भावनाक्रमः/प्रथमः

विकिस्रोतः तः
भावनाक्रमः
प्रथमः
[[लेखकः :|]]



आचार्यकमलशीलप्रणीतो
भावनाक्रमः प्रथमः
[महायानसूत्राणां य आदिकर्मिकस्य चर्यानियमः ।
तमधिकृत्य संक्षेपाद्भावनाक्रमस्त्वभिधीयते ॥

अचिरेण सर्वज्ञतां प्राप्तुकामैः संक्षेपतः करुणा, बोधिचित्तम्, प्रतिपत्तिश्चेति त्रिषु स्थानेषु प्रयतितव्यम् ।

बुद्धत्वस्य अशेषधर्महेतुमूलं करुणैवेति ज्ञात्वा सादावेव भावयितव्या । यथोक्तमार्यधर्मसंगीतिसूत्रे- "अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महसत्त्वो भगवन्तमेतदवोचत्- न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम् । एको धर्मो भगवन् बोधिसत्त्वेन स्वाराधितः सुप्रतिविद्धः कर्तव्यः । तस्य सर्वबुद्धधर्माः करतलगता भवन्ति । कतम एकधर्मः? यदुत महाकरुणा । महाकरुणया भगवन् बोधिसत्त्वानां सर्वबुद्धधर्माः करतलगता भवन्ति । तद्यथा भगवन् येन राज्ञश्चक्रवर्तिनश्चक्ररत्नं गच्छति तेन सर्वो बलकायो गच्छति, एवमेव भगवन् येन बोधिसत्त्वस्य महाकरुण गच्छति, तेन सर्वे बुद्धधर्मा गच्छन्ति । तद्यथा भगवन् जीवितेन्द्रिये सति अन्येषामिन्द्रियाणां प्रवृत्तिर्भवति, एवमेव भगवन्महाकरुणायां सत्यामन्येषां बोधिसत्त्वानां] धर्माणां प्रवृत्तिर्भवति ।" इति ।

आर्याक्षयमतिनिर्देशे चोक्तम्- "पुनरपरम्, भदन्त शारद्वतीपुत्र, बोधिसत्त्वानां महाकरुणाप्यक्षया । तत्कस्य हेतोः? पूर्वङ्गमत्वात् । (१६६) तद्यथापि नाम, भदन्त शारद्वतीपुत्र, आश्वासाः [प्रश्वासाः] पुरुषस्य जीवितेन्द्रियस्य पूर्वङ्गमाः, एवमेव महायान-सम्भार-समुदागमाय बोधिसत्त्वस्य महाकरुणा पूर्वङ्गमा" इति विस्तरः । आर्यगयाशीर्षे चोक्तम्- "किमारम्भा, मञ्जुश्रीः, बोधिसत्त्वानां चर्या, किमधिष्ठाना च? मञ्जुश्रीराह- महाकरुणारम्भा, देवपुत्र, बोधिसत्त्वानां चर्या सत्त्वाधिष्ठाना । "इति विस्तरः ।

तथा हि तया प्रेर्यमाणा बोधिसत्त्वाः स्वात्मनिरपेक्षा एकान्तेन परोपकारार्थतया अतिदुष्करदीर्घकालिकेऽपि सम्भारोपार्जनपरिश्रमे प्रवर्तन्ते । तथा चोक्तमार्यश्रद्धाबलाधाने- "तत्र [महा]करुणयापि सर्वसत्त्वपरिपाचनार्थं न तत्किञ्चित्सुखोपाधानं यन्न परित्यजति । "इति । अतोऽतिदुष्करे प्रवर्तमानो नचिरेणैव सम्भारान् परिपूर्यावश्यमेव सर्वज्ञपदमधिगच्छति । ततो बुद्धधर्माणां करुणैव मूलम् । महाकरुणापरिग्रहादेव बुद्धा भगवन्तोऽधिगम्य सर्वज्ञपदमशेषस्य जगतोऽर्थ विकुर्वाणास्तिष्ठन्त इति निर्वाणाप्रतिष्ठाने सैव भगवतां महाकरुणा हेतुः ।

सा च दुःखितसत्त्वालम्बनमनस्कारबहुलीकारतो वृद्धिम् (उपयाति) । सर्वे च ते सत्त्वास्त्रिधातुकावचरास्त्रिविधदुःखतया यथोयोगमत्यन्त दुःखिता एवेति सर्वेष्वेव सत्त्वेषु भावनीयम् । तथा च ये तावन्नारकास्ते विविधचिरन्तनदीर्घकालिकदाहादिदुःख [नदीषु] निमग्ना एव भगवता वर्णिताः । तथा प्रेता अपि दुःसहतीव्रक्षुत्तृषादिदुःख[अग्नि] (१६७) पीडाभिसंशोषितमूर्तयस्तीव्रदुःखमनुभवन्ति । येन वर्षशतेनाप्यशुचिं खेटपिण्डनं च भोक्तुं न लभन्त इत्यादि वर्णितं भगवता । तिर्यञ्चोऽपि परस्पर[भक्षण]क्रोधवधहिंसादिभिरनेकविधं दुःखमनुभवन्तो दृश्यन्त एव । तथा हि केचिन्नासिकाभेदनताडाणबन्धनादिभिरतन्त्रीकृतशरीराः परितः परिपीडयमानाः कथमप्यनिच्छन्तोऽपि अतिदुर्वहगुरुभारोद्वहनपरिखिन्नवपुषः परिक्लाम्यन्ति, तथारण्येऽपि निवसन्तोऽनपराधाः केचित्क्वचित्[अर्थ]तोऽन्विष्य हन्यन्ते । नित्यं च भयविव्हलमानसस्ततस्ततः पलायमानास्तिष्ठन्तीत्यपरिमितमेषां दुःखं दृश्यत्त एव । तथा मानुष्येऽपि नारकं दुःखं दृश्यत एव । अत्र ये चौरादयोऽङ्गच्छेदशूलार्पणोद्बन्धनादिभिः कार्यन्त एव तेषां नारकमेव दुःखम् । ये च दारिद्रयद्युपहतास्तेषां प्रेतानामिव तत्क्षुत्तर्षाडिभिर्दुःखम् । ये च भृत्यादयः परायत्तीकृतात्मभावाः, ये च बलिभिराक्रम्य पीडयन्ते तेषां तिरश्चामिव ताडनावरोधनादि दुःखम् । तथा पर्येष्टिकृतमन्योऽन्यद्रोहोपघातादि कृतं प्रियविप्रयोगाप्रियसंयोगकृतं चाप्रमेयमेषां दुःखम् । ये क्वचिदीश्वराः सुखिता इव लप्यन्ते तेऽपि विपर्यवसानसम्पदो विविधकुदृष्टिगहननिमग्ना नारकादिदुःखानुभवहेतुविविध क्लेशकर्माण्युपचिन्वन्तः प्रपातस्थास्तरव इव दुःखहेतौ [अपि] वर्तमानाः परमार्थतो दुःखिता एव ।

देवा अपि ये तावत्कामावचरास्तेऽपि तीव्रकामाग्निसन्दीप्तमानसा आक्षिप्तचित्ता इवास्वच्छचेतसः क्षणमपि समाधानं चेतसां न लभन्ते । तेषां प्रशमसुखधनदरिद्राणां कीदृशं नाम तत्सुखम्? नित्यच्यवनपतनादिभयशोकोपहताः कथं सुखिता नाम? ये च रूपारूपावचरास्तेऽपि (१६८) यदि नाम कियत्कालं दुःखदुःखतां व्यतीतास्तथाप्यत्यन्तं कामावचराणामनुशयानामप्रहाणात्तेषां पुनरपि नारकादिविनिपातसम्भवाद्विपरिणामदुःखमस्त्येव । सर्वे नाम देवमनुष्याः क्लेशकर्मादिपारतन्त्र्यात्ते संस्कारदुःखतया दुःखिता एव ।

तदेवं सकलमेव जगद्दुःखग्निज्वालावलीढमित्यवेत्य यथा मम दुःखमप्रियं तथान्येषामप्रियमिति चिन्तयता सर्वेष्वेव सत्त्वेषु कृपा भावनीया । प्रथमं तावद्मित्रपक्षेषु पूर्वोक्ता विविधदुःखानुभवेष्वनुपश्यता भावनीया ।

ततः सत्त्वसमतया विशेषमपश्यतानादिमति च संसारे न कश्चित्सत्त्वो यो न मे शतशो बन्धुरभूदिति परिचिन्तयता व्यस्तेषु भावनीया । यदा मित्रपक्षेष्विव व्यस्तेषु [अपि] तुल्या करुणा प्रवृत्ता भवति, तदा शत्रुपक्षेऽपि तथैव सत्त्वसमतादिमनसिकारेण भावनीया । यदा च शत्रुपक्षेऽपि मित्रपक्षवत्समप्रवृत्ता भवति, तदा क्रमशो दशसु दिक्षु सर्वसत्त्वेषु [अपि] भावयेत् । यदा च दुःखितबालप्रियेष्विव दुःखोद्धरणेच्छाकारा स्वरसवाहिनी सर्वसत्त्वेषु समप्रवृत्ता कृपा भवति, तदा सा निष्पन्ना भवति महाकरुणाव्यपदेशं च लभते । यथा अक्षयमतिसूत्रे च वर्णितम् । अयं च कृपाभावनाक्रमो भगवताभिधर्मसूत्रादौ वर्णितः ।

तस्यैवं कृपाभ्यासबलात्सकलसत्त्वाभ्युद्धरणप्रतिज्ञयानुत्तरसम्यक्सम्बोधिप्रार्थनाकारमयत्नत एव बोधिचित्तमुत्पद्यते । यथोक्तमार्यदशधर्मसूत्रे- "सत्त्वानत्राणानशरणानद्वीपान् दृष्ट्वा करुणायै चित्तमुपस्थाप्य यावदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति" इति । यदि नाम परसमादापनादिनापि बोधिसत्त्वस्य महासत्त्वस्य बोधिचित्तमुत्पद्यते, तथापि कृपावेगतो यत्स्वयमेव बोधिसत्त्वस्य बोधिचित्तमुत्पद्यते (१६९) तद्भगवता आर्यतथागतज्ञानमुद्रासमाधौ विशिष्टतरत्वेन वर्णितम् ।

