भाषावृत्तिः/अष्टमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः भाषावृत्तिः
चतुर्थः पादः
पुरुषोत्तमदेव

 
[560]
-8-4-1- रषाभ्यां नो णः समानपदे ।।
रषाभ्यां परस्य नस्य णत्वं स्यात् समानपदे। विस्तीर्णम्। पुष्णाति। कुष्णाति।
समानपदे किम् ? वार्निधिः। पितृनाम्।
।ऋवर्णाच्च ।। तिसृणाम्। चतसृणाम्। मातृणाम्। पितृणाम्।
-8-4-2- अट्कुप्वाङ्नुम्व्यवायेऽपि ।।
समानपदेऽडादिव्यवायेऽपि रषऋभ्यो नस्य णत्वं स्यात्। करणम्। हरणम्। उरः केण। गृह्णाति। वृक्णः। रोषणः। भूषणम्। वृक्षेण। मूर्खेण। भृङ्गेण। दर्पेण। गर्भेण। आङ--पर्याणयति। नुमनुस्वारोपलक्षणार्थम्। वृंहणम्। वृंहणीयम्। दृंहणम्। दृंहणीयम्।
अडादिव्यवाये किम् ? चुटुतुलर्शव्यवाये मा भूत्। रौचनम्। दर्शनम्। कपर्दकेन। एकपद इत्येव--अग्निरानीयताम्।
अडादिव्यवायो यावण्णत्वमनुवर्त्तते।
-8-4-3- पूर्वपदात् संज्ञायामगः ।।
पूर्वपदस्थरषऋभ्यः परस्य नस्य णत्वं स्यात्, संज्ञा चेत्। खरणसः। शूर्पणखा। नारायणः।
संज्ञायां किम् ? दीर्घनयना स्त्री। कथमग्रणीः, ग्रामणि कुलमिति ? अग्रग्रामाभ्याञ्चेत्युपसंख्यानात्। अगः किम् ? ऋगयनम्। अडादिव्यवाय इत्येव -- अर्धनसः।
अतः परं पूर्वपदस्थरषऋभ्यो विधिः।
[561]
-8-4-4- वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः ।।
एभ्यो वननकारस्य संज्ञायां णत्वं स्यात्। पुरगावणम्। मिश्रकावणम्। सिध्रकावणम्। शारिकावणम्। कोटरावणम्। अग्रेवणम्। पूर्वेण सिद्धौ नियमान्नेह -- इन्द्रवनम्।
-8-4-5- प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ।।
एभ्यो वनस्य संज्ञायामसंज्ञायामपि नस्य णः स्यात्। प्रकृष्टं वनं
प्रवणम्। निर्गतो वनात् निर्वणम्। अन्तर्वणम्। शरवणम्। इक्षुवणम्। प्लक्षवणम्। आम्रवणम्। कार्ष्यवणम्। खदिरवणम्। पीयूक्षावणम्।
-8-4-6- विभाषौषधिवनस्पतिभ्यः ।।
एभ्यो वनस्य णत्वं वा स्यात्। ओषधेः -- दूर्वावणम्, दूर्वावनं वा। वनस्पतिरिह वृक्षमात्रं गृह्यते, व्याप्तेः। शिरीषवणम्, शिरीषवनं वा। गम्भारीवणम्, गम्भारीवनं वा।
व्यवस्थितविभाषया नेह -- इरिकावनम्। तिमिरावनम्।
द्व्यक्षरत्र्यक्षरेभ्योऽभिधानान्नेह -- देवदारुवनम्। सहकारवनम्। अडादिव्यवाय इत्येव -- न्यग्रोधवनम्।
-8-4-7- अह्नोऽदन्तात् ।।
अदन्तादह्नो नस्य णत्वं स्यात्। पूर्वाह्णः। अपराह्णः।
अदन्तात् किम् ? निरह्नः।
-8-4-8- वाहनमाहितात् ।।
वोढव्याद्वाहनस्य नो णः स्यात्। दर्भवाहणो वटुः। इक्षुवाहणो गौः। [562] तार्क्ष्यवाहणः।
आहितात् किम् ? गर्गसम्बन्धि वाहनं गर्गवाहनम्। यदा तु गर्ग एव वोढव्यस्तदा -- गर्गवाहणमिति।
