्तव्यं बहुशः परिषेचनम्॥
भेस६.२१.२
नित्यं वेगप्रतीघातादजीर्णाध्यशनादपि।
रक्तं वायुश्च कुपितौ मस्तके प्रतितिष्ठतः॥
भेस६.२१.३
स मस्तकगतो वायुः रक्तं चैकत्र मूर्छितम्।
उदयेऽर्कस्य संपातादादित्यकरदूषितम्॥
भेस६.२१.४
वेदनां जनयेत्तीव्रां शङ्खयोर्मूर्ध्नि गण्डयोः।
निघ्नन्निव शिरोऽत्यर्थं मुहुर्गृह्णाति पाणिना॥
भेस६.२१.५
निष्यन्दते हि मस्तिष्कमादित्योष्मसमुद्धतम्।
वर्धते वर्धमाने तु सूर्ये शीर्षरुजा ह्यतः॥
भेस६.२१.६
स मस्तिष्कश्च निर्वाति दिवसस्य परिक्षयात्।
सूर्यावर्त इति प्राहुर्मुनयोऽनेन हेतुना॥
भेस६.२१.७
कल्याणकं पिबेत्सर्पिः सूर्यावर्तनिपीडितः।
विरेचनं च कार्यं स्यात् तथा शीर्षविरेचनम्॥
भेस६.२१.८
नस्यकर्म तथा कुर्यात् स्नेहश्चोत्तरभक्तिकः।
घृततैलवसाभिस्तु धार्याः स्युः शीर्षवस्तयः॥
भेस६.२१.९
मयूरान् कुक्कुटान् लावान् क्षीरेण सह साधयेत्।
तत्क्षीरमन्थनोद्भूतं नवनीतमथोद्धरेत्॥
भेस६.२१.१०
तत्क्षीरे षड्गुणे साध्यं जीवनीयैस्सहौषधैः।
ततोऽस्य नस्यं दातव्यं सूर्यावर्तविनाशनम्॥
भेस६.२१.११
बिल्वमंशुमती रास्ना सहदेवा पुनर्नवा।
काला गुडूची सुषवी पद्मकं मधुकं बला॥
भेस६.२१.१२
एतान्याजेन दुग्धेन सिद्धानि परिषेचनम्।
एतैरेवौषधैस्सिद्धं सर्पिराजं विनाशयेत्॥
भेस६.२१.१३
जाङ्गलानि च मांसानि कारयेदुपनाहनम्।
तेनास्य शाम्यति व्याधिस्सूर्यावर्तस्सुदारुणः॥
भेस६.२१.१४
पललं दधि मत्स्यांश्च पिष्टान्नविकृतीः पयः।
दिवास्वप्नं च भजतस्त्रयः कुप्यन्ति धातवः॥
भेस६.२१.१५
मन्यापाश्चात्यघाटासु तीव्रां कुर्वन्ति वेदनाम्।
ततश्चैवोत्थिता तीक्ष्णा भ्रुवोश्चाक्ष्णोश्च तिष्ठति॥
भेस६.२१.१६
स्पन्दयेद् गण्डपार्श्वे च हनू वास्थाय तिष्ठति।
नेत्रयोरामयान् कुर्याच्छङ्खौ चास्य प्रतोदयेत्॥
भेस६.२१.१७
अनन्तवात इत्येष शीर्षव्याधिः सुदारुणः।
सन्निपातसमुत्थानस्तस्य वक्ष्यामि भेषजम्॥
भेस६.२१.१८
ललाटस्थसिरां विध्येत् स्नेहपानं च कारयेत्।
कायं विरेचयेदस्य शिरश्चापि विरेचयेत्॥
भेस६.२१.१९
चिकित्सितं यथाख्यातं सूर्यावर्तशिरोग्रहे।
अनन्तवाते तत्कार्यं तदा सम्पद्यते सुखम्॥
भेस६.२१.२०
सम्भोजनाद्दिवास्वप्नाच्छर्दिक्षवथुनिग्रहात्।
अभिघातात्प्रतापाच्च वेगसन्धारणादपि॥
भेस६.२१.२१
शिरोवहां भृशं गृह्य तस्योभौ कफमारुतौ।
शीर्षार्धं शङ्खमूलं च दारयन्तौ च तिष्ठतः॥
भेस६.२१.२२
श्वयथुर्जायते गण्डे चक्षुश्चैवं विरज्यते।
अर्धावभेदको नाम शीर्षव्याधिः सुदुस्तरः॥
भेस६.२१.२३
विरेचनं च शिरसो नस्यकर्म च कारयेत्।
लाभतश्च वसा सर्वा घृतं तैलं च युक्तितः॥
भेस६.२१.२४
तस्यैव महतीं मात्रां पाययेत्तेन सिध्यति।
कार्पासबीजं माषांश्च गोधूमान् सर्षपान् यवान्॥
भेस६.२१.२५
पञ्चमूल्यौ तथा द्वे च क्षीरेण सह साधयेत्।
औष्ण्यमुद्वहता तेन नाडीस्वेदेन स्वेदयेत्॥
भेस६.२१.२६
उष्णैश्च तैः क्षीरसिद्धैः कुर्यात्तस्योपनाहनम्।
करञ्जं शिग्रुबीजानि त्वक् पत्रं शर्करा तथा॥
भेस६.२१.२७
सर्वेषां शीर्षरोगाणामेतच्छीर्षविरेचनम्।
शिरसोऽन्ते ललाटान्ते शङ्खपर्यन्त एव च॥
भेस६.२१.२८
मन्ययोश्चापि पिप्पल्या दहेत्काण्डेन वा पुनः।
तथैवार्धावभेदस्य तेनैव विधिना भवेत्॥
भेस६.२१.२९
वातिके शीर्षरोगे च दहनं श्लैष्मिकेऽपि च।
तस्मादतिप्रवृद्धेषु शीर्षरोगेषु बुद्धिमान्॥
भेस६.२१.३०
आरण्यपिप्पलीभिर्वा दहेत्काण्डेन वा पुनः।
रूक्षान्नसेविनां नित्यं तथोदावर्तिनामपि॥
भेस६.२१.३१
ऊर्ध्वमुत्क्रम्य पवनः शिरःकम्पमुदीरयेत्।
तं पाययेन्मृदु स्नेहं बलातैलमथापि वा॥
भेस६.२१.३२
नस्यकर्म स्नेहपानं नित्यं चैवानुवासनम्।
समश्नतः सर्वरसानजीर्णाध्यशनादपि॥
भेस६.२१.३३
कुर्वन्ति मूर्ध्नि श्वयथुं त्रयो दोषास्समुत्थिताः।
तस्य पूर्वं शिरां विध्येत् पिबेज्जीर्णघृतं तथा॥
भेस६.२१.३४
विशोधनं धूमपानं शिरसश्च विरेचनम्।
इत्येष शीर्षरोगाणां प्रदेशः परिकीर्तितः॥
भेस६.२१.३५
अन्तःकण्ठगतान् रोगान् वक्ष्यामि सचिकित्सितान्।
उच्चैः प्रलापात्संरम्भादतीवाध्यशनादिभिः॥
भेस६.२१.३६
रूक्षान्नपानसेवाभिर्भिनत्ति पवनः परम्।
धूमायते गलस्तस्य तथा धुमधुमायते॥
भेस६.२१.३७
दूयते हृदयं चास्य स्वरभेदश्च मारुतात्।
नस्यकर्माणि पाने च बलातैलं प्रशस्यते॥
भेस६.२१.३८
कफवातोत्तरे धार्यास्तथैव कबलग्रहाः।
पिप्पली पिप्पलीमूलं मरिचानि हरीतकी॥
भेस६.२१.३९
शृङ्गबेरं यवक्षारो लोध्रं तेजोवती तथा।
एतानि समभागानि चूर्णानि मधुना सह॥
भेस६.२१.४०
अरोचके श्लेष्मभवे प्रधानं मुखधावनम्।
पिप्पल्यो मधुकं मूर्वा चन्दनं कमलोत्पलम्॥
भेस६.२१.४१