तदेतद्बोधिचित्तं प्रतिपत्तिविकलमपि संसारे महाफलं भगवता वर्णितम् । तथा चोक्तं मैत्रेयविमोक्षे- "तद्यथापि नाम, कुलपुत्र, भिन्नमपि वज्ररत्नं सर्वमतिविशिष्टं सुवर्णालङ्कारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्रयं च विनिवर्तयति । एवमेव, कुलपुत्र, प्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालङ्कारमभिभवति । बोधिचित्तनाम न विजहाति, संसारादारिद्रयं च विनिवर्तयति" इति ।

योऽपि पारमितासु सर्वेण सर्वं सर्वथा शिक्षितुमसमर्थः, तेनापि बोधिचित्तमुत्पादनीयमेव, उपायपरिग्रहेण महाफलत्वात् । यथा चोक्तमार्यराजाववादकसूत्रे- "यास्मात्त्वं महाराज, बहुकृत्यो बहुकरणियः, असहः सर्वेण सर्वं सर्वथा दानपारमितायां शिक्षितुम्, यावत्प्रज्ञापारमितायां शिक्षितुम् । तस्मात्तर्हि त्वं महाराज एवमेव सम्बोधौ छन्दं श्रद्धां प्रार्थनां प्रणिधिं च, गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि शयानोऽपि जाग्रदपि भुञ्जानोऽपि पिबन्नपि, सततसमितमनुस्मर, मनसिकुरु भावय । सर्वबुद्धबोधिसत्त्वार्य श्रावकप्रत्येकबुद्धपृथग्जनानामात्मनश्च अतीतानागतप्रत्युत्पन्नानि कुशलमूलानि पिण्डयित्वा, अनुमोदस्व अग्रया अनुमोदनया । अनुमोद्य च सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पूजाकर्माणि निर्यातय । निर्यात्य च सर्वसत्त्वसाधारणानि कुरु । ततः सर्वसत्त्वानां यावत्सर्वज्ञताप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने (१७०) त्रैकाल्यमनुत्तरायां सम्यक्संबोधौ परिणामय । एवं खलु त्वं महाराज, प्रतिपन्न, सन् राज्यं च कारयिष्यसि, राज्यकृत्यानि च न हापयिस्यसि, [बोधिसम्भारांश्च परिपूरयिष्यासि]" । इत्यादि कमुक्त्वाह- "अथ खलु पुनस्त्वं महाराज, सम्यक्सम्बोधिचित्तकुशलमूलविपाकेन अनेककृत्यो देवेषु उपपन्नोऽभूः । अनेककृत्यो मनुष्येषु उपपन्नोऽभूः । सर्वासु च देवमनुष्योपपत्तिषु आधिपत्यं कारयिष्यसि" । इति विस्तरः ।

यत्पुनः प्रतिपत्तिसारं बोधिचित्तं तदतितरां विपुलं फलमिति सिद्धिम् । अत एव आर्यवीरदत्तपरिपृच्छायामुक्तम्-

बोधिचित्ताद्वै यत्पुण्यं तच्च रूपि भवेद्यदि ।
आकाशधातुं सम्पूर्य भूयश्चोत्तरितं भवेत् ॥
गङ्गाबालुकसंख्यानि बुद्धक्षेत्राणि यो नरः ।
दद्याद्रत्नप्रपूर्णानि लोकनाथेभ्य एव हि ॥
यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामति ।
इयं विशिष्यते पूजा यस्या अन्तो न विद्यते ॥ इति ।

यथा आर्यगण्डव्यूहे वर्णितम्- "बोधिचित्तं कुलपुत्र! बीजभूतं सर्वबुद्धधर्माणाम्" इति विस्तरः । तच्च बोधिचित्तं द्विविधं प्रणीधिचित्तं प्रस्थानचित्तं च । आर्यगण्डव्यूहे वर्णितम्, तथा- "र्दुर्लभास्ते, कुलपुत्र, सत्त्वाः सत्त्वलोके येऽनुत्तरायां सम्यक्सम्बोधौ प्रणिदधति इति । ततोऽपि दुर्लभतमास्ते सत्त्वा येऽनुत्तरां सम्यक्सम्बोधिमभिसम्प्रस्थिताः" इति । सकलजगतो हिताय बुद्धो भवेयमिति प्रथमतरं प्रार्थनाकारा चेतना (१७१) तत्प्रणिधिचित्तम् । यतः प्रभृति संवरग्रहणे वर्तमानाः सम्भारेषु दृश्यन्ते तत्प्रस्थानचित्तम् ।

संवरश्च विज्ञातप्रतिबलसंवरस्थितात्कल्याणमित्रात्परतो ग्राह्यः । असति प्रतिरूपे ग्राहके बुद्धबोधिसत्त्वानामुखीकृत्य यथा मञ्जुश्रीयाम्बरराजभूतेन बोधिचित्तमुत्पादितं तथोत्पादनीयः । एवमुत्पादितबोधिचित्तो बोधिसत्त्वः स्वयमेव दानादि ददाति प्रतिपत्तौ प्रयोक्ष्यते, न हि स्वयमदान्तः परान् दमयतीति मत्त्वा । न चापि विना प्रतिपत्त्या बोधिरवाप्यते । यथोक्तमार्यगयाशीर्षे- "प्रतिपत्तिसाराणां बोधिसत्त्वानां बोधिर्नाप्रतिपत्तिसाराणाम्" इति । आर्यसमाधिराजे चोक्तम्- "तस्मात्प्रतिपत्तिसारो भविष्यामि इत्येवं त्वया कुमार, शिक्षितव्यम् । तत्कस्य हेतोः? प्रतिपत्तिसारस्य हि, कुमार, न दुर्लभा भवत्यनुतरा सम्यक्संबोधिः" इति ।

सा च प्रतिपत्तिर्बोधिसत्त्वस्य पारमिताप्रमाणसङ्ग्रहवस्त्वादिभेदेन अक्षयमतिरत्नमेघादिसूत्रेषु विस्तरेण वर्णिता । तथा लौकिकशिल्पादिस्थानेष्वपि यावद्बोधिसत्त्वेन शिक्षितव्यम् । किं पुनर्लोकोत्तरेषु ध्यानादिषु । अन्यथा कथं सर्वाकारं सत्त्वार्थं कुर्युः । सा चेयं संक्षेपेण बोधिअत्त्वस्य प्रज्ञोपायरूपा प्रतिपत्तिर्न प्रज्ञामात्रं नोपायमात्रम् । यथा आर्यविमलकिर्तिनिर्देशे- "प्रज्ञारहित उपाय उपायरहिता च प्रज्ञा बोधिसत्त्वानां बन्धनम्" इत्युक्तम् । उपायसहिता प्रज्ञा प्रज्ञासहिता उपायो मोक्षत्वेन वर्णितः । आर्यगयाशीर्षे चोक्तम्- "द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ । द्वाभ्यां मार्गाभ्यां समन्वागता बोधिसत्त्वा महासत्त्वाः क्षिप्रमनुत्तरां (१७२) सम्यक्संबोधिमभिसम्भोत्स्यन्ते । कतमौ द्वौ, उपायश्च प्रज्ञा च । "इति ।

तत्र प्रज्ञापारमितां त्यक्त्वा दानादिपारमितासङ्ग्रहवस्त्वादिकं सर्वमेव क्षेत्रपरिशुद्धिमहाभोग[बहु] परिवारसम्पत्सत्त्वपरिपाकनिर्माणादिकसकलाभ्युदयधर्मसङ्ग्राहकं कुशलमुपाय उच्यन्ते । प्रज्ञा तु तस्यैव चोपायस्याविपरीतस्वभावपरिच्छेदहेतुः । तया हि सम्यगुपायं विविच्याविपर्यस्तो यथावत्स्वपरार्थानुष्ठानाद्विषमिव मन्त्रपरिगृहीतं भुञ्जानो न संक्लिश्यते । तथा चोक्तमत्रैव सुत्रे- "उपायः सङ्ग्रहज्ञानं प्रज्ञा परिच्छेदज्ञानम् ।" इति । आर्यश्रद्धाबलाधाने चोक्तम्- "उपायकौशलं कतमम्? यत्सङ्ग्रहः सर्वधर्माणाम् । प्रज्ञा कतमा? यत्सर्वधर्माणामसम्भदेन कौशलम्" इति । एतौ प्रज्ञोपायौ द्वावपि सर्वकालमेव सेवनीयौ भूमिप्रविष्टैरपि न तु प्रज्ञामात्रं नोपायमात्रम् । यतः सर्वास्वेव दशसु भूमिषु बोधिसत्त्वस्य पारमितासमुदाचारः पठितो दधभूमिकादौ "न च परिशेषासु न समुदाचरति" इति वचनात् ।