-8-4-9- पानं देशे ।।
पूर्वपदस्थेभ्यो रषऋभ्यः परस्य पाननकारस्य णत्वं स्यात् देशे। पीयत इति पानम्। सुरापाणाः प्राच्याः।
असृक्पाणाधिपं तूर्णम्।
देशे किम् ? सुरापानो मनुष्यः।
-8-4-10- वा भावकरणयोः ।।
भावे करणे च पाननकारस्य णत्वं वा स्यात्। पीयूषपाणम्, पीयूषपानं वा। कषायपाणम्, कषायपानं वा। सुरापाणं वर्तते, सुरापानं वा। करणे - क्षीरपाणः कंसः, क्षीरपानो वा।
कथं निष्पानम्, दुष्पानम् इति ? षात् पदान्तात् इति (8.4.35) निषेधात्।
। गिरिनद्यादीनामुपसंख्यानम् ।। गिरिणदी, गिरिनदी वा। स्वर्णदी, स्वर्नदी वा।
-8-4-11- प्रातिपदिकान्तनुम्विभक्तिषु च ।।
एषु नस्य णत्वं वा स्यात्। प्रातिपदिकान्ते -- माषवापिणौ, माषवापिनौ वा। व्रीहिवापिणौ, व्रीहिवापिनौ वा। नुम् -- माषवापाणि, माषवापानि वा। व्रीहिवापाणि, व्रीहिवापानि वा।
विभक्तौ -- परमाहिणा, परमाहिना वा।
कथं प्रपक्वानि, क्षत्रिययूनेति ? क्षुभ्नादित्वात्।
अडादिव्यवाय इत्येव -- गर्दभवाहिनौ।
-8-4-12- एकाजुत्तरपदे णः ।।
एकाजुत्तरपदेषु तेषु नो नित्यं णः स्यात्। वृत्रहणौ। क्षीरपाणि। क्षीरपेण।
अडादिव्यवाय इत्येव--व्रीहिजानि।
णग्रहणं नित्यार्थम्।
[563]
-8-4-13- कुमति च ।।
कवर्गवदुत्तरपदे तेषु नो नित्यं णः स्यात्। नगरबकेण। नगरकाकेण। दक्षमखेण। दक्षमुखेण। वृकमुखेण। युजाक्रीड इति घिनुण् -- वस्त्रयोगिणौ। पुष्पयोगिणः। पुष्पयुगाणि। वृषभयुगाणि। सर्वाङ्गाणि। वृक्षयुगेण। वर्षभोग्येण। मूर्खौघेण।
अडादिव्यवाये किम् ? व्रीहित्यागिनः। कथं शास्त्रवाक्यानि, कुरुमुख्यानाम्, प्रष्ठोऽग्रगामिनि, छात्रगामिना, चन्द्रगोमिना इति ? क्षुभ्नादित्वात्।
-8-4-14- उपसर्गादसमासेऽपि णोपदेशस्य ।।
असमासे समासे च प्रादिस्थरषऋभ्यो धातोर्नस्य णत्वं स्यात्। प्रणमति। प्रतिणनीषति। प्रणायकः। निर्णयः।
णोपदेशस्य किम् ? प्रनर्दति। कथं दुर्नयः ? क्षुभ्नादित्वात्।
अतः परमुपसर्गस्थ-ष-ऋभ्यो विधिः।
-8-4-15- हिनुमीना ।।
अनयोर्नस्य णत्वं सयात्। ग्रहिणोति। प्रहिणुतः। प्रमीणाति। प्रमीणीतः।
-8-4-16- आनि लोट् ।।
लोडानिनकारस्य णत्वं स्यात्। प्रवपाणि। परिवपाणि।
अडादिव्यवाय इत्येव--प्रददानि।
आनीति किम् ? प्रवपन्तु। लोटः किम् ? प्रवपाणि मांसानि।
-8-4-17- नेर्गदनदपतदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ।।
एषु नेर्णत्वं स्यात्। प्रणिगदति। अडादिव्यवाय इत्येव-- प्रण्यगदत्। घु-प्रतिणदाता। प्रतिणधाता। मा इति माङमेङोर्ग्रहणम्। प्रणिमिमीते। प्रतिणमयते। एवं यावत् प्रणिदेग्धि।