उशीरं पद्मकं लोध्रमेला लामज्जकं तथा।
एतानि स्मभागानि क्षौद्रेण सह साधयेत्॥
भेस६.२१.४२
द्विगुणं शर्करां दत्त्वा पित्तजायामथारुचौ।
अजाज्यो मरिचं कुष्ठं बिल्वं सौवर्चलं तथा॥
भेस६.२१.४३
मधुकं शर्करा तैलं वातिके मुखधावनम्।
जम्ब्वाम्रपल्लवं लोध्रं त्रिफला चव्यचिक्त्रकौ॥
भेस६.२१.४४
पटोलं नक्तमालं च शिरीषः खदिरासनौ।
दार्वी हरिद्रा मुस्ता च तेजोह्वा मधुकं बला॥
भेस६.२१.४५
एतानि समभागानि कषायमुपसाधयेत्।
इत्येष कबलग्राहः कर्तव्यो मधुसंयुतः॥
भेस६.२१.४६
सार्द्रकश्च कपित्थो वा सव्योष्मधुशर्करः।
अरोचकेषु सर्वेषु प्रशस्तो धारणो मुखे॥
भेस६.२१.४७
अजाज्यो मरिचं द्राक्षा तिन्त्रिणीकं सदाडिमम्।
सौवर्चलं कारवीं च गुडमाक्षिकसंयुतम्॥
भेस६.२१.४८
द्राक्षाघौतकय ... ... (?) मुखबिशोधनः।
अरोचकानां सर्वेषां प्रशस्तः कबलोत्तमः॥
भेस६.२१.४९
सम्भवन्ति त्रयो दोषाः गले नासौदनेरिणीम्।
गलशुण्डीं वर्धयन्ति घोरां गलविसारिणीम्॥
भेस६.२१.५०
सिराव्यधः स्नेहपानं तीक्ष्णं शीर्षविरेचनम्।
शस्त्रावचारो धूमश्च नाशयेद्गलशुण्डिकाम्॥
भेस६.२१.५१
वातिकः कर्णशूलश्च कर्णवातश्च वातिकः।
बाधिर्यं च समाख्यातम् वातश्लेष्मसमुद्भवम्॥
भेस६.२१.५२
स्नेहपानानि नस्यं च नाडीस्वेदोपनाहनम्।
आनूपाश्च वसा मज्जाः प्रशस्ताः कर्णपूरणे॥
भेस६.२१.५३
पिप्पल्यौ बिल्वमूलं च कुष्ठं मधुकमेव च।
लोध्रव्याघ्रनखं मांसी सूक्ष्मैला देवदारु च॥
भेस६.२१.५४
गर्भेणानेन तैलस्य प्रस्थं मृद्वग्निना पचेत्।
मूलकस्यार्द्रकस्यापि रसौ स्नेहसमौ तथा॥
भेस६.२१.५५
तेन कर्णे पिचुं दद्यान्नस्यकर्म च कारयेत्।
तेनोपशाम्यति क्षिप्रं कर्णशूलस्सुदारुणः॥
भेस६.२१.५६
शैरीषं शतपाकं च बलातैलं च मिश्रकम्।
आशु कर्णगतं शूलं बाधिर्यं चापकर्षति॥
भेस६.२१.५७
छागसर्पमयूराणां नक्रशल्यकयोरपि।
तुलां मांसस्य विपचेत् क्षीरद्रोणेषु सप्तसु॥
भेस६.२१.५८
पादभागावशिष्टन्तु शीतं पूतं विमन्थयेत्।
तत्र यन्नवनीतं स्यात्तदेभिर्विपचेत्समैः॥
भेस६.२१.५९
क्षवः ... फणिज्जको ... सैन्धवं बला।
वचा व्याघ्रनखो मांसी देवदार्वगरू तथा॥
भेस६.२१.६०
जीवकर्षभकौ मेदा शृङ्गी कर्कटकस्य च।
आत्मगुप्ताफलं द्राक्षा त्वक्पत्रमथ वालुकम्॥
भेस६.२१.६१
तत्सर्वं स्रावयित्वा तु स्वनुगुप्तं निधापयेत्।
पिचुमभ्यञ्जनं पानं वस्तिकर्म च कारयेत्॥
भेस६.२१.६२
एतेन शीर्षरोगाश्च कर्णशूलानि यानि च।
कर्णस्रावाश्च शाम्यन्ति रोगा जत्रुगताश्च ये॥
भेस६.२१.६३
एतद्वातोत्तरे प्रोक्तं कर्णशूले चिकित्सितम्।
अत ऊर्ध्वं प्रवक्ष्यामि रक्तजं क्रिमिजं च यत्॥
भेस६.२१.६४
यदा दुष्टं पित्तरक्तं कर्णमेव प्रधावति।
श्वयथुश्च हि रागश्च कर्णशूलश्च जायते॥
भेस६.२१.६५
विध्येत्सिरां ललाटस्य दद्याच्चास्य विरेचनम्।
... म्ले शिरपानं (?) च तथा शीर्षविरेचनम्॥
भेस६.२१.६६
अक्रियाभिः क्रियाभिश्च कर्णे पाकं नियच्छति।
तस्योपनाहं कुर्वीत व्रणतैलं च रोपणम्॥
भेस६.२१.६७
तथा कर्णशलाकाभिः कर्णस्रावं विशोधयेत्।
त्रयूषणं सैन्धवं कुष्ठं मञ्जिष्ठा मधुकं तथा॥
भेस६.२१.६८
रास्ना हरिद्रा तेजोह्वा वराङ्गं तिल्वकत्वचः।
लाक्षा मूर्वा रुबूर्काककेसरासनवीरणाः॥
भेस६.२१.६९
सूक्ष्मैला तगरं पत्रं त्वग्व्याघ्रनखमेव च।
आरमालतिला माषा भूर्जग्रन्थिर्निदिग्धिका॥
भेस६.२१.७०
एतैस्तुल्यकृतैर्भागैस्तैलप्रस्थं विपाचयेत्।
भोगिनश्च वसां दद्यान्मांसं बभ्रोः खरस्य च॥
भेस६.२१.७१
एतेन पूरयेत्कर्णं मुहूर्ताच्चावनामयेत्।
कर्णस्रावं कर्णशूलं बाधिर्यं कर्णवेदनाम्॥
भेस६.२१.७२
सर्वांश्चैव शिरोरोगान् तैलमेतन्नियच्छति।
कर्णस्रोतस्सु रुद्धेषु तालुके मस्तके तथा॥
भेस६.२१.७३
वेदना जायते तीव्रा विदाहस्तोदविभ्रमौ।
एतनि कर्णशूलस्य कृमिजस्य मनीषिणः॥
भेस६.२१.७४
रूपाण्याहुः समस्तानि स चासाध्य इहोच्यते।
पतङ्गः शतपद्यश्च तथा कीटपिपीलिकाः॥
भेस६.२१.७५
प्रविश्य कर्णस्रोतो वै भृशं कुर्वन्ति वेदनाम्।
कर्णौ निस्तुद्यतस्तस्य तथा घुरघुरायणम्॥
भेस६.२१.७६
कीटे चरति रुक् तीव्रा निष्पन्देन भवेदरुक्।
मधुशुक्तेन पयसा सुरया वाऽऽआसवेन वा॥
भेस६.२१.७७
उष्णेन पूरयेत्कर्णं मुहूर्ताच्चावनामयेत्।
स्रुते कीटे तु यद्यस्य कर्णस्रावः प्रवर्तते॥ यथोक्तं तस्य कुर्वीत कर्णस्रावचिकित्सितम्।
... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...

॥द्वाविंशोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...
भेस६.२२.१
अजीर्णे यद्दिवा भुक्तं न दुष्यति यथा नृणाम्।
व्युषितं दूष्यते वापि तत्र हेतुं निबोध मे॥
भेस६.२२.२.