अष्टम्यां च भूमौ बोधिसत्त्वस्य शान्तविहारिणो बुद्धैर्व्युत्त्थानं तद्विरुध्येत । तच्च ततस्तत्र पाठादवगन्तव्यम् । [तथा चोक्तं तत्रैव सूत्रे] "तस्य खलु भो जिनपुत्र, बोधिसत्त्वस्य एवमिमामचलां बोधिसत्त्वभूमिमनुगतस्य पूर्वप्रणिधानबलाधानस्थितस्य बुद्धा भगवन्तस्तस्मिन् धर्ममुखस्त्रोतसि तथागतज्ञानोपसंहारं कुर्वन्ति । एवं चैन ब्रुवन्ति- साधु (१७३) साधु कुलपुत्र । एषा परमार्थक्षान्तिर्बुद्धधर्मानुगमाय । अपि तु खलु पुनः कुलपुत्र, या अस्माकं दशबलचतुर्वैशारद्यबुद्धधर्मसमृद्दिः, सा तव नास्ति । तस्या बुद्धधर्मसमृद्धेः पर्येषणाय अभियोगं कुरु, वीर्यमारभस्व । एतदेव क्षान्तिमुखं मोन्मोक्षीः । अपि तु खलु पुनः कुलपुत्र, किं चापि त्वयैवं शान्तविमोक्षविहारोऽनुप्राप्तः, इमान् पुनरशान्तानप्रशान्तान् बालपृथग्जनान्नानाक्लेशसमुदाचारप्राप्तान् विविधवितर्कोपहतमानसान् समन्वाहर, अपेक्षस्व । अपि तु खलु पुनः कुलपुत्र, पूर्वप्रणिधानमनुस्मर सत्त्वार्थसंप्रापणं ज्ञानमुखाचिन्त्यतां च । अपि तु खलु पुनः कुलपुत्र, एषा सर्वधर्माणां धर्मता । उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता धर्मधातुस्थितिः यदिदं सर्वधर्मशून्यता सर्वधर्मानुपलब्धिः । नैतया तथागता एव केवलं प्रभाव्यन्ते, सर्वश्रावकप्रत्येकबुद्धा अपि ह्येतामविकल्पधर्मतामनुप्राप्नुवन्ति ।

अपि तु खलु पुनः कुलपुत्र, प्रेक्षस्व तावत्त्वमस्माकं कायाप्रमाणतां च ज्ञानाप्रमाणतां च बुद्धक्षेत्राप्रमाणतां च ज्ञानाभिनिर्हाराप्रमाणतां च प्रभामण्डलाप्रमाणतां च स्वराङ्गविशुद्धयप्रमाणतां च । तथैव त्वमप्यभिनिर्हारमुत्पादय । अपि तु खलु पुनः कुलपुत्र, एकस्त्वेष आलोको योऽयं सर्वधर्मानिर्विकल्पालोकः । ईदृशास्तु कुलपुत्र, धर्मालोकास्तथागतानामपर्यन्तगता अपर्यन्तकृता अपर्यन्तबद्धाः, येषां संख्या नास्ति, गणना, प्रमाणमुपनिषदौपम्यं नास्ति, तेसामधिगमाय अभिनिर्हारमुत्पादय । अपि तु खलु पुनः कुलपुत्र, प्रेक्षस्व तावद्दशसु दिक्षु अप्रमाणक्षेत्रतां च अप्रमाणसत्त्वतां च अप्रमाणधर्मविभक्तितां च । तत्सर्वमनुगणय । यथावत्तया अभिनिर्हारमुत्पादय । "इति हि भो जिनपुत्र, ते बुद्धा भगवन्त (१७४) एवं भूम्यनुगतस्य बोधिसत्त्वस्य एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि ज्ञानाभिनिर्हारमुखान्युपसंहरन्ति, यैर्ज्ञानाभिनिर्हारमुखैर्बोधिसत्त्वोऽप्रमाणज्ञानविभक्तितोऽभिनिर्हारकर्माभिनिष्पदयति ।ऽ आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि । ते चेद्बुद्धा भगवन्तस्तं बोधिसत्त्वमेवं सर्वज्ञज्ञानाभिनिर्हारमुखेषु नावतारयेयुस्तदेवास्य परिनिर्वाणं भवेत्सर्वसत्त्वकार्यप्रतिप्रस्रब्धिश्च ।" इति विस्तरः ।

यच्च आर्यविमलकीर्तिनिर्देशे गयाशीर्षे चोक्तं तदपि पूर्वोक्तं विरुध्यते, एवं सामान्येनैव तत्राभिधानात् । यत्सर्वधर्मसङ्ग्रहवैपुल्ये चोक्तं तदपि विरुध्यते । एव । तत्रोक्तम्- "सूक्ष्मं हि मञ्जुश्रीः, सद्धर्मप्रतिक्षेपकर्मावरणम् । यो हि कश्चिन्मञ्जुश्रीः, तथागतभाषिते धर्म एकस्मिन् शोभनसंज्ञामुत्पादयति । एकस्मिन्नशोभसंज्ञामुत्पादयति । स सद्धर्मं प्रतिक्षिपति । तेन सद्धर्मं प्रतिक्षिपता तथागतोऽभ्याख्यातो भवति" इति विस्तरमुक्त्वा आह- "योऽयं मैत्रेय, षट्पारमितासमुदागमो बोधिसत्त्वानां बोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति । प्रज्ञापारमितायामेव बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति । तेऽन्या मुपायपारमितां दूषयितव्यां मन्यन्ते । तत्किं मन्यसे, अजित! दुष्प्रज्ञः स काशिराजोऽभूद्येन कपोतार्थ श्येनाय स्वमांसानि दत्तानि? मैत्रेय आह, नो हीदम्, भगवन् । भगवानाह- यानि मया मैत्रेय, बोधिसत्त्वचर्यां चरता षट्पारमितासंयुक्तानि कुशलमूलान्युपचितानि । अपकृतं नु तैः कुशलमूलैः? मैत्रेय आह- नो हीदं भगवन् । भगवानाह, त्वं तावदजित, दानापारमितायां षष्टिं कल्पान् समुदागतः । यावत्प्रज्ञापारमितायां षष्टिं कल्पान् समुदागतः, तत्ते मोहपुरुषा एवं वक्ष्यन्ति- एकनयेनैव (१७५) बोधिर्यदुत शून्यतानयेन" इति विस्तरः । वैरोचनाभिसम्बोधौ चोक्तम्-ऽतदेतत्सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकमुपायपर्यवसानम्" इति । तस्मादुभयं सर्वकालमेव बोधिसत्त्वेन सेवनीयम् ।

एवं हि भगवतामप्रतिष्ठितनिर्वाणं सिध्यति । तथा हि दानादेरूपायस्य रूपकायक्षेत्रपरिवारादिमहाभोगताफलसम्पत्परिग्रहाद्भगवतां न निर्वाणेऽवस्थानम् । प्रज्ञया च सकलविपर्यासप्रहाणाद्न संसारेऽवस्थानं विपर्यासमूलत्वात्संसारस्य । अन्या च प्रज्ञोपायस्वरूपया प्रतिपदा समारोपापवादान्तविवर्जनेन मध्यमा प्रतिपदुद्भाविता । प्रज्ञया समारोपान्तस्य वर्जनादुपायेनापवादान्तस्य वर्जनात् । अत एव आर्यधर्मसङ्गीतावुक्तम्- "लक्षणानुव्यञ्जनरूपकायपरिनिष्पादनाभिरतश्च भवति, न धर्मकायाभिसमयमात्राभिरतः" इति । पुनरुक्तम्- "प्रज्ञोपायजनितस्तथागतानां परप्रत्ययतः संभवोऽनुगन्तव्यः" इति ।

यत्पुनरुक्तम्- "कोलोपमं धर्मपर्यायमाजानद्भिर्धर्मा एव प्रहातव्याः, प्रागेवाधर्माः" इति । तद्विपरीताभिनिवेशप्रहाणतः प्रहातव्या इत्यभिप्रायादुक्तम्, न तु प्रयोजनसम्पदनार्थमपि नाश्रयणियम् । तथा चोक्तम्- "धर्मः प्रग्रहीतव्यो नोद्ग्रहीतव्यः" इति । नोन्मार्गेण प्रग्रहीतव्य इत्यर्थः । यच्चापि क्वचिद्दानादि सांसारिकफलत्वेन वर्णितं तत्प्रज्ञारहितानां दानादीनां पूर्वमुक्तं तावन्मात्रकुशलमूलसन्तुष्टांश्चाधिकृत्योत्तर कुशलमूले प्रोत्साहनार्थम् । अन्यथा [आर्य-]विमलकीर्तिनीर्देशः [आदि पूर्वोक्तः] सर्व एव विरुध्यते । तस्मात्तु द्वावपि प्रज्ञोपायौ सेवनीयाविति स्थितम् ।

(१७६)
तत्र प्रज्ञापरिगृहीता दानादयः पारमिताव्यपदेशं लभन्ते नान्यथेति । अतो दानदिपरिशुद्धये समाधानमास्थाय प्रज्ञोपादानार्थं यत्नं कुर्वीत ।

तत्र प्रथमं तावत्श्रुतमयी प्रज्ञोत्पादनीया । तया हि तावदागमार्थमवधारयति । ततश्चिन्तामय्या प्रज्ञयानीतनेयार्थं निर्वेधयति । ततस्तया निश्चित्य भूतमर्थं भावयेन्नाभूतम् । अन्यथा हि विपरीतस्यापि भवानाद्विचिकित्सायाश्चाव्यपगमात्सम्यग्ज्ञानोदयो न स्यात् । ततश्च व्यर्थैव भावना स्यात् । यथा तीर्तीकानाम् । उक्तं च भगवता समाधिराजे-

नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत् ।
स हेतुर्निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये ॥ इति ।

तस्माच्चिन्तामय्या प्रज्ञया युक्तयागमाभ्यां प्रत्यवेक्ष्य भूतमेव वस्तुस्वरूपं भावनीयम् । वस्तूनां स्वरूपं च परमार्थतोऽनुत्पाद एवागमतो युक्तितश्च निश्चितम् ।