-8-4-18- शेषे विभाषाऽकखादावषान्त उपदेशे ।।
धातुपाठे अकखादौ धातौ अषान्ते च नेर्णो वा स्यात्। प्रणिपक्ता, प्रनिपक्ता वा। प्रणिजानाति, प्रनिजानाति वा।
शेषे किम् ? गदादिषु मा भूत्। प्रणिगदति। प्रणिगदनम्। अकखादौ किम् ? प्रनिकर्त्ता। प्रनिखादति। अषान्ते किम् ? प्रनिपिनष्टि। प्रनिषेक्ष्यित। उपदेशे किम् ? प्रणिवेष्टा, प्रतिवेष्टा वा।
इह मा भूत्--प्रनिचकार। प्रनिचखाद। प्रनिपेक्ष्यति।
-8-4-19- अनितेः ।।
अनितेर्नस्य णत्वं स्यात्। प्राणिति।
-8-4-20- अन्तः ।।
अनितेरन्तभूतस्यापि नस्य णत्वं स्यात्। क्विप्, हे प्राण्।
केशववृत्तौ तु विकल्प उक्तः-हे प्रान्, हे प्राण् वा।
-8-4-21- उभौ साभ्यासस्य ।।
साभ्यासस्यानि तेरुभौ नकारौ णौ स्याताम्। प्राणिणिषति।
[565]
-8-4-22- हन्तेरत्पूर्वस्य ।।
हन्तेर्नो णत्वं स्यात्। प्रहण्यते। परिहण्यते। प्रहणनम्।
अत्पूर्वस्य किम् ? प्रघ्रन्ति। तपरः किम् ? प्राघानि।
-8-4-23- वमोर्वा ।।
वमयोः परतो हन्तेर्नकारस्य णत्वं वा स्यात्। प्रहण्वः, प्रहन्मो वा। प्रहण्मः, प्रहन्मो वा।
-8-4-24- अन्तरदेशे ।।
अदेशे अन्तःशब्दाद्धन्तेर्नकारस्य णत्वं स्यात्। अन्तर्हणनम्। अन्तर्हण्यते।
कथमन्तर्हन्ता ? णत्वेऽनुस्वारपरसवर्णस्यासिद्धत्वात्, कुर्वन्तिवत्। अदेशे किम् ? अन्तर्हननो देशः।
-8-4-25- अयनञ्ञ्च ।।
अन्तःशब्दादुत्तरस्यदेशेऽयनस्य नो णत्वं स्यात्। अन्तरयणं वर्त्तते।
अदेशे किम् ? अन्तरयनो देशः। इह--
-8-4-26- छन्दस्यृदवग्रहात् ।।
-8-4-27- नश्च धातुस्थोरुषुभ्यः ।।
छन्दः सूत्रद्वयम्।
-8-4-28- उपसर्गाद् बहुलम् ।।
उपसर्गात् परस्य नः शब्दस्य नो णत्वं स्यात्। प्रणसम् मुखम्। परिणसम् मुखम्।
बहुलग्रहणं छन्दोभागार्थम्।
-8-4-29- कृत्यचः ।।
उपसर्गस्थान्निमित्तात् कृत्स्थस्याचः परस्य नस्य णत्वं स्यात्। अनमानानीयानीनिनिनिष्ठादेशेषु सम्भवः। प्रयाणम्। प्रमाणम्।
प्रयायमाणम्। प्रयाणीयम्। अप्रयाणिः। प्रयायिणौ। प्रहाणिः। परिहाणिः।
प्रहीणः। निर्वाणम्।
कथं प्रख्यानम्, पर्याख्यानम् ? कार्योऽत्र यत्नः। अथवा क्षुभ्नादित्वात्। अचः किम् ? प्रमग्रः।
उपसर्गादित्येव--नरयानम्। अडादिव्यवाय इत्येव--प्रयोजनम्। प्रतियानम्। प्रदानम्। प्रधानम्। प्रेन्वनम्।
कथं निर्विण्ण इति ? उपसंख्यानात्।
-8-4-30- णेर्विभाषा ।।
ण्यन्तात् कृत्यचः इति प्राप्तिर्वा स्यात्। प्रयापणम्, प्रयापनं वा। प्रहापणीयम्, प्रहापनीयं वा।
-8-4-31- हलश्चेजुपधात् ।।
हलादेरिजुपधाद् विहितस्य कृत्यचः इति प्राप्तिर्वा स्यात्। प्रगोपणम्, प्रगोपनं वा। निर्गृहणम्, निर्गहनं वा।