व्यायच्छतो विचरतः व्याक्षिप्तमनसस्तथा।
मन्दे रसप्रसेके च दिवाभुक्तं न दुष्यति॥
भेस६.२२.३
कमलप्रतिमं प्राहुर्हृदयं दिवसक्षयात्।
संवृतं विवृतं चैव भवत्यादित्यरश्मिभिः॥
भेस६.२२.४
विबुद्धे हृदये चास्य स्रोतस्सु विवृतेषु च।
हृदयप्रभवाश्चास्य स्रोतोभिर्विवृतैर्दिवा॥
भेस६.२२.५
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः।
अजीर्णे प्रातराशे तु तृप्तस्यापि दिवा तथ॥
भेस६.२२.६
अनेन विधिना भूयः सायमाशो न दुष्यति।
व्युषितं दूष्यते चापि रोगान् सञ्जनयत्यपि॥
भेस६.२२.७
संवृतेष्वयनेष्वेवं वायुश्चाग्निश्च देहिनाम्।
व्यायामिनं विनैवेह तौ ह्यन्नं पचतो निशि॥
भेस६.२२.८
म्लाने तु हृदये रात्रावुत्क्लेशैकपदेषु च।
संवृतेष्वपि स्रोतस्सु व्यायामं च न सेवते॥
भेस६.२२.९
यदन्नशेषं हृदये तिष्ठत्यामाशयेऽपि च।
तेनास्यामप्रलम्बेन देहे पक्तिमगच्छता॥
भेस६.२२.१०
हृदये व्याधिते रुद्धे विण्मूत्रेऽस्य निशात्यये।
उपस्थिते चान्नरसे पित्तश्लेष्मसमुद्भवे॥
भेस६.२२.११
अन्नसंपुटरुद्धे च मारुते चोर्ध्वमास्थिते।
हृदयग्रहमुत्क्लेशं हृल्लासं गुरुगात्रताम्॥
भेस६.२२.१२
तदन्नशेषं जनयेन्मूर्छा परिकिनी(?) तृषाम्।
ज्वरं छर्दिमतीसारं हिक्कां भक्तस्य वारुचिम्॥
भेस६.२२.१३
अजीर्णे व्युषितं कुर्याद्रोगानेतान् विषोपमान्।
तस्मादजीर्णे व्युषितं भोजनं प्रतिषिध्यते॥ ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...

॥त्रयोविंशोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...
भेस६.२३.१
निद्रां चैवातिनिद्रां च मूर्छां चैव निबोध मे।
तमसा हि समाक्रान्ते सत्त्वे दिवससंक्षयात्॥
भेस६.२३.२
इन्द्रियाण्यस्य कर्मभ्यः क्रमात्प्रविरमन्त्यथ।
भुक्तेऽन्ने पच्यमाने च श्लेष्मणा हृद्गतेन तु॥
भेस६.२३.३
विवृद्धेन निरुद्धेषु चक्षुःश्रोत्रवहेषु च।
कर्मक्रियासूर्यपादैश्छेदिता प्राणिनो दिवा॥
भेस६.२३.४
शारीरमानसैश्चैव तैस्तैरुक्तैरुपाहृता।
एवंक्रियान्नसंज्ञानि तन्द्रा विशति तामसी॥
भेस६.२३.५
एवं सर्वेषु भूतेषु निद्रा नामोपजायते।
चिन्ताशोकश्रमहरी ब्रह्मणा विहिता पुरा॥
भेस६.२३.६
स्वपतस्तस्य देहेऽस्मिन् प्राणापानौ सहोष्मकौ।
जागृतः जीवसंयुक्तस्तेनासौ न विनश्यति॥
भेस६.२३.७
इन्द्रियाणामुपरमे मनस्सूपरतं यदा।
सेवते गोचरं तेषां विद्धि तं स्वप्ननामकम्॥
भेस६.२३.८
पितृदेवमनुष्येषु संभाषणमुपैति च।
परं च लभते स्वप्नभेदस्स हि न वात्मनः॥
भेस६.२३.९
अतिनिद्रा तु जन्तूनां श्लेष्मण्युच्छ्रायमागते।
वातोत्तराणां नियतं निद्रा नाशं व्रजत्यपि॥
भेस६.२३.१०
वस्तयः स्नेहपानानि ग्राम्यानूपौदका रसाः।
गुडदुग्धस्य पानं च निद्रासंजननं परम्॥
भेस६.२३.११
अभ्यङ्गोद्वर्तनं स्नानं मद्यं घृतं तथा।
मनःप्रसादो निर्वाणं नष्टनिद्रस्य भेषजम्॥
भेस६.२३.१२
धूमपानं विरेकश्च कायस्य शिरसस्तथा।
प्रच्छर्दनं लङ्घनं च निद्रासङ्गं निवर्तयेत्॥
भेस६.२३.१३
अयानयानं व्यायामो गूढार्थपरिचिन्तनम्।
यवान्ननित्यसेवाथ निद्रासङ्गं निवर्तयेत्॥
भेस६.२३.१४
इन्द्रियाणां प्रसन्नत्वं मनस्ताल्वन्तराश्रितम्।
हृदि सन्तिष्ठते चित्तं बुद्धिसर्वेन्द्रियाश्रयम्॥
भेस६.२३.१५
सन्निपत्य च रक्तं च त्रयो दोषाश्च दूषिताः।
सम्पीडयन्तीह नृणां हृदयं शोषयन्त्यपि॥
भेस६.२३.१६
आशुष्यमाणं हृदयं प्रमादाद्धि विमुह्यति।
संपीडितं च हृदयं मनश्चित्तं च मोहयेत्।
सदनाच्चित्तमनसोः सम्प्राप्नोति विसंज्ञताम्॥ ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...

॥चतुर्विंशोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... पजार्दितम्।
भेस६.२४.१
हनुग्रहं पादहर्षं पार्श्वशूलं ज्वरं क्षयम्।
वर्ध्मकुण्डलिकृच्छ्राणि हृद्ग्रहं गात्रजं क्लमम्॥
भेस६.२४.२
अशीतिं वातिकान् रोगान् तैलमेतद्व्यपोहति।
सन्निपातसमुत्थांश्च संसृष्टांश्चैकजांस्तथा॥
भेस६.२४.३
योनिव्यापत्तिवन्ध्यात्वं प्रवृद्धं यदसृग्दरम्।
बलवर्णकरं चैव कासक्षयनिर्बहणम्॥
भेस६.२४.४
बलामूलात्पलशतं दशमूलाच्छतं तथा।
शतावर्या गुडूच्याश्च रास्नामधुकदारुणः॥
भेस६.२४.५
कुर्याद्दशपलान्भागान् कुलुत्थान् बदरान् यवान्।
माषांश्च कुडवांशेन जलद्रोणेषु पञ्चसु॥
भेस६.२४.६
क्वाथं द्रोणावशिष्टन्तु तैलाढकसमायुतम्।
घृतप्रस्थेन विपचेत् क्षीरद्रोणेन चाप्यथ॥
भेस६.२४.७
पेष्यान् प्रदद्याद्वैद्यो वै तगरोशीरवालकम्।
कुष्ठधान्यकमुस्तैला वचाञ्चागुरुचन्दनम्॥
भेस६.२४.८
परिपेलवकालीयं मांसीं श्रीवेष्टकं रसम्।
कुन्दुरुष्कं च तक्कोलं सरलं नलिकां नखम्॥
भेस६.२४.९
स्पृक्काकुंकुमकर्पूरं जातितिन्दुकयोः फलम्।
पत्रं चोरकनागाह्वं शताह्वां सहरेणुकाम्॥
भेस६.२४.१०
सतुरुष्कं जीवनीयं प्रियंगुं हपुषां तथा।
स्थौणेयकमुशीराणि शैलेयं च समं घृतम्॥
भेस६.२४.११
कल्कपिष्टैः पचेत्तैलमेतद्वातामयापहम्।
पाने चाभ्यञ्जने नस्ये वस्तौ चापि प्रयोजयेत्॥
भेस६.२४.१२
सर्वदेहाश्रया वाताः संसृष्टाश्चैकजाश्च ये।
तेषां निग्रहणे युक्तमित्युवाच पुनर्वसुः॥
भेस६.२४.१३
तैलेनानेन सततं विधिवत्तर्पितं नरम्।
सर्वामया वर्जयन्ति सिह्मावासं यथा मृगाः॥
भेस६.२४.१४
बलाया जातसारायास्तुलां कुर्यात्सुकुट्टिताम्।