तत्रागमतो यथोक्तमार्यधर्मसङ्गीतौ- "अनुत्पादः सत्यमसत्यमन्ये धर्माः" इति । एतच्च परमार्थानुकूलत्वादनुत्पादः सत्यमित्युक्तम् । परमार्थतस्तु नोत्पादो नाप्यनुत्पादः, तस्य्सर्व्यवहारातीतत्वात् । पुनश्चात्रैव चोक्तम्- "उत्पादनिरोधाभिनिविष्टः कुलपुत्र, लोकसन्निवेशः, (१७७) तस्मात्तथागतो महाकारुणिको लोकस्योत्त्रासपदपरिहाराथं व्यवहारवशादुक्तवान्, उत्पद्यते निरुध्यते चेति न चात्र कस्यचिद्धर्मस्योत्पादः" इति । अर्यबुद्धसङ्गीतौ चोक्तम्- "कतमा योनिशः पृच्छा, कतमा योनिः? आह अनुत्पादो योनिः, तस्य पृच्छा योनिशः पृच्छ" । पुनरत्रैवोक्तम्- "चकारमुखः सर्वधर्माश्च्युत्युत्पत्तिविगताः । अभावमुखाः सर्वधर्माः, स्वभावशून्यतामुपादाय" इति । आर्यसत्यद्वयविभागे चानुत्पादसमतया सर्वधर्माणां समता भवति । प्रज्ञापारमितायां चोक्तम्- "रूपं सुभूते, रूपस्वभावेन शून्यम्, यावद्विज्ञानं विज्ञानस्वभावेन शून्यमिति स्वलक्षणशून्यतामुपादाय" इति । हस्तिकक्ष्ये चोक्तम्-

न कश्चिल्लभ्यते भावो यस्योत्पादस्य संभवः ।
असंभवेषु धर्मेषु बालः सम्भवमिच्छति ॥ इति ।

पितापुत्रसमागमे चोक्तम्- "सर्व एते धर्माः सर्वे समास्त्रैकाल्यसमतया । अतीतेऽध्वनि सर्वधर्माः स्वभावरहिता यावत्प्रत्युत्पन्नेऽध्वनि" इति । एवं तवदागमतः प्रत्यवेक्षणीयम् । युक्त्या हि स्थिरीकृतस्यागमार्थस्यान्यैरपोहितमशक्यत्वात् । अतो युक्त्यापि प्रत्यवेक्षनीयम् ।

तत्र संक्षेपतो युक्तिरुच्यते । उत्पादो भावानामहेतुको वा स्यात्सहेतुको वा । न तावदहेतुकः कादाचित्कत्वदर्शनात् । कारणानपेक्षा हि विशेषाभावादुत्पादकालवत्सदा सर्वत्रैव च भावाः किं न भवेयुः । अभावकालादविशेषाद्वा उत्पादकालेऽपि नैव भवेयुः । एवं तावन्न निर्हेतुको युक्तः । नापि सहेतुकः । तथा हि यस्तावदीश्वरादिस्तीर्थिकैर्नित्यो हेतुः कल्पितस्ततो भावा न जायन्ते क्रमेणोत्पाददर्शनात् । न (१७८) त्वविकलकारणस्य [फलस्य] क्रमेणोत्पादो युक्तो निरपेक्षत्वात् । नापीश्वरादेः स्वयं समर्थस्य परापेक्षाः । नित्यत्वेन परैरनुपकार्यत्वात् । अनुपकारिणि चापेक्षायोगात् । अत एवेश्वरादीनां सर्वसामर्थ्यशून्यत्वाद्वन्ध्यापूत्रादिवद्निःस्वभावत्वमेव । अर्थक्रियासमर्थत्वाद्वस्तुनः । तेषां क्वचिदपि कार्ये न क्रमेण सामर्थ्यं यथा विचारितम् । नापि यौगपद्येन, तथा हि सर्वकार्यं सकृदुत्पाद्योक्तरकालेऽपि यद्युत्पत्तिसमर्थ एवासौ तदा पुनरपि समर्थस्वभावानुवृत्तौ पूर्ववत्कार्योत्पत्तिप्रसङ्गः । अननुवृत्तौ वा पूर्वस्वभावपरित्यागादनित्यत्वप्रसङ्गः ।

तस्मान्न नित्यं नाम किञ्चिद्वस्तु विद्यते । अत एवोक्तं भगवता- "असत्समारोपः पुनर्महामते! आकाशनिरोधनिर्वाण[आदि]अकृतकभावाभिनिवेशसमारोपः" इति । तस्मान्न नित्यादेषामुत्पादो युक्तः । नाप्यनित्यात्तत्रातीतानागतयोरवस्तुत्वान्न् तावत्ततो जन्म युक्तमहेतुकत्वप्रसङ्गात् । नापि वर्तमानात्, समानासमानकालयोस्तत उत्पादायोगात् । तथा हि न तावत्समानकालं कारणं स्वभाववत्कार्यस्यापि तत्समानकालभावितया निष्पन्नत्वात् । नापि भिन्नकालम्, कालन्तरव्यवधानेनोत्पादेऽतीतादेरेवोत्पत्तिप्रसङ्गात् । अव्यवधानेनाप्युत्पादे सर्वात्माना यद्यव्यवधाणं तदैकस्मिन्नेव क्षणे सर्वक्षणानामनुप्रवेशात्कल्पस्य क्षणमात्रताप्रसङ्गः । यथा परमाणोः सर्वात्मना संयोगो पिण्डस्याणुमात्रताप्रसङ्गः । अथैकदेशनेन, तदा क्षणस्य सावयवत्वप्रसङ्गः । स्वतोऽपि नोत्पद्यन्ते, निर्हेतुकपक्षेणैवास्य पक्षस्य सङ्गृहीतत्वात्स्वात्मनि च कारित्रविरोधात् । नाप्युभयतः उभयपक्षभाविदोषद्वय [सङ्ग्रह]प्रसङ्गात् ।

(१७९)
तस्मात्परमार्थतोऽनुत्पन्ना एवामी भावाः । संवृत्या तूत्पादस्य विद्यमानत्वान्नागमादिविरोधः । तथा चोक्तं भगवता-

भावा विद्यन्ति संवृत्या परमार्थे न भावकाः ।
निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत् ॥ इति ।

इयं च युक्तिर्भगवतोऽभिप्रेता शालिस्तम्बादौ । स्वतः परत उभाभ्यामहेतोश्च जन्मनिषेधात् ।

अथवा एवं युक्त्या विचारयेत् । द्विविधा भावा रूपिणोऽरूपिणश्च । तत्रापि तावद्रूपिणो घतादयस्तेऽणुशो विभिन्नरूपत्वाद्नैकस्वभावाः । अणूनां पूर्वापरस्थितानां पूर्वादिदिग्भागत्वेन विभिद्यमानानामसिद्धावप्यणुसंचयात्मकत्वे नानेकस्वभावो युक्तः, न चैकानेकस्वभावव्यतिरेकेणापरः कश्चिद्भावस्वभावोऽस्तीति निःस्वभावा एवामी परमार्थतः स्वप्नाद्युपलब्धरूपादिवद्रूपिणो भवाः । एतच्च भगवतैव चोक्तमार्यलङ्कावतारे- "गोविषाणां पुनर्महामते, अणुशोऽपि विभिद्यमानं नावतिष्ठते । पुनरप्यणवोऽपि भिद्यमाना अणुत्वलक्षणेन नावतिष्ठन्ते" इति ।

ये चारुपिणस्तेऽपि तथैव विचार्युमाणा निःस्वभावा एव । तथा हि, बाह्यस्य नीलादेरर्थस्याभावात्सामर्थ्यत एव विज्ञानादयोऽरूपिणः स्कन्धा निलादिरूपेण प्रतिभासन्त इत्यभ्युपेयम् । उक्तं च भगवता-

"बहिर्धा नास्ति वैरूपं स्वचित्तं दृश्यते बहिः ।" इति ।

ततश्च नीलादिचित्राकारनिर्भासतया ग्राह्यग्राहकाकारनिर्भासतया नैकस्वभावा (१८०) अमी युक्ताः । न चैकस्यानेकरूपता युक्तिमती, एकानेकविरोधात् । एकस्य कस्यचित्स्वभावस्यासिद्धावनेकरूपताप्ययुक्तिमती, एकसमूहरूपत्वादनेकस्य ।

अथवा तत्रालीका एवामी रूपादय आकाराः प्रतिभासन्त इत्युब्युपगम्यते, तदा विज्ञानमप्यलीकं प्राप्नोति । विज्ञानस्य तत्स्वरूपाव्यतिरेकात् । न हि स्वयं प्रकाशमानरूपताव्यतिरेकेणान्यद्विज्ञानस्य रूपमस्ति । स्वयं च न निर्भासन्ते रूपादयः । तेषां च विज्ञानस्वरूपापन्नानामलीकत्वे सर्वमेव विज्ञानमलीकमभ्युपेतं स्यात् । तस्माद्"मायोपमं च विज्ञानम्" इत्युक्तं भगवता ।

तस्मादेकानेकस्वभावशून्यत्वेन परमार्थतोऽलीका एवामी सर्वभावा इति निश्चितमेतत् । अयं चार्थ उक्तो भगवता लङ्कावतारे-

यथैव दर्पणे रूपमेकत्वान्यत्ववर्जितम् ।
दृश्यते न च तत्रास्ति तथा भावेषु भवता ॥ इति ।

एकत्वान्यत्ववर्जितमिति, एकत्वान्यत्वरहितमित्यर्थः । पुनश्चोक्तम्-

बुद्धया विविच्यमानानां स्वभावो नावधार्यते ।
अतो निरभिलाप्यस्ते निःस्वभावाश्च दर्शिताः ॥ इति ।

तदेवं चिन्तामय्या प्रज्ञया निश्चित्य भूतमर्थ तस्य प्रत्यक्षीकरणाय भावनामयीं प्रज्ञामुत्पादयेत् । "बहुश्रुतादिमात्रकेणा नार्थः प्रत्यक्षो भवतीति निवेदितमार्यरत्नमेघादिषु । अनुभवश्च प्रतिपत्तृणाम्, न चापि स्फुटतरज्ञानालोकोदयमन्तरेण सम्यगावरणतमोऽपहीयते । भावनाबहुलीकारतश्चाभूते (१८१)ऽप्यर्थे स्फुटरज्ञानमुत्पद्यते । यथा अशुभादिपृथ्वीकृत्स्नादिसमापन्नानां [ज्ञानोद्भवत्वे] किम्पुनर्भूते । तथा च भावनायाः परिस्फुटज्ञानफलत्वेन साफल्यमुक्तमार्यसमाधिराजे-