-8-4-32- इजादेः सनुमः ।।
कृत्यचः इति णत्वं सनुमो हलन्ताद् यदि स्यात् तदिजादे प्रेङ्खणम्। परीङखणम्। प्रेङ्गणम्। नुमोऽनुस्वारमात्रोपलक्षणात्-- प्रोम्भणम्।
इजादेः किम् ? प्रमङ्गनम्।
-8-4-33- वा निंसनिक्षनिन्दाम् ।।
प्रादिस्थनिमित्तादेषां नो णत्वं स्याद्वा। णोपदेशप्राप्तेर्विकल्पः। प्रणिंस्ते, प्रर्निसते वा। प्रणिक्षकः, प्रनिक्षको वा। प्रणिन्दति, प्रनिन्दति वा।
-8-4-34- न भाभूपूकमिगमिप्यायिवेपाम् ।।
प्रादिस्थनिमित्तादेषां कृत्यचः इति णत्वं नास्ति। प्रभानम्। प्रभानीयम्। प्रभवनम्। प्रपवनम्। प्रकमनम्। प्रगमनम्। प्रप्यायनम्। प्रवेपनम्।
[567] ण्यनतानां भादीनांञ्ञ्चोपसंख्यानं कर्त्तव्यम् ।। प्रभापनम्।
प्रभापनीयम्। कृत्यचः इति प्राप्तेर्निषेधान्नेह-प्रभवाणि। प्रभाणि। आनि लोट् इति णत्वम्।

                     ।।उक्तमुपसर्गात् ।।
-8-4-35- षात् पदान्तात् ।।
नस्य पदान्तात् षकाराण्णत्वं नास्ति। सर्पिष्पानम्। यजुष्पानम्। दुष्पानम्। दुष्पीयमानम्। निष्पीयमानम्। दुष्खेन।
षादिति किम् ? निर्णयः। दुर्नयः।
-8-4-36- नशेः षान्तस्य ।।
णत्वं नास्ति। प्रनष्टः। प्रनङ्क्ष्यति।
षान्तस्य किम् ? प्रणश्यति। प्रणाशः।
-8-4-37- पदान्तस्य ।।
नकारस्य णत्वं नास्ति। वृक्षान्। गिरीन्। व्रीहिवापान्। खरमुखान्। हे करिष्यन्। हे करिष्यन्।
-8-4-38- पदव्यवायेऽपि ।।
पदेन व्यवाये णत्वं नास्ति। व्रीहिकुम्भवापेन। रोषभीममुखेन। प्रविपानम्।
। अतद्धित इति वक्तव्यम् ।। आर्द्रगोमयेण। शुष्कगोमयेण। कुमति च इति णत्वम्।
-8-4-39- क्षुभ्नादिषु च ।।
एषु णत्वं नास्ति। क्षुभ्नाति। क्षुभ्नीतः। नरीनृत्यते। नरीनर्ति। नृनमनो नाम कश्चित्। तृप्नोति। परिनर्तनम्। वार्त्रघ्नः। पुनर्नवा। दौर्भागिनेयः। हरिनन्दी। ब्रह्मघ्नः। दुर्नयः। दुर्नाम। आकृतिगणोऽयम्।

                          ।।उक्तं णत्वम् ।।
-8-4-40- स्तोः श्चुना श्चुः ।।
सस्य शः, तवर्गस्य चवर्गः स्यात्। कदा ? श्चुभ्यां योगे। कश्श्रूयते। कश्चिनोति। कश्शेते। कश्छात्रः। अग्रिचिच्छेते। भवाञ्ञ्छेते। झलां जश्त्वे
कृते श्चुत्वम्, ततः खरि च इति र्चत्वम्। तच्चिनोति। तच्छिनत्ति। तज्जयति। प्रशाञ्ञ्चिनोति। प्रशाञ्ञ्चुङुवे।
श्चुना इति तृतीयानिर्देशात् पूर्वेणापि योगे श्चुत्वम्--यज्ञः, याच्ञ्ञा।
मस्जः--मज्जति। लस्जः--लज्जते। इह झशि जश्त्वस्यासिद्धत्वात् सस्य श्चुत्वेन शः, तस्य जश्त्वेन जकारः।
संहितायामित्येव--कः चिनोति। अग्रिचित् शेते। तत् चिनोति। तत् जयति।