पचेत्तोये चतुर्द्रोणे चतुर्भागावशेषितम्॥
भेस६.२४.१५
पलानि दश पिष्टानि बलायास्तत्र दापयेत्।
लुञ्चितानां तिलानान्तु दद्यात्तैलाढकद्वयम्॥
भेस६.२४.१६
चतुर्गुणेन पयसा पचेत्तन्मृदुनाग्निना।
वातव्याधिषु सर्वेषु रक्तपित्ते क्षतक्षये॥
भेस६.२४.१७
व्यापन्नासु च योनीषु शस्तं नष्टे च रेतसि।
तालुशोषं तृषां दाहं पार्श्वशूलमसृग्दरम्॥
भेस६.२४.१८
हन्ति शोषमपस्मारं विसर्पं सशिरोग्रहम्।
आयुर्वर्णकरं प्रोक्तं बलातैलं प्रजाकरम्॥
भेस६.२४.१९
रास्नामूलस्य कुर्वीत द्वे शते च बलाशतम्।
शतावरीगुड्चीभ्यां वरणाच्च शतं शतम्॥
भेस६.२४.२०
आढकीशिग्रुकैरण्डशिरीषारग्वधादपि।
श्वदंष्ट्राभूतिकाभ्यां च पृथक् पञ्चपलं क्षिपेत्॥
भेस६.२४.२१
तोयद्रोणेषु दशसु साधयेत्सूक्ष्मकुट्टितम्।
द्रोणावशेषे तस्मिंस्तु तैलस्यार्धर्मणं पचेत्॥
भेस६.२४.२२
द्रोणान् दश च दुग्धस्य घृतस्यार्धढकं तथा।
तदैकध्यं विपक्तव्यं गर्भे चात्र विपाचयेत्॥
भेस६.२४.२३
मधुकं मालतीपुष्पं मञ्जिष्ठां मदयन्तिकाम्।
काश्मर्यामजमोदां च शृङ्गीं कपिलमुस्तकम्॥
भेस६.२४.२४
आत्मगुप्ताढकीमूर्वावार्ताकानि मधूलिकाम्।
सहदेवामथैरण्डां रोहिषं नवमालिकाम्॥
भेस६.२४.२५
फणिज्जकं मधूकानि वीरानीरकदम्बकम्।
फलं च पीलुपालाशं कुमार्यश्वत्थतैन्दुकम्॥
भेस६.२४.२६
ह्रीबेरं पिप्पलीकुष्ठं द्राक्षां कटुकरोहिणीम्।
कायस्थां च वयस्थां च मधुपर्णीं सचित्रकाम्॥
भेस६.२४.२७
महापुरुषदन्तां च मोदकीं सल्लकीमपि।
देवदार्वगुरु श्रेष्ठं चन्दनं परिपेलवम्॥
भेस६.२४.२८
नीलोत्पलमुशीराणि मृद्वीकां साम्लवेतसाम्।
एतैः पलसमैः पिष्टैस्समं तैलं विपाचयेत्॥
भेस६.२४.२९
भोजनेऽभ्यञ्जने पाने वस्तौ नस्ये च शस्यते।
वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे॥
भेस६.२४.३०
स्वरक्षये रक्तपित्ते हिक्काश्वासेष्वसृग्दरे।
मारुते पित्तसंसृष्टे संसृष्टे शोणितेन च॥
भेस६.२४.३१
विषमज्वरहृद्रोगे गात्रकम्पे तथैव च।
अपस्मारे रक्तगुल्मे पुंसां नष्टे च रेतसि॥
भेस६.२४.३२
रास्नातैलमिदं श्रेष्ठं बलमांसविवर्धनम्।
समूलपत्रशाखस्य शतं सहचरस्य च॥
भेस६.२४.३३
चतुर्षु तोयद्रोणेषु साधयेत्सूक्ष्मकुट्टितम्।
द्रोणावशेषपूते च पचेत्तैलाढकं शनैः॥
भेस६.२४.३४
अम्बुजानूपमांसैश्च शिरस्तस्योपनाहयेत्।
नस्यकर्म च कुर्वीत पिचुं मूर्ध्नि च दापयेत्॥
भेस६.२४.३५
मुखं विघटयेत्तस्य सन्दंशेन यथासुखम्।
भृङ्गारेण प्रयच्छेच्च स्नेहमांसरसं तथा॥
भेस६.२४.३६
अव्याददानस्य तथा दन्तानुद्धाट्य संहतान्।
आमाशयगते वाते स्नेहैर्नोपचरेद् भिषक्॥
भेस६.२४.३७
लङ्घनं तस्य कुर्वीत तथा संशोधनानि च।
आमप्रलेपसम्भूतः श्लेष्मस्थानगतोऽनिलः॥
भेस६.२४.३८
स्नेहैर्मांसरसैश्चैव स्नेह्यमानो विवर्धते।
तस्मात्तस्य विरूक्षाणि भोजनानि कटूनि च॥
भेस६.२४.३९
आहारे चौषधार्थे च विदध्याच्शास्त्रकोविदः।
आमाशयस्थे वमनं क्षाराः क्षारगुडास्तथा॥
भेस६.२४.४०
अरिष्टाश्शीधवश्चैव हितं मांसं च जाङ्गलम्।
श्यामाकाः कोरदूषाश्च मुद्गा लोहितशालयः॥
भेस६.२४.४१
स्वेदो यवान्नं च हितमामाशयगतेऽनिले।
यदा पक्वाशयगतो रूपाणि कुरुतेऽनिलः॥
भेस६.२४.४२
सिरासु सर्वगात्रेषु मज्जस्वस्थिगतोऽपि वा।
निरूप्य रूपमुक्तस्य तस्य कुर्याच्चिकित्सितम्॥
भेस६.२४.४३
कृत्स्नं यदुपदिष्टं तु वातव्याधिचिकित्सितम्।
रक्तस्थानगते वायौ पूर्वमुक्तं चिकित्सितम्॥
भेस६.२४.४४
वातशोणितके तत्तु कुर्याद्रक्तगतेऽनिले।
समुत्थितायां गृध्रस्यां बलातैलं प्रशस्यते॥
भेस६.२४.४५
श्रेष्ठं मूलकतैलं वा तैलं सहचरस्य वा।
वस्तयः स्नेहपानानि स्नेहश्चोन्मर्दननि च॥
भेस६.२४.४६
गृध्रस्यां तु प्रशस्यन्ते शोणितस्य च मोक्षणम्।
अशीतिर्वातजा रोगाः ये ये पूर्वं प्रकीर्तिताः॥
भेस६.२४.४७
तेषामेषा चिकित्सा तु वायोः स्थानेषु सप्तसु।
साध्या ये चाप्यसाध्यास्तु रोगा मारुतसम्भवाः॥
भेस६.२४.४८
उत्पतन्त्यथ तिष्ठन्ति वायोः स्थानेषु सप्तसु।
अस्थिमज्जागतो भङ्गं कम्पनं गात्रशोषणम्॥
भेस६.२४.४९
पक्षग्रहमपस्मारमुन्मादमपि चार्दितम्।
हनुग्रहं कुणिं कुब्जं पाङ्गुल्यं सन्धिविच्युतिम्॥
भेस६.२४.५०
करोति मारुतोऽन्ये च वातरोगा भवन्त्यपि।
साध्यान् स्थानवशादेव तांश्चिकित्सेद्यथाक्रमम्॥
भेस६.२४.५१
इतीयं विस्तरेणोक्ता चिकित्सा वातरोगिणाम्।
वातो हि जीविते हेतुः प्राणिनां च तथात्यये॥
भेस६.२४.५२
सन्तत्या गमयेन्नित्यं सूर्यं चन्द्रमसं तथा।
वर्षणं वायुना लोके तथैव च निवारणम्॥
भेस६.२४.५३
वहते च विमानानि सर्वशः स्वर्गवासिनाम्।
सागरे कुरुते वेलां वायुर्मेघान् सृजत्यपि॥
भेस६.२४.५४
विगतिर्वायुना मेघो विद्युद्भवति वायुना।
त्रैलोक्यधारी पवनस्सर्वं वातात्प्रवर्तते॥
भेस६.२४.५५
निर्वर्तयेत्पुष्पफलं वायुर्धारयते जलम्।
उल्कापातान् महीकम्पान् धरणीधारणानि च॥
भेस६.२४.५६
आकाशे धारयेद्गङ्गां वायुस्त्वतिबलान्वितः।
एताश्चान्याश्च बहवो वायोर्गुणविभावनाः॥
भेस६.२४.५७
तस्मात्प्रयत्नतस्तस्य चिकित्सां भिषजां वरः।
कुर्याच्छास्त्रानुसारेण तथा सिद्धिमवाप्नुयात्॥ इत्याह भगवानात्रेयः।
इति भेले चतुर्विंशोऽध्यायः॥


॥पञ्चविंशोऽध्यायः॥[सम्पाद्यताम्]

अथातः प्लीहहलीमकचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.२५.१