आरोचयामि प्रतिवेदयामि वो यथा यथा बहु च वितर्कयेन्नरः ।
तथा तथा भवति तन्निमित्तचित्तस्तेहि वितर्केहि तन्निश्रितेहि ॥ इति विस्तरः ।

तस्मात्तत्त्वं साक्षात्कर्तुकामो भावनायां प्रवर्तते ।

तत्र प्रथमतरं तावद्योगिना शमथो निष्पादनीयश्चित्तस्थिरीकरणाय । सलिलवच्चञ्चलत्वाच्चित्तस्य, न शमथमाधारमन्तेरण स्थितिरस्ति । न चासमाहितेन चेतसा यथाभुतं शक्यते ज्ञातुम् । उक्तं हि भगवता- "समाहितचित्तो यथाभूतं प्रजानाति" इति । शमथो लाभादिकामनानिरपेक्षस्य सम्यक्प्रवृत्तौ स्थिरस्य दुःखाद्यधिवासनशिलस्यारब्धवीर्यस्य शीघ्रतरं सम्पद्यते । अत एव आर्यसंधिनिर्वोचनादौ दानादय उत्तरोत्तरत्वेन वर्णिताः ।

तदेवं शीलादिशमथसम्भारेषु स्थितो मनोऽनुकूलदेशे सर्वबुद्धबोधिसत्त्वेषु प्रणामादिकं कृत्वा पापदेशनां पुण्यानुमोदनां विधाय सकलजगदभ्युद्धरणाशयो महाकरुणामेवाभिमुखीकृत्य कायमृजुं प्रणिधाय सुखासनोपविष्टः पर्यङ्कमाभुज्य समाधिमभिनिष्पादयेत् ।

तत्र प्रथमं तावद्यद्वस्तु विचारयितव्यं यावता प्रकारेण सङ्क्षेपतः सकलवस्तुसङ्ग्रहो भवति तत्र चित्तं बध्नीयत् । सङ्क्षिप्तं (१८२) पुनर्वस्तु रूप्यरूपिभेदेन द्विध भवति । एतच्चादिकर्मिकस्य विक्षेपदोषपरिहारार्थ संक्षिप्तं तावद्युक्तमालम्बयितुम् । यदा तु जितमनस्कारो भवति तदा स्कन्धधात्वादिभेदेन विशोध्य विस्तरशोऽप्यालम्बत एव । तथा सन्धिनिर्मोचनादौ योगिनामष्टादशप्रकारशून्यतालम्बनादिभेदेन नानाप्रकारमालम्बनमुक्तम् ।

अत्रैव भगवता सत्त्वानुग्रहाद्रूप्यरूप्यादिभेदेन संक्षेपमध्यविस्तारैः वस्तुभेदोऽभिधर्मादौ निर्दिष्टः । तच्च वस्तु अध्यारोपापवादपरिहाराय स्कन्धधात्वादिसङ्ग्रहतो गणयेत् । ततो निश्चित्य सर्वं वस्तुसङ्ग्रहं तत्रैव पुनश्चित्तं प्रबन्धेन प्रेरयेत् ।

यद त्वन्तरा रागादिना चित्तं बहिर्विक्षिपेत्तदावगम्य विक्षेपतामशुभादिभावनया विक्षेपमुपशाम्य पुनस्तत्रैवोपर्युपरि चित्तं प्रेरयेत् । अशुभदिभावनाक्रमस्तु ग्रन्थविस्तरभयान्न लिखितः । यदा तु चित्तं तत्रानभिरतं पश्येत्, तद समाधेर्गुणदर्शनतोऽभिरतिं तत्र भावयेत् । विक्षेपदोषदर्शनादरतिं प्रशमयेत् । अथ यदा स्त्यानमिद्धाभिभवादाअलम्बनग्रहणाप्रकटतयालीनं चित्तं भवति तदा लोकसंज्ञाभावनया प्रामोद्यवस्तुबुद्धादिगुणमनसिकारात्[वा] लयमुपशाम्य पुनस्तदेवालम्बनं दृढतरं गृण्हीयात् ।

अथ यदा पूर्वहसितरमिताद्यनुस्मरतोऽन्तरा चित्तमुद्धतं पश्येत्, तदानित्यतादिसंवेगमनसिकारादौद्धत्यं प्रशमयेत्, ततः पुनस्तत्रैवालम्बने चित्तस्यानभिसंस्कारवाहितायं यत्नं कुर्वीत । अथ यदा लयौद्धत्यभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहिचित्तं पश्येत्तदाभोगशिथीलीकरणाद्(१८३) उपेक्षते । यदा तु समप्रवृत्ते सत्याभोगः क्रियते, तदा चित्तं विक्षिपेत् ।

यदा तु तत्रालम्बनेऽनभिसंस्कारवाहि यावदिच्छं चित्तं प्रवृत्तं भवति, तदा शमथो निष्पन्नो वेदितव्यः । एतच्च सर्वशमथानां सामान्यलक्षणम्, चित्तैकग्रतामात्रस्वभावत्वात् । शमथस्य । आलम्बनं तु तस्यानियतमेव । अयं च शमथमार्गो भगवता आर्यप्रज्ञापारमितादौ निर्दिष्टः । यदाह- "तत्र चित्तं स्थापयति, संस्थापयति, अवस्थापयति, उपस्थापयति, दमयति, शमयति, व्युपशमयति, एकोतीकरोति, समादधाति" इति नवपदैः ।

तत्र स्थापयति, आलम्बनेन बध्नाति । संस्थापयति, तत्रैवालम्बने प्रबन्धेन प्रवर्तयति । अवस्थापयति, विक्षेपमवगम्य तं परिहरति । उपस्थापयति, विक्षेपं परिहृत्य उपर्युपरि पुनस्तत्रैवालम्बने स्थापयति । दमयति, रतिमुत्पादयति । शमयति, अरतिं व्युपशामयति विक्षेपदोषदर्शनात् । व्युपशमयति, स्त्यानमिद्धादीन् व्युत्थितान् व्युपशमयति । एकोतीकरोति, आलम्बनेऽनभिसंस्कारवाहितायं यत्नं करोति । समादधाति, समप्राप्तं चित्तमुपेक्षते समन्वाहरतीत्यर्थः । एष चैषां पदानामर्थः पूर्वाचार्यैः मैत्रेयेण च व्याख्यातः ।

संक्षेपेण सर्वसैव समाधेः षड्दोषा भवन्ति । कौषिद्यमालम्बनसंप्रमोषः, लयौद्धत्यम्, अनाभोगः, आभोगतेति । तेषां प्रतिपक्षेणाष्टौ प्रहाणसंस्कारा भवनीयाः । तद्यथा- श्रद्धा, छन्दः, व्यायामः प्रश्रब्धिः, स्मृतिः, सम्प्रजन्यम्, चेतना, उपेक्षा चेति । तत्राद्याश्चत्वारः कौसीद्यस्य प्रतिपक्षाः । तथा हि- समाधेर्गुणेष्वभिसम्प्रत्ययलक्षणया श्रद्धया तत्र योगिनोऽभिलाष उत्पद्यते । ततोऽभिलाषाद्वीर्यमरभेत । तद्वीर्यबलेन कायचित्तकर्मण्यताम् (१८४) आसादयति । ततः प्रश्रब्धकायचेतसः कौसीद्यमावर्तते । अतः श्रद्धादयः कौसीद्यप्रहाणाय भावनीयाः । स्मृतिरालम्बनसम्प्रमोषस्य प्रतिपक्षः । सम्प्रजन्यं लयौद्धत्ययोः प्रतिपक्षः । तेन लयौद्धत्ययोः सम्यगुपंलक्षणात् । लयौद्धत्याप्रशमनकाले त्वनाभोगदोषः तत्प्रतिपक्षेण च चेतना भावनीया । लयौद्धत्यप्रशमे सति यदा चित्तं प्रशमवाहि तदाभोगदोषः, तत्प्रतिपक्षस्तदानीमुपेक्षा भावनीया ।

एभिरष्टाभिः प्रहाणसंस्कारैः समन्वागतः समाधिः परमकर्मण्यो भवति । ऋद्धयादीन् गुणान्निष्पादयति । अत एवोक्तं सूत्र- "[अष्ट]प्रहाण [संस्कार]समन्वागतः ऋद्धिपादं भावयति" इति । एषा च चित्तैकाग्रता उत्तरोत्तरकर्मण्यतासम्प्रयोगादालम्बनादिगुणविशेषयोगाच्च ध्यानारूपिसमापत्तिः विमोक्षादिव्यपदेशं लभते ।

तथा हि यदोपेक्षावेदनासम्प्रयुक्ता सवितर्कसविचारा सा भवति, तदानागम्या उच्यते [प्रथमध्यानप्रयोगचित्तत्वात्] । यदा च कामतृष्णया पापधर्मैश्च] विविक्ता भवति [वितर्कविचार]प्रीतिसुखाध्यात्मसम्प्रसादैः सम्प्रयुक्ता भवति, तदा प्रथमं ध्यानमुच्यते । अत एव प्रथमध्यानं वितर्कमात्ररहितं ध्यानान्तरमुच्यते । यदा वितर्कविचाररहिता प्रथमध्यानभूमितृष्णया विविक्ता च भवति । प्रीतिसुखाध्यात्मसम्प्रसादैः सम्प्रयुक्ता भवति, तदा द्वितीयं ध्यानमुच्यते । यदा तु द्वितीयध्यानभूमितृष्णया विविक्ता भवति, सुखोपेक्षास्मृतिसम्प्रजन्यसम्प्रयुक्ता भवति, तदा तृतीयं ध्यानमुच्यते । यदा तृतीयध्यानभूमितृष्णया विविक्ता भवति । अदुःखासुखा उपेक्षास्मृत्यभिसम्प्रयुक्ता भवति, तदा चतुर्थं ध्यानमुच्यते । एवमरूप्यसमापत्तिविमोक्षाभिभवायतनादिष्वालम्बनाकारादिभेदेन योज्यम् ।