पदस्य (81.16) इत्यधिकारो मण्हूकप्लुत्या क्वचिदेवोपयुज्यते।
इह स्तोरिति श्चुरिति च समाहारेऽप्यनपुंसकत्वम्; सौत्रत्वात्।
-8-4-41- ष्टुना ष्टुः ।।
सस्य षः, तवर्गस्य टवर्गः स्यात्। कदा ? ष्टुभ्यां योगे। कष्षण्डे। कष्टीकते। एष्टा। पेष्टा। अप्लोष्ट। अच्योष्ट। यष्टा। इर्ष्टे। इर्ट्टे।
उड्डीनम्। तट्टीकते। तड्ढौकते। भवाण्डीनः। अबादयण्ढक्काम्। लिखण्णकारः। तण्णकारः। लीढम्। गूढम्।
-8-4-42- न पदान्ताट्टोरनाम् ।।
। अनामिति नाम्रवतिनगरीणामिति वाच्यम् ।। पदान्ताट् टवर्गात् स्तोः ष्टुत्वं नास्ति। श्वलिट् साधः। श्वलिट् तरति। मधुलिट् साधुः। मधुलिट् तरति।
नेह--षण्णाम्। षण्णवतिः। षण्णगरी।
-8-4-43- तोः षि ।।
तवर्गस्य षकारे ष्टुत्वं नास्ति। अग्रिचित् षण्डे। महान् षण्डे।
-8-4-44- शात ।।
शकारात् तोः श्चुत्वं नास्ति। प्रश्नः। विश्नः। जश्त्वम्। अश्राति।
-8-4-45- यरोऽनुनासिकेऽनुनासिको वा ।।
यरः पदान्तस्य अनुनासिके परेऽनुनासिको वा स्यात्। वाग्नेता, वाङनेता वा। त्वञ्ञ् ञ्ञकारः, त्वज्ञ्ञकारो वा। ककुम्नाथः, ककुब्नाथो वा।
श्वलिण्नयति, श्वलिड् नयति वा। तन्मात्रा, तद्मात्रा वा।
पदान्तानुवृत्तिः किम् ? वेद्मि।
। प्रत्यये नित्यवचनम् ।। वाङमयम्। षण्णाम्। मधुलिण्मात्रम्। श्वलिण्मात्रम्। तन्मात्रम्।
।।अथ द्वित्वप्रकरणम्।।
-8-4-46- अचो रहाभ्यां द्वे ।।
अचः परौ यौ रहौ ताभ्यां परस्य यरो द्वे स्यातां वा। अर्क्कः, अर्को वा। मूर्क्खः, मूर्खो वा। र्स्वग्गः, स्वर्गो वा। अर्ग्ध्यः, अर्ध्यो वा। निर्ज्झरः, निर्झर्रो वा। अर्त्थः, अर्थो वा। आर्द्रः, आर्द्द्रो वा। वर्धनम्, वर्द्धनं वा। बहिर्न्नयति, बहिर्नयति वा। र्दप्यः, दर्पो वा। निर्भरः, निर्ब्भरो वा। र्दब्भः, दर्भो वा। र्धम्म, धर्मो वा। र्शम्म, शर्म वा। कार्य्यं, कार्यं वा। ब्रह्मा, ब्रह्म्मा वा। अपह्न्नुते, अपहनुते वा।
अचः किम् ? हनुते।
-8-4-47- अनचि च ।।
अचः परस्य यरोऽपि द्वे स्यातां वा। उग्ग्रः, उग्रो वा। विग्घ्रः, विघ्रो वा। मत्स्यः, मत्त्स्यो वा। पुत्र, पुत्रो वा। युद्ध्यते, युध्यते वा। बुध्यते, बुद्ध्यते वा। सिध्यति, सिद्ध्यति वा। दद्ध्यत्र, दध्यत्र वा। मध्वत्र, मद्ध्वत्र वा। वद्ध्यः, वध्यो वा। इन्द्रः, इन्न्द्रो वा। ऋश्यः, ऋश्श्यो वा। शिष्यः, शिष्ष्यो वा। शस्यम्, शस्स्यं वा। अस्थि, अस्स्थि वा।
अच इति किम् ? स्मितम्। अनचीति किम् ? दधि तिष्ठति।
। यणो मयः ।। द्वे वा भवतः। उल्का उक्का वा।
मयश्च यण इत्येके। दध्यत्र, दध्य्यत्र वा। शक्यः, शक्य्यो वा। मध्वत्र, मध्व्वत्र वा। शुक्लः, शुक्ल्लो वा।