अभिष्यन्दीनि भोज्यानि भुञ्जीतातीव यो नरः।
लङ्घितो वा विरिक्तो वा व्यायाममुपसेवते॥
भेस६.२५.२
भुक्त्वा पीतोदको यस्तु सहसा संप्रधावति।
पृष्ठयानाद् द्रुताच्चापि प्लवनात्स्नेहविभ्रमात्॥
भेस६.२५.३
रोगैरन्यैश्च क्लिन्नानां कुर्बलानां च देहिनाम्।
प्लीहा स्थानात्प्रवर्धेत तस्य रूपाणि मे शृणु॥
भेस६.२५.४
करोत्यग्नेर्मार्दवं च शूलं कठिन एव च।
महापरिग्रहश्चैष प्लीहा वातसमुद्भवः॥
भेस६.२५.५
सज्वरः सपिपासश्च स्वेदनस्तीव्रवेदनः।
पीतकः स्तब्धगात्रश्च प्लीहा पित्तात्मको भवेत्॥
भेस६.२५.६
नित्यानाहितकोष्ठश्च नित्योदावर्तपीडितः।
वेदनाभिपरीतश्च प्लीहा श्लेष्मात्मको मतः॥
भेस६.२५.७
त्रयाणां यत्र रूपाणि दोषाणां लक्षयेद् भिषक्।
असाध्यमिति तं विद्यात् प्लीहानं सान्निपातिकम्॥
भेस६.२५.८
मुष्टिमात्रस्सुसाध्यस्तु परमस्तमुपाचरेत्।
अतिप्रमाणवृद्धस्तु न सिध्यति कथञ्चन॥
भेस६.२५.९
सर्वेषु तेषु दौर्बल्यमानाहो गात्रसादनम्।
अरुचिश्चाविपाकश्च वर्चोमूत्रग्रहो ज्वरः॥
भेस६.२५.१०
मार्द्वीकं च पिबेद्युक्त्या गण्डीरारिष्टमेव वा।
चन्द्रप्रभं शार्करं वा पाययेत्तु हलीमके॥
भेस६.२५.११
अयोरजीयं क्षीरेण पाययेत्तु रसायनम्।
अगस्त्याभयलेहं वा सेवेत प्रयतः शुचिः॥ इत्याह भगवानात्रेयः॥ इति भेले पञ्चविंशोऽध्यायः॥


॥षड्विंशोऽध्यायः॥[सम्पाद्यताम्]

अथातोऽपतन्त्रकचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.२६.१
रूक्षान्नपानसेवाभिर्वेगसन्धारणेन च।
कर्शितस्यातिमात्रन्तु चेष्टितस्य तथैव च॥
भेस६.२६.२
विरिक्तयुक्तनस्यस्य वस्तिना कर्शितस्य च।
अपतन्त्रितभक्तस्य भक्तस्याप्यतिसेविनः॥
भेस६.२६.३
शुद्धः पक्वाशयगतो वायुर्वृद्धः प्रपद्यते।
स पीडयित्वा हृदयं धमनीर्दश संस्थितः॥
भेस६.२६.४
ऊर्ध्वमापूर्य स्रोतांसि शिरश्शङ्खौ च धावति।
आक्षेपात्तस्य गात्राणि नाम्यन्ते च धनुर्यथा॥
भेस६.२६.५
निमीलिताक्षः स्तब्धो वा निरुच्छवासो विचेष्टते।
कृच्छ्राच्छवसिति सर्पीव कूजत्यपि कपोतवत्॥
भेस६.२६.६
मुक्ते च हृदि वातेन पुनः स्वास्थ्यं नियच्छति।
भूयस्तु शेते स्रस्ताक्षो मुह्यत्यप्रयतो यथा॥
भेस६.२६.७
घोरस्स वातिको रोगो धमनीहृदयाश्रितः।
सन्निरोधाच्च नाडीनां यन्त्रितानां च वेगतः॥
भेस६.२६.८
स्रोतसां व्याकुलीभावान्नित्यं स्यादपतन्त्रकः।
न चैनं वामयेद्धीरो न चाप्येनं विरेचयेत्॥
भेस६.२६.९
न चास्यास्थापनं दद्यान्न चैनमपतर्पयेत्।
पिप्पल्योऽथ विडङ्गानि शिग्रूणि मरिचनि च॥
भेस६.२६.१०
एतानि सूक्ष्मपिष्टानि कुर्याच्छीर्षविरेचनम्।
श्वसतो यस्य संवृद्धिः श्लेष्मणो मारुतस्य च॥
भेस६.२६.११
तस्य श्लेष्मण्युपहते संज्ञा समुपजायते।
सौवर्चलं दाडिमं च तथा हिंग्वम्लवेतसम्॥ ६.२भेस६.१२.। महौषधं च पीतानि नाशयन्त्यपतन्त्रकम्।
हिङ्गु पुष्करमूलं च तुम्बुरूणि हरीतकी॥
भेस६.२६.१३
यवक्वाथोदकेनैतद्दातव्यं लवणैस्त्रिभिः।
हृद्रोगं पार्श्वशूलं च प्रवृद्धं चापतन्त्रकम्॥
भेस६.२६.१४
योगोऽयं शमयत्याशु शूलं गुल्मं च वातिकम्।
विभीतकं चातिविषां भद्रमुस्तां सपिप्पलीम्॥
भेस६.२६.१५
भार्ङ्गीं सशृङ्गबेरां च सूक्ष्मचूर्णानि कारयेत्।
तानि चूर्णानि मद्येन पीतान्युष्णोदकेन वा॥
भेस६.२६.१६
नाशयन्ति नृणां क्षिप्रं श्वासकासपतानकम्।
हरीतकी वचा रास्ना सैन्धवं साम्लवेतसम्॥
भेस६.२६.१७
घृतमात्रासमायुक्तं नाशयत्यपतानकम्।
शुकनासा महावल्ली द्वे बृहत्यौ महौषधम्॥
भेस६.२६.१८
निचुलश्चैव भार्ङ्गी च ... ... कालिका।
पुनर्नवा चेति समैरक्षमात्रैः पचेद्भिषक्॥
भेस६.२६.१९
तोयाढके घृतप्रस्थं तत्सिद्धं चापि पाययेत्।
श्वासकासा महाहिक्का हृद्रोगश्चापतन्त्रकः॥
भेस६.२६.२०
नातिक्रामेदिदं सर्पिः वेलामिव महोदधिः।
काकादनी बलालम्बा द्वे बृहत्यौ महौषधम्॥
भेस६.२६.२१
कदम्बपुष्पी काला च चन्द्रवल्ली तथा वृषा।
आदारी च विदारी च सुवहा केशवत्यपि॥
भेस६.२६.२२
एतेषां द्विपलान् भागान् जलद्रोणे विपाचयेत्।
एतैरेवाक्षमात्रैश्च घृतप्रस्थं विपाचयेत्॥
भेस६.२६.२३
द्विगुणेन कषायेण तत्सिद्धं युक्तियः पिबेत्।
असाध्यां महतीं हिक्कां श्वासं चैवापकर्षति॥
भेस६.२६.२४
हरीतक्याश्च पञ्चाद् द्वे च सौवर्चलात्पले।
विपाचयेद् घृतप्रस्थं द्विगुणक्षीरसंयुतम्॥
भेस६.२६.२५
अपतानं सहृद्रोगमेतसर्पिर्व्यपोहति।
हिक्काश्वासौ च संवृद्धौ सद्य एव चिकित्सति॥
भेस६.२६.२६
अतपानकनाशार्थमेतदुक्तं चिकित्सितम्।
अथार्दितानां वक्ष्यामि चिकित्सां लक्षणानि च॥
भेस६.२६.२७
शस्त्रकाष्ठप्रहाराच्च ग्राम्यधर्मातिसेवनात्।
छर्दनान्मद्यपानाच्च धनुषश्च विकर्षणात्॥
भेस६.२६.२८
नित्यं व्यायामशीलानां पतनाल्लङ्घनादपि।
अवतन्त्रितभक्तस्य व्याधिना कर्शितस्य च॥
भेस६.२६.२९
नरस्य कुपितो वायुरूर्ध्वमेव प्रपद्यते।
हनुमूलं शिरश्चापि ग्रीवां चैवार्दयत्यपि॥
भेस६.२६.३०
स जिह्मं कुतुते तस्य वदनं चक्षुरेव च।
कम्पतेऽस्य शिरोग्रीवं नासा वक्रीभवत्यपि॥
भेस६.२६.३१
तस्याक्षिणी निमील्येते निष्पन्दे विषमे तथा।
ऊर्ध्वं विप्रेक्षतेऽत्यर्थं तिर्यगाकेकरेक्षणः॥
भेस६.२६.३२
ओष्ठौ श्वयथुमन्तौ च चिबुकं च विनाम्यते।
ष्ठीवत्यथातिमात्रं हि कला सज्जति चास्य वाक्॥ ... ... ... ... ... ... ... ... ...