(१८५)
तदेवमालम्बने चित्तं स्थिरीकृत्य प्रज्ञया विवेचयेत् । यतो ज्ञानालोकोत्पादात्सम्मोहबीजस्यात्यन्तप्रहाणं भवति । अन्यथा हि तीर्थिकानामिव समाधिमात्रेण क्लेशप्रहाणं न स्यात् । यथोक्तं सुत्रे-

किञ्चापि भावयेत्समाधिमेतं न चो बिभावेय्य सा आत्मसंज्ञाम् ।
पुनः प्रकुप्यति किलेषु तस्य यथोद्रकस्येह समाधिभावना ॥ इति ।

तत्रायमार्यलङ्कावतारे संक्षेपात्प्रज्ञाभावनाक्रमो निर्दिष्टः-

चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत् ।
तथतालम्बने स्थित्वा चित्तमात्रमतिक्रमेत् ॥
चित्तमात्रमतिक्रम्य निराभासमतिक्रमेत् ।
निराभासस्थितो योगी महायानं स पश्यति ॥
अनाभोगगतिः शान्ता प्रणिधानैर्विशोधिता ।
ज्ञानं निरात्मकं श्रेष्ठं निराभासे न पश्यति ॥ इति ।

तत्रायमर्थः- प्रथमं योगी ये रूपिणो धर्मा बाह्यार्थतया परैः परिकल्पितास्तेषु तावद्विचारयेत् । किमेते विज्ञानादन्ये, आहोस्विद्विज्ञानमेवैतत्तथा प्रतिभासते, यथा स्वप्नावस्थायामिति । तत्र विज्ञानाद्बहिः परमाणुशो विचारयेत् । परमाणूंश्च भागशः प्रत्यवेक्ष- माणो योगी तानर्थान्न समनुपश्यति । तस्यासमनुपश्यत एवं भवति चित्तमात्रमेवैतत्सर्वं न पुनर्बाह्योऽर्था विपद्यते । तदेवम्-

(१८६)
"चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत् । "

रूपिधर्मविकल्पांस्त्यजेदित्यर्थः ।

तेषामुपलब्धिलक्षणप्राप्तानां विचारयेदनुपलब्धेः । एवं रूपिणो धर्मान् विभाव्यारुपिणो विभावयेत् । तत्र यच्चित्तमात्रं तदप्यसति ग्राह्ये ग्राहको न युक्तो ग्राहकस्य ग्राह्यपेक्षत्वद्ततश्चित्तं ग्राह्यग्राहकविविक्तमद्वयमेव चित्तमिति विचारयेदद्वयलक्षणे-

"तथतालम्बने स्थित्वा तदपि चित्तमात्रमतिक्रमेत् । "

ग्रहकमाकारमतिक्रमेत । द्वयनिराभास एव अद्वयज्ञाने तिष्ठेदित्यर्थः ।

एवं चित्तमात्रमतिक्रम्य तदपि द्वयनिराभसं यज्ज्ञानं तदतिक्रमेत । स्वतः परतो भावानां जन्मानुपपत्तेः ग्राह्यग्राहकयोश्चालीकत्वे तदव्यतिरेकात्तस्यापि सत्यत्वमयुक्तमिति विचारयेत् । तत्राप्यद्वयज्ञाने वस्तुत्वाभिनिवेशं त्यजेत्, अद्वयज्ञाननिराभास एव ज्ञाने तिष्ठेदित्यर्थः । एवं सति सर्वधर्मनिःस्वभावताप्रतिपत्तौ स्थितो भवति । तत्र स्थितस्य परमतत्त्वप्रवेशात्निर्विकल्पसमाधिप्रवेशः ।

तथा चाद्वयज्ञाननिराभासे ज्ञाने यदा स्थितो योगी तदा परमतत्त्वे स्थितत्वात्, महायानं स पश्यति । एतदेव तत्महायानमुच्यते यत्परमतत्त्वदर्शनम् । एतदेव तत्परमतत्त्वदर्शनं यत्सर्वधर्मान् प्रज्ञाचक्षुषा निरूपयतः सम्यग्ज्ञानावलोके सत्यदर्शनम् । तथा चोक्तं सुत्रे- "कतमं परमार्थदर्शनम्? सर्वधर्माणामदर्शनम् ।" इति ।

अत्रेदृशमेवादर्शनमभिप्रेतं न तु निमीलिताक्षजात्यन्धानामिव प्रत्ययवैकल्यादमनसिकारतो वा यददर्शनम् ।

(१८७)
ततो भावाभिनिवेशदिविपर्यासवासनाया अप्रहीणत्वादसंज्ञिसमापत्त्यादिव्युत्थितस्येव पुनरपि भावाभिनिवेशमूलस्य रागादिक्लेशगणस्योत्पत्तेरमुक्त एव योगी भवेत् । भावाभिनिवेशमूलो रागादिः आर्यसत्यद्वयनिर्देशादौ वर्णितः । यत्पुनरुक्तमविकल्पप्रवेशधारण्याम्- "अमनसिकारतो रूपादिनिमित्तं वर्जयति" इति । तत्रापि प्रज्ञया निरूपयतो योऽनुपलम्भः स तत्रामनसिकारोऽभिप्रेतो न मनसिकाराभावमात्रम् । न ह्यसंज्ञिसमापत्त्यादिरिव अनादिकालिको रूपाद्यभिनिवेशो मनसिकारपरिवर्जनमात्रात्प्रहीयते ।

संशया प्रहाणे तु न पूर्वोपलब्धेषु च रूपादिष्वभिनिवेशमनसिकारपरिवर्जनं शक्यं कर्तुमग्न्यपरिवर्जने दाहापरिवर्जनवत् । तथामी रूपादिमिथ्याविकल्पाः कण्टकादिवदुत्कील्य न हस्तेन चेतसोऽपनेतव्याः । किं तर्हि संशयबीजापगमात् । तच्च संशयबीजं योगिनः समाध्यालोके सति प्रज्ञाचक्षुषा निरूपयतस्तेसां रूपादीनां पूर्वोपलब्धानामुपलब्धिलक्षणप्राप्तानामनुपलम्भाद्, रज्जोः सर्पज्ञानवद्, अपगच्छति नान्यथा । तथा संशयबीजापगमाद्रूपादिनिमित्तमनसिकारः शक्यते वर्जयितुं नान्यथा । अन्यथा ह्यसति समाध्यालोके प्रज्ञाचक्षुषाप्यनवलोके यथा अन्धकूपावस्थितपुरुषस्यावचरकगतघाटादिष्विव योगिनो रूपादिष्वस्तित्वसंशयो नैव निवर्तेत । तदनिवृत्त्या चा प्रहीणतिमिरदोषस्येव योऽयुक्तोऽलीकरूपाद्यभिनिवेशः प्रवर्तेत न केनापि निवर्त्येत ।

तस्मात्समाधिहस्तेन मनः सन्धाय सूक्ष्मतरप्रज्ञाशस्त्रेण तत्र चेतसि रूपादिमिथ्याविकल्पबीजमुद्धरेत् । एवं सत्युत्खातमूला इव (१८८) तरवो भूमेर्निर्मूलतया मिथ्याविकल्पाः पुनश्चेतसि न विरोहन्ति । अत एवावरणप्रहाणाय शमथविपश्यनायुगनद्धवाही मार्गो भगवता निर्दिष्टः, तयोः अविकल्पसम्यग्ज्ञाने हेतुत्वात् । तथा चोक्तम्-

शीलं प्रतिष्ठाय समाधिलाभाः समाधिलाभाच्च हि प्रज्ञाभावना ।
प्रज्ञया ज्ञानं भवति विशुद्धं विशुद्धज्ञानस्य हि शीलसम्पत् ॥ इति ।

तथा हि यदा शमथेनालम्बने चित्तं स्थिरीकृतं भवति तदा प्रज्ञया विचारयतः सम्यग्ज्ञानालोक उत्पद्यते, तदान्धकारमिवालोके प्रकाशयति आवरणमपहीयते । अत एवानयोश्चक्षुरालोकयोरिव सम्यग्ज्ञानोत्पादं प्रत्यन्योऽन्यानुगुण्येनावस्थितत्वान्नालोकान्धकारवत्परस्परविरोधः । न हि समाधिरन्धकारस्वभावः । किं तर्हि चित्तैकाग्रतालक्षणः । स च समाहितो यथाभूतं प्रजानातीति वचनादेकान्तेन प्रज्ञानुकूल एव भवति, न तु विरुद्धस्तस्मात्स्यात्समाहितस्य प्रज्ञया निरूपयतः सर्वधर्माणामनुपलम्भः । स एव परमोऽनुपलम्भः । सा च तादृशी योगिनामवस्थानलक्षणा गतिरनाभोगा, ततः परं दृष्टव्यस्याभावात् । शान्तेति भावाभावादिविकल्पलक्षणस्य प्रपञ्चस्योपशमात् ।