। शरः खयः ।। द्वे वा स्याताम्। स्थाली, स्थ्थाली धा। स्थानम्, स्थ्थानं वा।
खयश्च शर इत्येके। वत्सः, वत्स्सो वा। क्षीरम्, क्ष्षषीरं वा।
अप्सराः, अप्स्सराः वा।
अवसाने द्वे वा भवतः। वाक्, वाक्क् वा। षट्, षट्ट वा। यर इत्येव--दधि।
। चयो द्वितीयाः शरि पौष्करसादेः । चयः स्थाने द्वितीया वर्णा आदिश्यन्ते शरि वा। वाक्शेते, वाख्शेते वा। अप्सराः, अप्साराः वा। अप्सु, अप्सु वा। क्षीरं, खषीरं वा। वृक्षो, वृख्षो वा। मघुलिट्सु, मघुलिठसु वा।
श्वलिट्सु, श्वलिठ्सु वा। वत्सः, वथ्सो वा। भवत्सु, भवथ्सु वा।
चयः परे द्वितीया वर्णा आगमरूपा भवन्तीत्यन्ये। क्ख्षीरम्, क्षीरं वा।
वत्सः वत्थ्सो वा। मधुलिट्ठ्सु, मधुलिट्सु वा। भवत्थ्सु, भवत्सु वा। अप्पसराः, अप्सराः वा।
चयो द्वितीया द्विरुच्यन्त इत्यपरे। क्षीरम्, क्ख्ख्षीरं वा।
अपसराः, अप्फ्फ्सरा वा। भवत्सु, भवत्थ्थ्सु वा।
-8-4-48- नादिन्याक्रोशे पुत्रस्य ।।
आदिनी परे आक्रोशे गम्यमाने पुत्रस्य द्वित्वं नास्ति। पुत्रादिनी। आक्रोशे किम् ? पुत्रादिनी शिशुमारी।
। तत्परे चेति वक्तव्यम् ।। पुत्रपुत्रादिनी।
। हतजग्धयोश्च वा ।। पुत्रजग्धी, पुत्त्रजग्धी वा। पुत्त्रहती, पुत्रहती वा।
-8-4-49- शरोऽचि ।।
शषसामचि द्वे न स्याताम्। आदर्शः। कर्षः। वर्षा। कार्सरम्।
अचि किम ? र्दश्यते, र्दश्श्यते वा। इर्र्ष्यते, इर्र्ष्ष्यते वा। इर्र्श्या, इर्र्ष्ष्या वा।
-8-4-50- त्रिप्रभृतिषु शाकटायनस्य ।।
एतन्मतेन त्रिप्रभृतिषु द्वे न स्याताम्। इन्द्रः। राष्ट्रम्।
-8-4-51- सर्वत्र शाकल्यस्य ।।
शाकल्यमतेन सर्वत्र द्वित्वमसम्मतम्। अर्कः। ब्रह्मा। दध्यत्र। युध्यते।
सिध्यतीति उदाहृतमेव।
आचार्योपादानं पूजार्थम्; वा इत्यनुवृत्त्या सिद्धेः।
-8-4-52- दीर्घादाचार्याणाम् ।।
आचार्याणां मतेन द्वित्वं न स्याद् दीर्घात् परस्य। पात्रम्। दात्रम्। सूत्रम्। गोत्रम्।
-8-4-53- झलाञ्ञ्जश् झशि ।।
झशि परे झलां जशः स्युः। लब्धा। दोग्धा। मज्जति। बोद्धा।
-8-4-54- अभ्यासे चर्च ।।
अभ्यासे झलाञ्ञ्चरः स्युः, जशश्च। चिखनिषति। तिष्ठासति। पिफणिषति। प्रकृतिचरां प्रकृतिचरः--चचार। पिपासति।
जशः खल्वपि--जिघत्सति। बिभर्त्ति। डुढोके।
प्रकृतिजशां प्रकृतिजशः स्युः--ददौ। बुबुधे।
-8-4-55- खरि च ।।
खरि परे झलाञ्ञ्चरः स्युः। भेत्ता छेत्ता। युयुत्सुः। आरिप्सते। तच्चिनोति। बुभुत्सते। बिभित्सति।
-8-4-56- वावसाने ।।
विरामे झलाञ्ञ्चरः स्युर्वा। वाक्, वाग् वा। श्वलिट्, श्वलिड् वा। वृक्षात्, वृक्षाद् वा। ककुप्, ककुब् वा।