॥सप्तविंशोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ... ... ... ... ... ... ... ... ... ... ... नां व्रणनाशनाः।
भेस६.२७.१
व्रणस्य काले सम्पश्यन् ततः कुर्यादुपक्रमम्।
भेदनं पाचनं चैव स्तम्भनं शोषणं तथा॥
भेस६.२७.२
स्रावणं रोपणं चैव व्रणे कुर्यादुपक्रमम्।
उदिता कर्णमोटश्च रास्ना मूलकपर्णिका॥
भेस६.२७.३
शुकनासा सुगन्धा च समङ्गा चैव कुष्ठकम्।
कालेयकं बला दन्ती पाठा शतपदी स्थिरा॥
भेस६.२७.४
पीडनीयः प्रलेयोऽयं व्रणश्वयथुनाशनः।
उदुम्बरः शिरीषश्च मधुकं चन्दनं तिलाः॥
भेस६.२७.५
इन्दुकान्तं समुद्रान्ता तथैव च शतावरी।
नीलोत्पलं पद्मकं च त्वचा द्वे चापि सारिबे॥
भेस६.२७.६
एष प्रलेपो गारं च व्रणानां तु विनाशयेत्।
तिलकल्कस्समधुकः पिचुमन्दस्य कल्कवान्॥
भेस६.२७.७
पूर्वाभ्यां सर्पिषा युक्तो व्रणेषु व्रणरोपणः।
त्रिफला धातकी लोध्रं समङ्गा मधुकं बला॥
भेस६.२७.८
द्वे बृहत्यौ समुद्रान्ता तथैव च शतावरी।
नीलोत्पलं कट्फलं च मालती स्वर्णयूथिका॥
भेस६.२७.९
एषां कल्कैस्समैस्सिद्धं तैलं स्याद् व्रणरोपणम्।
निम्ब्वाम्रामलकीनां च पल्लवं मधुकं बला॥
भेस६.२७.१०
एतैश्शकृद्रसेसिद्धं तैलं व्रणनिबर्हणम्।
न्यग्रोधोदुम्बराश्वत्थप्लक्षपाठावरार्जुनाः॥
भेस६.२७.११
शमीबदर्या एतेषां कषाया व्रणधावनाः।
यवान्नं शालिका रक्ता मुद्गा नीवारषष्टिकाः॥
भेस६.२७.१२
जाङ्गलानि च मांसानि व्रणितश्शीलयेत्सदा।
अम्लं दधि च शाकं च मांसं चानूपवारिजम्॥
भेस६.२७.१३
क्षीरं गुरूणि चान्नानि व्रणितः परिवर्जयेत्।
एतनुपक्रमान् कुर्याद् व्रणे कायचिकित्सकः॥
भेस६.२७.१४
शल्यकृच्चापि कुर्वीत व्रणे शेषानुपक्रमान्।
छेद्यं भेद्यं च लेख्यं च सीव्यं प्रच्छनमेव च॥
भेस६.२७.१५
पाचनं यच्च तस्तुल्यं भवेदन्यच्च किंचन।
द्वादश व्रणदोषाश्च परीक्षा चैव षड्विधा॥
भेस६.२७.१६
उपक्रमाश्च षट्त्रिंशन्नियताः शल्यहेतुके।
उद्देशतः क्रियाश्चैताः कुर्यात्कायचिकित्सकः॥
भेस६.२७.१७
त्रिफला मधुकं लोध्रं मञ्जिष्ठा बिल्वशुण्ठिका।
समङ्गा धातकी लाक्षा विर्यासः शाल्मलेरपि॥
भेस६.२७.१८
पालाशस्य च निर्यासो निर्यासः ककुभस्य च।
सूक्ष्मान्येतानि चूर्णानि व्रणानां रोपणं परम्॥
भेस६.२७.१९
गुग्गुलोः सल्लकीनां च सर्जस्य तिनिशस्य च।
निर्यासा रोपणाः पोक्ताः समस्ताः पृथगेव वा॥
भेस६.२७.२०
व्रणे धूमक्रमा ये च प्रत्युत्पत्तौ च या क्रिया।
एतच्छेषं शल्यकृता कर्तव्यं दृष्टकर्मणा॥ इत्याह भगवानात्रेयः।
इति भेले सप्तविंशोऽध्यायः॥


॥अष्टाविंशोऽध्यायः॥[सम्पाद्यताम्]

अथातः पानात्ययचिकित्सितं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस६.२८.१
सर्वे लवणवर्ज्यास्तु रसा मद्ये प्रतिष्ठिताः।
तीक्ष्णं चोष्णं तथा सूक्ष्ममाशुकारि व्यवायि च॥
भेस६.२८.२
दीपनीयं च हृद्यं च सर्वभूतहितं लघु।
चिन्ताशोर्कक्लमहरं रतिप्रीतिविवर्धनम्॥
भेस६.२८.३
हर्षस्थाने हर्षकरं भयस्थाने भयापहम्।
रतिविहारजननं द्युतिशौर्यकरं परम्॥
भेस६.२८.४
शरीरावयवान् सर्वाननुगच्छत्यणूनपि।
तैक्ष्ण्यान्मोहयते चित्तमौष्ण्यात्पित्तकरं च तत्॥
भेस६.२८.५
हृद्यं वैशद्यभावाच्च रौक्ष्यान्मारुतकोपनम्।
श्लेष्मघ्नं तीक्ष्णभावच्च हर्षणाद् वृष्यमुच्यते॥
भेस६.२८.६
मद्यावचारणात्तस्य कुपितौ पित्तमारुतौ।
शोषयेतां रसवहाः सिराः क्लोम च तालु च॥
भेस६.२८.७
तृषापरीतस्सोऽत्यर्थं पानमेवाभिनन्दति।
पीतं पीतं शोषयतो देहे तस्याग्निमारुतौ॥
भेस६.२८.८
गच्छत्याशु जरां देहे सिकतायामिवोदकम्।
तस्मादहोरात्रमपि पिबतः पानसेविनः॥
भेस६.२८.९
तृष्णा नोपशमं याति पानं जीर्यति चाशु च।
भ्रामितस्य तु मद्येन पित्तं वायुश्च देहिनः॥
भेस६.२८.१०
विहीने चित्तमनसि बुद्धिं पीडयतस्ततः।
स रोदिति प्रहरति विसृजत्यति धावति॥
भेस६.२८.११
पतत्युत्पतते हन्ति बह्वबद्धं च भाषते।
गच्छत्यगम्यामन्यां च कार्याकार्ये न बुध्यते॥
भेस६.२८.१२
तथा श्वभ्रे च पतति शेते च मृतशायिकाम्।
नग्नो विशेद्विचैतन्यं विचरेद्धि विचेतनः॥
भेस६.२८.१३
ईदृशोऽपि भवेन्मत्तः पानेनोन्मथितेन्द्रियः।
प्रमाणेन पिबेन्मद्यं नातिसेवेत पण्डितः॥
भेस६.२८.१४
युक्त्या तु सेव्यमानं तत्पानं चामृतमुच्यते।
पानं तद्भोजनेऽत्यर्थं रुचिमन्तं करोति च॥
भेस६.२८.१५
हर्षं जनयते स्त्रीषु तज्जरोगं चिकित्सकः।
पानेनैव प्रशमयेन्नान्यत्तस्य चिकित्सितम्॥
भेस६.२८.१६
तस्मान्मद्यं निषेवेत शुभ्राणि वचनानि च।
भजेल्लघूनि चान्नानि जाङ्गलान्न मृगद्विजान्॥
भेस६.२८.१७
स्नानं सुगन्धैः स्नानीयैः कृत्वा त्वगनुलेपनम्।
शब्दान् मनोज्ञान् शृण्वंश्च मनोज्ञैस्सह बन्धुभिः॥