तथा हि यदा प्रज्ञया निरूपयन्न किञ्चिद्भावस्वभावमुपलभते योगी, तदास्य नैव भावविकल्पो भवत् । अभावविकल्पोऽपि तस्य नास्त्येव । यदि भावः कदाचिद्दृष्टो भवति, एवं सति तन्निषेधेनाभावविकल्पः प्रवर्तते । यदा तु कालत्रयेऽपि भावो योगिना प्रज्ञाचक्षुषा निरूपयता नोपलब्धः, तदा कथं तस्य प्रतिषेधेनाभावविकल्पं कुर्वीत । एवमन्येऽपि विकल्पास्तदा तस्य न समुत्पद्यन्त एव भावाभावविकल्पाभ्यां (१८९) सर्वविकल्पस्य व्याप्तत्वात् । व्यापकाभावे च व्याप्यस्यासम्भवात् । अयमसौ परमनिर्विकल्पो योगः । तत्र स्थितस्य योगिनः सर्वविकल्पानामस्तंगमात्सम्यक्क्लेशावरणं ज्ञेयावरणं च प्रहीयते । तथा हि क्लेशावरणस्यानुत्पन्नानिरुद्धभावेषु भावादिविपर्यासो मूलं कारणमार्यसत्यद्वयनिर्देशादौ वर्णितं भगवता ।
अनेन च योगाभ्यासेन सर्वभावादिविकल्पानां प्रहाणात्सकलभावादिविपर्यासस्याविद्यास्वभावस्य क्लेशावरणमूलस्य प्रहाणम् । ततो मूलोच्छेदात्क्लेशवरणं सम्यक्प्रहीयते । तथा चोक्तं सत्यद्वयनिर्देशे- "कथं मञ्जुश्रीः, क्लेशा विनयं गच्छन्ति, कथं क्लेशाः परिज्ञाता भवन्ति? मञ्जुश्रीराह- परमार्थतोऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु संवृत्यासद्विपर्यासः । तस्मादसद्विपर्यासात्सङ्कल्पविकल्पः । तस्मात्संकल्पविकल्पादयोनिशो मनसिकारः । तस्मादयोनिशो मनसिकारादात्मसमारोपः । तस्मादात्मसमारोपाद्दृष्टिपर्युत्थानम् । तस्माद्दृष्टिपर्युत्थानात्क्लेशाः प्रवर्तन्ते । यः पुनः देवपुत्र! परमार्थतोऽत्यन्ताजातानुत्पन्नाभावान् सर्वधर्मान् प्रजानाति, स परमार्थतोऽविपर्यस्तः । यश्च परमार्थतोऽविपर्यस्तः सोऽविकल्पः । यश्चाविकल्पः स योनिशः प्रयुक्तः । यश्च योनिशः प्रयुक्तः तस्यात्मसमारोपो न भवति । यस्यात्मसमारोपो न भवति तस्य दृष्टिपर्युत्थानं न भवति । यावत्परमार्थतो निर्वाणदृष्टिसर्व दृष्टिपर्युत्थानमपि न भवति । तस्यैवमनुत्पादविहारिणः क्लेशा अत्यन्तं विनीता द्रष्टव्याः । अयमुच्यते क्लेशविनयः । यदा, देवपुत्र! क्लेशान्निराभासेन ज्ञानेन परमार्थतोऽत्यन्तशून्यानत्यन्ताभावानत्यन्तनिर्निमित्तात्प्रजानाति, तदा देवपुत्र! क्लेशाः परिज्ञाता भवन्ति । तत्र (१९०) यथापि नाम, देवपुत्र! य आशीविषस्य गोत्रं प्रजानाति । स तस्याशीविषस्य विषं शमयति । एवमेव देवपुत्र! य क्लेशानां गोत्रं प्रजानाति तस्य क्लेशाः प्रशाम्यन्ति । देवपुत्र आह- कतमन्मञ्जुश्रीः! क्लेशानां गोत्रम् । आह- यावदेषा परमार्थतोऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु कल्पना इदं क्लेशानां गोत्रम्" इति विस्तरः ।

भावादिविपर्यासेन च सकलविपर्यासस्य व्याप्तत्वात् । तत्प्रहाणे सकलविपर्यासप्रहाणाद्ज्ञेयावरणमप्यनेन सम्यक्प्रहीयते, विपर्यासलक्षणत्वादावरणस्य । ज्ञेयावरणे च प्रहीणे प्रतिबन्धाभावाद्रविकिरणवदपगतमेघाद्यावरणे नभसि सर्वत्राव्याहतो योगि प्रत्यक्षो ज्ञानालोकः प्रवर्तते । तथा हि वस्तुस्वभावप्रकाशरूपं विज्ञानम् । तच्च संनिहितमपि वस्तु प्रतिबन्धसद्भावान्न प्रकाशयति । प्रतिबन्धाभावे तु सति, अचिन्त्यशक्तिविशेषलाभात्किमिति सकलमेव वस्तु यथावद्न प्रकाशयेत् । अतः संवृतिपरमार्थरूपेण सकलस्य वस्तुनो यथावत्परिज्ञानात्सर्वज्ञत्वमवाप्यते । अतोऽयमेवावरणप्रहाणो सर्वज्ञत्वाधिगमे च परमो मार्गः ।

यस्तु श्रावकादीनां मार्गस्तेन विपर्यासाप्रहाणान्न सम्यगावरणद्वयं प्रहीयते । तथा चोक्तमार्यलङ्कावतारे- "अन्ये तु कारणाधीनान् सर्वधर्मान् दृष्ट्वानिर्वाणेऽपि निर्वाणमिति बुद्धयो भवन्ति । धर्मनैरात्म्यादर्शनाद्नास्ति महामते! मोक्ष एषाम् । महामते, श्रावकयानिकाभिसमयगोत्रस्यानिर्याणे निर्याणबुद्धिः । अत्र महामते, (१९१) कुदृष्टिव्यावर्तना योगः करणीयः" इति । अत एव चान्येन मार्गेण मोक्षाभावादेकमेव यानमुक्तं भगवता ।

केवलम् [बालेन बालस्य] अवतारणाभिसन्धिना श्रावकादिमार्गो देशितः । तथा हि सकन्ध मात्रमेवैतत्, न त्वात्मास्तीति भावयन् श्रावकः पुद्गलनैरात्म्यमवतरति, विज्ञप्तिमात्रं त्रैधातुकमिति भावयन् विज्ञानवादिबाह्यार्थनैरात्म्यमवतरति । अनेन त्वस्यद्वयज्ञानस्य नैरात्म्यप्रवेशात्परमतत्त्वप्रविष्टो भवति । न तु विज्ञप्तिमात्रताप्रवेश एव तत्त्वप्रवेशः । यथोक्तं प्राक् । उक्तं च आर्यलोकोत्तरपरिवर्ते "पुनरपरं भो जिनपुत्र! चित्तमात्रं त्रैधातुकमवतरति, तच्च चित्तमनन्तमध्यतयावतरति" इति । अन्तयोरुत्पादभङ्गलक्षणयोः स्थितिलक्षणस्य च मध्यस्याभावादनन्तमध्यचित्तम् । तस्मादद्वयज्ञानप्रवेश एव तत्त्वप्रवेशः ।

सा चेयं योगिनामवस्था कुतो विशोधिता? इत्याह-

"प्रणिधानैर्विशोधिता" इति । महाकरुणया यत्सर्वसत्त्वार्थकरणाय बोधिसत्त्वेन प्रणिहितम्, ततः प्रणिधानबलादुत्तरोत्तरदानादिकुशलाभ्यासात्सा तथा विशुद्धा जात, येन सर्वधर्मनिःस्वभावताज्ञानेऽपि सकलसत्त्वापेक्षा न व्यावर्तते यावत्संसार एव अननुलिप्ताः संसारदोषैरवतिष्ठन्त इति । कथं पुनरनाभोगा शान्तेत्यत्र कारणमाह-

ज्ञानं निरात्मकं श्रेष्ठं निराभासेन पश्यति । इति ।

यस्माद्यदद्वयलक्षणं ज्ञानमद्वयवादिनां श्रेष्ठं परमार्थेनाभिमतं तदपि निरात्मकं निःस्वभावमद्वयनिराभासेन ज्ञानेन पश्यति योगी । अतोऽपरस्य द्रष्टव्यस्याभावादनाभोगा, सर्वविकल्पाभावत्शान्तेति ।

(१९२)
अत्रेदानीं कोऽसौ योगी विद्यते, यः पश्यतीति चेत्? न परमार्थतः कश्चिदात्मादिः स्वतन्त्रोऽस्ति, योगी नापि कश्चित्पश्यति । किन्तु संवृत्या यथा रूपादीविषयाकारज्ञानोत्पादमात्रेण विज्ञानमेव लोके तथा तथा व्यवह्रियते देवदत्तो यज्ञदत्तं ज्ञानेन पश्यतीति न तु कश्चिदात्मादिरस्ति । तथात्रापि ज्ञानमेवाद्वयज्ञाननिराभासमुत्पद्यमानं तथा व्यपदिश्यते निराभासेन ज्ञानेन पश्यतिति । न हि सर्वधर्माणां परमार्थतो निःस्वभावत्वेऽपि संवृत्या योगिज्ञानमन्यद्वा पृथग्ज्ञानं नेष्टम् । तथा चोक्तमार्यसत्यद्वयनिर्देशे- "परमार्थतोऽत्यन्ताभावश्च संवृत्त्या च मार्ग भावयति" इति ।

अन्यथा श्रावकप्रत्येकबुद्धबोधिसत्त्व [बुद्ध]पृथग्जनादिव्यवस्था कथं भवेत्, किन्तु यस्य संवृत्यापि कारणं नास्ति स संवृत्यापि नोत्पद्यते । यथा शशविषाणादि । यस्य तु [कारणं] विद्यते स परमार्थतोऽलीकोऽपि समुत्पद्यत एव । यथा- मायाप्रतिबिम्ब [प्रतिध्वनि]आदी । न च मायादेः संवृत्या प्रतीत्यसमुत्पादे परमार्थतो वस्तुत्वप्रसङ्गः, तस्य विचाराक्षमत्वात् । अतः सर्वमेव मायोपमं जगत् । तत्र यथा क्लेशकर्ममायावशात्सत्त्वानां जन्ममाया प्रवर्तेत, तथा योगिनामपि पुण्यज्ञानसम्भारमायावशाद्योगिज्ञानमाया प्रवर्तत एव । तथा चोक्तमार्यप्रज्ञापारमितायाम्- "कश्चित्श्रावकनिर्मितः, कश्चित्प्रत्येकबुद्धनिर्मितः, कश्चिद्बोधिसत्त्वनिर्मितः, कश्चित्तथागतनिर्मितः, कश्चित्क्लेशनिर्मितः कश्चित्कर्मनिर्मितः । अनेन सुभूते, पर्यायेण सर्वधर्मा निर्मितोत्पन्नाः" इति । अयं तु विशेषो योगिनां पृथग्जनेभ्यः, ते हि मायाकारवत्तां मायां यथावत्परिज्ञानात्सत्यतो नाभिनिविशन्ते, (१९३) तेन ते योगिन उच्यन्ते । ये तां बालपृथग्जनवत्कौतूहलं स्त्यत्वेनाभिनिविष्टास्ते विपरीताभिनिवेशद्बाल उच्यन्ते इति सर्वमविरुद्धम् । तथा चोक्तमार्यधर्मसङ्गीतौ-