-8-4-57- अणोऽप्रगृह्यस्यानुनासिकः ।।
अवसानेऽणोऽनुनासिकः स्याद्वा। कर्म वा, कर्म। खट्वा वा, खर्ट्वां। दधि वा, दधिं। भवति वा, भवतिं। कुमारी वा, कुमारीं।
अप्रगृह्यस्य किम् ? अग्नी। वायू। अण इति किम् ? कर्त्तु। हर्त्तृ।
-8-4-58- अनुस्वारस्य ययि परसवर्णः ।।
स्यात्। शङि्कता। उञ्ञ्छिता। कुण्डिता। कुर्वन्ति। कम्पिता। ययि किम् ? आक्रंस्यते।
-8-4-59- वा पदान्तस्य ।।
पदान्तस्यानुस्वारस्य ययि परसवर्णः स्याद्वा। त्वं कथं नयसि, त्वङ् कथन्नयसि वा।
इहान्तःस्था यवला द्विप्रभेदा रेफवर्जिताः--सानुनासिकाः, निरनुनासिकाश्च। तेषामनुस्वारस्य ययि
परसवर्णोऽन्तरतमः सानुनासिकः स्यात्। किंयुक्तः, किर्य्युक्तः। पुंयत्नः। पुय्यँत्न्ः, पुंलिङ्गः। पुर्ल्लिङ्गः। धान्यं लुनाति, धान्यल्लुँनाति। संवत्सरः, सव्वँत्सरः। ग्रामं वहति, ग्रामव्वँहति। गां वहति, गाव्वँहति।
-8-4-60- तोर्लि ।।
तवर्गस्य लकारे परे परसवर्णः स्यात्। तल्लुनाति। तल्लिखति। भवाल्लुँनाति। भवाल्लिंखति।
-8-4-61- उदः स्थास्तम्भोः पूर्वस्य ।।
उदः परयोरनयोरादेरलः स्थाने पूर्वसवर्णः स्यात्। उत्थाता। उत्थितः। उत्तम्भिता। उत्तम्भितुम्।
। स्कन्देः रोगे चेति वक्तव्यम् ।। उत्कन्दको नाम रोगः।
-8-4-62- झयो होऽन्यतरस्याम् ।।
झयः परस्य हस्य पूर्वसवर्णो वा स्यात्। वाग्हसति, वाग्घसति वा। अज्झलः, अज्झलो वा। तद्धितम्, तद्हित वा।
-8-4-63- शश्छोऽटि ।।
। अमीति वक्तव्यम् ।। झयः परस्य शस्य छो वा स्यात्।
अटीत्यत्र अमि इति वक्तव्यम्। वाक्छेते, वाक्शेते वा। वाक्छोकेन, वाक्शोकेन वा। तच्छेते, तच्शेते वा। भवाञ्ञ्छ्ररः, भवाञ्ञ्शूरो वा।
शि तुक्पक्षे--भवाञ्ञ्छूरः, भवाञ्ञ्ञ्ञ्शूरो वा। तच्छ्लोकेन, तच्श्लोकेन वा। तच्छमशानम्, तच्श्मशानं वा।
अमीति किम् ? तत्श्च्योतति। वाक्श्च्योतति।
-8-4-64- हलो यमां यमि लोपः ।।
हलः परेषां यमां यमि वा लोपः स्यात्। यथासंख्यमेव। आस्ये
भवमास्य्यम्, आस्यं वा।
यमि किम् ? कुमार्य्यः।
-8-4-65- झरो झरि सवर्णे ।।
हलः परस्य झरो झरि सवर्णे वा लोपः स्यात् प्रत्तम्, प्रत्त्तं वा।
यथासंख्यमत्र नास्ति। सवर्णमात्र एव लोपः। शिण्डि्ढ, शिण्डि वा। पिण्डि्ढ, पिण्ढि वा। रुन्दधि, रुन्धि वा। बन्द्धुम्, बन्धुं वा।
सवर्णे किम् ? र्तप्ता।
इह--
-8-4-66- उदात्तादनुदात्तस्य स्वरितः ।।
-8-4-67- नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालबानलबानाम् ।।
छन्दःसूत्रे द्वे ।।
-8-4-68- अ अ ।। इति ।।
अकारस्य शास्त्रे विवृतोपदेशः प्रतिज्ञातः, स प्रयोगे संवृतो भवति। वृक्षः। सिद्धिः। इति ।।