भेस६.२८.१८
गृहेऽत्यन्तसुखे ह्येतत्कुर्यात् प्रस्थोत्तरोत्तरम्।
कान्तास्सुमध्यवयसः तनुमध्याश्शुचिस्मिताः॥
भेस६.२८.१९
चन्द्रपादान्मनोहृष्टाश्चित्रमाल्याम्बरस्रजः।
चतुराः क्षौमवसना मुक्तामणिविभूषिताः॥
भेस६.२८.२०
रक्तचन्दनदिग्धाङ्गा मनोज्ञा मणिमेखलाः।
ताः समालिङ्ग्य शयने शयीताप्रतिमाः स्त्रियः॥
भेस६.२८.२१
योषितो वै प्रधाना वै शीतस्पर्शाः स्वभावतः।
नृणां स्वभावतश्चैव नार्यो हर्षविवर्धनाः॥
भेस६.२८.२२
सोमो हि शिशिरो धातुर्हृदि हर्षात् प्रवर्धते।
तस्मादालापसंलापैस्संवाहनविनोदनैः॥
भेस६.२८.२३
नारीं प्रहर्षजननीं सेवेताशु मदात्यये।
गीततूर्यस्वनास्तत्र सुहृदश्च मदोत्कटाः॥
भेस६.२८.२४
प्रियानुवर्ति गायन्तो हर्षं कुर्युर्मदात्यये।
निर्दोषाणि च मद्यानि युक्तानि शिशिरैर्जलैः॥
भेस६.२८.२५
तानि तानि शुभैर्मासैः सोपदंशानि पाययेत्।
पानकानि च मुख्यानि षाडवांस्तर्पणानि च॥
भेस६.२८.२६
तवक्षीरीं सचुक्रीं च सेवेतासौ मदात्यये।
तक्रं द्राक्षारसस्सीधुस्तैत्तिरीको रसो मधु॥
भेस६.२८.२७
आरनालं च शुक्रं च कोलदाडिमयो रसौ।
लाजाः सन्तर्पणाश्चैव सूक्ष्माश्च यवतर्पणाः॥
भेस६.२८.२८
सौवर्चलमजाज्यश्च सैन्धवं लवणं तथा।
शिशिरेण जलेनैतत्तर्पणं पानवत्पिबेत्॥
भेस६.२८.२९
मातुलुङ्गोपदंशं च हन्यात्पानात्ययं नृणाम्।
लाक्षारसस्तैत्तिरीको दाडिमस्य रसो मधु॥
भेस६.२८.३०
पूर्वकल्पेन पातव्यं सम्पन्ने पानविभ्रमे।
कर्कन्धुबदराणां च प्रस्थं कुर्यात्सुकुट्टितम्॥
भेस६.२८.३१
द्विप्रस्थे गालयंस्तोये सप्तकृत्वः पुनः पुनः।
मृण्मये तत्र वै भाण्डे स्वनुगुप्तं निधापयेत्॥
भेस६.२८.३२
द्वे च दद्याद् गुडपले शर्करायाः पलं तथा।
सूक्ष्मं च मरिचात्कर्षं चतुर्थं केसरस्य च॥
भेस६.२८.३३
त्वक्पत्रधरणे द्वे च सूक्ष्मैलाकर्षमेव च।
अमृणालार्धकर्षं च सूक्ष्मचूर्णानि कारयेत्॥
भेस६.२८.३४
जातीवासनयोपेतं पानकं पानविभ्रमे।
नाशयत्याशु पानेन छिन्नाभ्राणीव मारुतः॥
भेस६.२८.३५
एतच्छर्दिं तृषां दाहमतिसारं प्रवाहिकाम्।
अरुचिं मूत्रकृच्छ्रं च हन्यात्पानात्ययं नृणाम्॥
भेस६.२८.३६
काश्मर्यं दाडिमं द्राक्षां मधुकं सपरूषकम्।
कुटजानि च संक्षुद्य प्रक्षिपेत्तज्जलाढके॥
भेस६.२८.३७
सूक्ष्मैलामधुकं लोध्रं मञ्जिष्ठा पिप्पली तथा।
एतानि सूक्ष्मचूर्णानि दद्यान्मानं च युक्तितः॥
भेस६.२८.३८
केसरं चात्र दातव्यं पुष्पं नीलोत्पलस्य च।
एतत्पानात्यये देयं तृषाच्छर्दिनिवारणम्॥
भेस६.२८.३९
द्वे गुडूची पले द्वे च बला द्विपलमेव च।
लामज्जकमृणालाभ्यां द्वे पले मधुकोत्पलम्॥
भेस६.२८.४०
एतान्यापोथ्य देयानि नवे भाण्डे जलाढके।
गुडस्य च पलान्यष्टौ दद्यान्नीलोत्पलं तथा॥
भेस६.२८.४१
एतत्पानात्यये देयं पानकं केसरैर्युतम्।
ज्वरदाहतृषाश्वासच्छर्दिहिक्काश्च नाशयेत्॥
भेस६.२८.४२
यदि संशमनैरेतैर्न शाम्येत्पानविभ्रमः।
पाययेत्तं त्रिवृच्चूर्णं युक्त्या मद्येन संयुतम्॥
भेस६.२८.४३
पिबेद्विरेचनं चूर्णं महातर्पणमेव वा।
पूर्वोक्तान्मोदकांश्चापि भक्षयित्वा पिबेत्सुराम्॥
भेस६.२८.४४
वमनीयं यदा विद्यात्तदैनं वामयेद्भिषक्।
वमनैर्मद्यसंयुक्तैश्चूर्णैः पाचनकैरपि॥
भेस६.२८.४५
यवक्षारैश्च संसर्गीं तस्य कुर्याच्चिकित्सकः।
न हि पेयाः प्रशस्यन्ते मनुष्याणां मदात्यये॥
भेस६.२८.४६
मदात्यये न शस्यन्ते यवाग्वो दोषनाशनाः।
जाष्यात् पानस्य पीतस्य वेगं जनयते पुनः॥
भेस६.२८.४७
तन्मद्यशेषं संवृद्धं कुर्वाद्घोरानुपद्रवान्।
तस्मात्पानात्ययेऽपथ्याः स्नेहाः पेया यवाग्वपि॥
भेस६.२८.४८
सूक्ष्माणि देहस्रोतांसि मद्यं समनुधावति।
तिष्ठत्यवयवैश्चान्यस्रोतस्सु विषमेष्वपि॥
भेस६.२८.४९
विष्वग्धृतांस्तु कोष्ठस्थान् कोपयत्यानिलादिकान्।
धातवस्ते खरीभूता विवृद्धाः पानदूषिताः॥
भेस६.२८.५०
पानेन सह संसृष्टा जनयन्त्यामयान् बहून्।
व्यवायि मद्यमुद्दिष्टं विशेषेण मनीषिभिः॥
भेस६.२८.५१
ये तु सूक्ष्मादिविषया मद्यादीननुयान्ति वै।
न हि तान्विषयानन्यो रसश्शक्तो विधारितुम्॥
भेस६.२८.५२
तस्मात्पानात्ययार्तानां मद्यमेवौषधं परम्।
स्वा हि योनिश्च तत्पानं प्रलीनं कोष्ठमाश्रितम्॥
भेस६.२८.५३
वशीभूतं प्रयत्नेन महास्रोतः प्रपद्यते।
आर्तस्य मद्यसंयुक्तान्यौषधान्यपि सर्वशः॥
भेस६.२८.५४
मद्यात्यये प्रकुर्वीत क्रियाः शीताश्च सर्वशः।
अतश्च मद्यसंयुक्तास्तर्पणाः खलु देहिनः॥
भेस६.२८.५५
देयाश्चातिविरिक्ताय स्रोतसां शोधनाय च।
औष्ण्यात्तैक्ष्ण्याद्विकासित्वाद् व्यवायित्वाच्च रौक्ष्यतः॥
भेस६.२८.५६
तुल्यं हि रसवीर्याभ्यां विषं मद्यं च कीर्तितम्।
तस्मात्तत्तत्क्रियास्सर्वा विषवत्समुपाचरेत्॥
भेस६.२८.५७
क्लेदनं तीक्ष्णमुष्णं च विदाह्यञ्जननावनम्।
तस्मादुष्णोदकं स्वेदं धूमं पानं च सर्पिषः॥
भेस६.२८.५८
ज्वालानलं तु सर्वेषां यवागूश्च विवर्जयेत्।
दधि दुग्धं च शाकं च ग्राम्यानूपौदकानि च॥
भेस६.२८.५९
तिलपिष्टकृतं चैव पानरोगी विवर्जयेत्।
शालीन् सषष्टिकान् मुद्गान् जाङ्गलान्मृगपक्षिणः॥
भेस६.२८.६०
पानात्यये प्रशंसन्ति भोजनेषु चिकित्सकाः।
समेषु धातुकोपेषु विविक्तेषु च मे शृणु॥
भेस६.२८.६१
अतिमात्रं यदा पानं पीतं कोपयतेऽनिलम्।
संदृश्य वातिकं रूपं तस्य कुर्याच्चिकित्सितम्॥
भेस६.२८.६२
सौवर्चलव्योषयुतं मद्यं माक्षिकसंयुतम्।
चुक्रं दाडिमसंयुक्तं वातपानात्यये हितम्॥
भेस६.२८.६३
तोयं मद्यं च शुक्तं च दधि त्वम्लं च काञ्जिकम्।
समाक्षिकस्तर्पणोऽयं वातपानात्यये हितः॥
भेस६.२८.६४
अभ्यङ्गो मर्दनं स्नानं पानान्यर्धोदकानि च।
व्यक्ताम्लव्योषसंयुक्तान् रसान् व्रीहींश्च शीलयेत्॥
भेस६.२८.६५
छागलं तैत्तिरं क्रौञ्चं कौक्कुटं बार्हिणं तथा।
वातपानात्ययार्तानां भोजनार्थं हितं नृणाम्॥
भेस६.२८.६६
आम्रमाम्रातकं भव्यं कपित्थं करमर्दकम्।
पूर्वकल्पेन पातव्यं पानकं वातरोगिणाम्॥
भेस६.२८.६७
चव्यं सौवर्चलं हिङ्गु मातुलुङ्गमहौषधम्।
तथाजमोदचूर्णं च मद्येन सह पाययेत्॥
भेस६.२८.६८
पानात्यये पित्तकृते पानकं शर्करायुतम्।
पिबेन्माक्षिकसंयुक्तमर्धतोयपरिप्लुतम्॥
भेस६.२८.६९
केचित्पानं तु गर्हन्ति पित्तपानात्यये नृणाम्।
तन्मद्यान्न हि चेच्छक्यं विना चान्यैश्चिकित्सितुम्॥
भेस६.२८.७०
संयुक्तं तद्धि पित्तघ्नैर्मद्यमेवापि सेव्यते।
विदार्यामलकानां च रसैरिक्षुरसेन वा॥
भेस६.२८.७१
मधूकमधुकाश्मर्यखर्जूरं नीलमुत्पलम्।
पानकं मद्यसंयुक्तं पूर्वकल्पेन साधयेत्॥
भेस६.२८.७२
आर्द्रक्षौमपरिच्छन्ना मुक्तामणिविभूषिताः।
श्यामाश्चन्दनदिग्धाङ्गाः स्वप्यादाश्लिष्य योषितः॥
भेस६.२८.७३
मद्यं खर्जूरकल्केन पिबेदिक्षुरसेन वा।
पक्वं पीलुरसं वापि वार्ताकीरसमेव वा॥
भेस६.२८.७४
रसो द्राक्षाविदारीभ्यां मद्यमिक्षुरसो मधु।
पित्तपानात्ययार्तानामेतत्पानं हितं नृणाम्॥
भेस६.२८.७५
दृतिं हिमाम्बुसम्पूर्णां गन्धमाल्यसमुच्छ्रिताम्।
स्वप्यात्परिष्वज्य गृहे पित्तपानात्ययार्दितः॥
भेस६.२८.७६
सरांसि वनराजिश्च नलिनी फुल्लपङ्कजा।
भवेत्पङ्कजपत्रैश्च शयनं चन्दनोक्षितम्॥
भेस६.२८.७७
उपगूह्य मृणालानि कल्हारकुसुमानि च।
शयीत जलसंसृष्टव्यजनैरुपवीजितः॥
भेस६.२८.७८
पानात्यये पित्तकृते शस्त्राशनिविषोपमे।
जाङ्गलैर्घृतसंयुक्तैर्भोजयेद्रक्तशालिकान्॥
भेस६.२८.७९
मुद्गयूषेण वा शीतं भोजन्मृदुलौदनम्।
त्रिफलायाः कषायं वा पिबेन्मद्येन संयुतम्॥
भेस६.२८.८०
क्षौद्रेण रसमिक्षोर्वा त्रिवृत्कल्केन वा पुनः।
त्रिफलात्वङ्मधूकानि पद्मकं पद्मकेसरम्॥
भेस६.२८.८१
नीलोत्पलं मृणालानि नलदं चन्दनं बलाम्।
सिद्धं कषायं शीतं तैः शर्करामधुसंयुतम्॥
भेस६.२८.८२
किंचिन्मद्येन संयुक्तं पित्तपानात्यये हितम्।
द्राक्षा पीलूनि पक्वानि खर्जूराणि परूषकम्॥
भेस६.२८.८३
भव्यं पनसमज्जा च मज्जा तालफलस्य च।
आपोथ्य तानि सर्वाणि पलांशानि जलाढके॥
भेस६.२८.८४
चतुर्भागावशेषं तु नवे कुम्भे समावपेत्।
दत्वा सितापलान्यष्टौ पलं नीलोत्पलस्य तु॥
भेस६.२८.८५
तत्पिबेत्पानकं युक्त्या पित्तपानात्ययार्दितः।
श्लैष्मिके पानरोगे च मद्येन वमनं हितम्॥
भेस६.२८.८६
पटोलं पिचुमन्दं च मदनस्य च पल्लवम्।
गुडूची चाटरूषश्च त्रिफला पारिभद्रकः॥
भेस६.२८.८७
कषायं पाययेदेतं शीतं माक्षिकसंयुतम्।
नित्यं सेवेत तिक्तानि कषायकटुकानि च॥
भेस६.२८.८८
जाङ्गलानि च मांानि सेवेत मृगपक्षिणाम्।
पिबेत्कुटन्नटाचूर्णं त्रिफलारससंयुतम्॥
भेस६.२८.८९
दीपनीयांश्च सेवेत योगान् पानेन नित्यशः।
विकारे श्लेष्मणि हितं मद्यं भूयिष्ठमेव हि॥
भेस६.२८.९०
तस्मात्पानात्यये मद्यं श्लैष्मिके परिचक्ष्महे।
एषा विमानतः प्रोक्ता श्लेष्मपानात्यये क्रिया॥
भेस६.२८.९१
सर्वतः सन्निपाते तु सदा कुर्याच्चिकित्सितम्।
अहानि सप्त चाष्टौ वा नृणां पानात्यये स्मृतम्॥
भेस६.२८.९२
पानं हि भजते जीर्णमत ऊर्ध्वं विमार्गतः।
अनेन कालयोगेन यो रोगो न निवर्तते॥
भेस६.२८.९३
कृत्वानुपूर्व्या पानस्य कुर्यात्तस्य चिकित्सितम्।
हिक्काश्वासादयो रोगा ये च सर्वे समुत्थिताः॥
भेस६.२८.९४
तेषां चिकित्सितं कुर्याद्यथा स्वे स्वे चिकित्सिते।
इति पानात्ययार्तानां विस्तरेण चिकित्सितम्॥
भेस६.२८.९५
प्रजाहितमिदं प्रोक्तं शिष्याणामर्थसिद्धये॥ इत्याह भगवानात्रेयः।
इति भेले अष्टाविंशोऽध्यायः॥

इति भेलसंहितायां चिकित्सास्थानं समाप्तम्॥