मायाकारो यथा कश्चिन्निर्मित-मोक्षमुद्यतः ।
न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य सः ॥
त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारगः ।
संनह्यते जगद्धेतोर्ज्ञातपूर्वं जगत्तथा ॥ इति ।

एवमनेन क्रमेण तत्त्वं भावयेत् ।

तत्र च लयौद्धत्यादीन् व्युत्थितान् पूर्ववत्प्रशमयेत् । यदा तु सर्वधर्मनिःस्वभावतालम्बने च लयौद्धत्यादिरहितमनभिसंस्कारेण प्रवृत्तं ज्ञानं भवति, तदा शमथविपश्यनायुगनद्धवाही मार्गो निष्पन्नो भवति । तथा यावत्शक्नोति तावदधिमुक्तिबलेन अधिमुक्तिचर्याभूमौ स्थितो भावयेत् ।

ततो यथेच्छं पर्यङ्कमाभुज्य व्युत्थाय पुनरेवं चिन्तयेत् । यदि नामामी धर्माः परमार्थत एव निःस्वभावा अप्येते संवृत्या स्थिता एव । तथा चोक्तमार्यरत्नमेघे- "कथं बोधिसत्त्वो नैरात्म्यकुशलो भवति? इह कुलपुत्र, बोधिसत्त्वः सम्यक्प्रज्ञया रूपं प्रत्येवक्षते, वेदनां संज्ञां संस्कारान् विज्ञानं प्रत्यवेक्षते । स रूपं प्रत्यवेक्षमाणो रूपस्योत्पादं नोपलभते, विरोधं नोपलभते, समुदयं नोपलभते । एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं नोपलभते, निरोधं नोपलभते, समुदयं नोपलभते । अयं च परमार्थतोऽनुत्पादविहारिण्याः प्रज्ञाया न पुनर्व्यावहारिकेण स्वभावेन" इति विस्तरः । एते च बालबुद्धय एवं निःस्वभावेषु भावेषु (१९४) विपरीताभिनिवेशात्संसारे परिभ्रमन्तो विविधानि दुःखानि प्रत्यनुभवन्ति । महाकरुणामेव आमुखीकृत्य एवमनुविचिन्तयेत्- तथाहं करिष्यामि यथा सर्वज्ञत्वं प्राप्य एतेषां धर्मतामवबोधयेयमिति ।

ततः सर्वबुद्धबोधिसत्त्वेभ्यः पूजास्तोत्रोपहारं कृत्वा आर्यभद्रचर्याप्रणिधानमभिनिर्हरेत् । ततः शून्यताकरुणागर्भ एव सकलदानादिपुण्यज्ञानसम्भारोपार्जने प्रवर्तते । तथा चोक्तमार्यधर्मसंगीतौ- "यथाभूतदर्शिनो बोधिसत्त्वस्य सत्त्वेषु महाकरुणा प्रवर्तते । एवं चास्य भवति- इदं मया समाधिमुखं सर्वधर्मयथाभूतदर्शं च सर्वसत्त्वानां निस्पादयितव्यम् । स तया महाकरुणया संचोद्यमानोऽधिशीलमधिचित्तमधिप्रज्ञं च शिक्षात्रयं परिपूर्यानुत्तरं सम्यक्सम्बोधिमभिसम्बुध्यते" इति ।

अयमेव प्रज्ञोपाययुगनद्धबाही बोधिसत्त्वानां मार्गो यत्परमार्थदर्शनेऽपि संवृतिं नोच्छेदयन्ति । संवृतिं चानुच्छेदयन्तो महाकरुणापूर्वङ्गमा अविपर्यस्ता एव सत्त्वार्थक्रियासु प्रवर्तन्ते । उक्तमार्यरत्नमेघे- "कथं बोधिसत्त्वो महायानकुशलो भवति । इह बोधिसत्त्वः सर्वासु शिक्षासु शिक्षते, शिक्षामार्गं च नोपलभते । यच्च शिक्षते तदपि नोपलभते । यश्च शिक्ष्यते तमपि नोपलभते । न च तद्धेतुकं तन्निदानं तत्प्रत्ययमुच्छेददृष्टौ पतति" इति । आर्यधर्मसंगीतौ चोक्तम्- "कतमा बोधिसत्त्वानां प्रतिपत्तिः? यत्किञ्चिद्बोधिसत्त्वानां कायकर्म, यत्किञ्चिद्वाक्कर्म, यत्किञ्चिन्मनःकर्म, तत्सर्वसत्त्वापेक्षकं प्रवर्तते, महाकरुणापूर्वङ्गमत्वात् । महाकरुणाधिपत्यं सर्वसत्त्वाहितसुखाध्याशयसमुत्थितम्" इति । अयमेवं हिताशयः संज्ञीभवति । सा मया (१९५) प्रतिपत्तिः प्रतिपत्तव्या सर्वसत्त्वानां हितावहा सुखावहा । तस्य स्कन्धेषु मायावत्प्रत्यवेक्षणा प्रतिपत्तिर्न च स्कन्धपरित्यागं स्पृहयतीति । धातुष्वाशीविषवत्प्रत्यवेक्षणा प्रतिपत्तिर्न च धातुपरित्यागं स्पृहयतीति । आयतनेषु शून्यग्रामवत्प्रत्यवेक्षणाप्रतिपत्तिर्न चायतनपरित्यागं स्पृहयतीति । रूपस्य फेनपिण्डवत्प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतरूपकायविठपनां जहाति । वेदनाया बुद्बुद्वत्प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतध्यानसमाधिसमापत्तिसुखनिष्पदनप्रयोगं नारभते । संज्ञायां मरीचिवत्प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतज्ञाननिष्पादन अप्रतिपत्तिः । संस्काराणां कदलीवत्प्रत्यवेक्षणा प्रतिपत्तिर्न च बुद्धधर्मसंस्काराणामप्रतिपत्तिः । विज्ञानस्य मायावत्प्रत्यवेक्षणा प्रतिपत्तिर्न च ज्ञानपूर्वङ्गमकायवाङ्मनस्कर्मनिष्पादना प्रतिपत्तिः" इति विस्तरः । एवमपर्यन्तेषु सूत्रान्तेषु प्रज्ञोपायरूपा प्रतिपत्तिरनुगन्तव्या ।

तत्र यदि नाम लोकोत्तरप्रज्ञावस्थायामुपायसेवना न सम्भवति, उपायसेवनाकाले तु बोधिसत्त्वस्य मायाकारवदविपर्यस्तत्वात्लोकोत्तरज्ञानात्प्रयोगपृष्ठभावनि यथावद्वस्तुपरमार्थतत्त्वाभिनिवेशनी प्रज्ञासम्भवत्येवेति, भवत्येव प्रज्ञोपाययुगनद्धवाही मार्गः । आर्यक्षयमतिनिर्देशे च ध्यानाक्षयतया प्रज्ञोपाययुगनद्धवाही मार्गोऽनुगन्तव्यः । एवमनेन क्रमेण बोधिसत्त्वस्य प्रज्ञामुपायं च सततं सत्कृत्य दीर्घकालाभ्यासेन भावयतो द्वादशावस्थाविशेषा भवन्ति । ता एवावस्था उत्तरोत्तरगुणप्रतिष्ठार्थेन भूमयो व्यवस्थाप्यन्ते । अधिमुक्तिचर्याभूमेर्यावद्बुद्धभूमिरिति ।

तत्र यावत्पुद्गलधर्मनैरात्म्यत्वं न साक्षात्करोति, केवलं दृढतराधिमुक्तिः । मारादिभिरप्यभेद्यो यदाधिमुक्तिबलेन तत्त्वं भवयति, तदा (१९६) दृढाधिमुक्तितोऽधिमुक्तिचर्याभूमिर्व्यवस्थाप्यते । अस्यामपि भूमौ वर्तमानो बोधिसत्त्व पृथग्जनोऽपि सर्वबालविपत्तिसमतिक्रान्तोऽसंख्येयसमाधिधारणीविमोक्षाभिज्ञादिगुणान्वित आर्यरत्नमेघे पठ्यते ।

अस्या एव च मृदुमध्याधिमात्राधिमात्रतरावस्थाचतुष्टयेन चत्वारि निर्वेधभागीयानि व्यवस्थाप्यन्ते । तथा हि यदा [बाह्यार्थ विभावयता] ईषत्स्पष्टो ज्ञानालोको भवति तदा उष्मगतनामकं निर्वेधभागीयं भवति । स चात्र महायान आलोकलब्धसमाधिरुच्यते । यदा तु स एव ज्ञानलोको मध्यमस्पष्टो भवति, तदा मूर्धनामकनिर्वेधभागीयं भवति, वृद्धालोकश्च समाधिरुच्यते । यदा तु स्पष्टतरो बाह्यार्थानाभासज्ञानालोको जायते, तदा विज्ञप्तिमात्रावस्थानात्क्षान्तिनामकं निर्वेधभागीयं भवति । एकदेशप्रविष्टश्च समाधिरुच्यते । ग्राह्यकारानुपलम्भप्रवेशात् । यदा तु ग्राह्यग्राहकाकाररहितमद्वयं ज्ञानं विभावयेत्तदाग्रधर्माख्यं निर्वेधभागीयं भवति । आनन्तर्यश्च स समाधिरुच्यते, तदनन्तरमेव तत्त्वप्रवेशात् । अत्र तावदधिमुक्तिचर्याभूमि ।

इतरास्तु भूमयः संक्षेपत एकादशाङ्गपरिपूरिता व्यवस्थाप्यन्ते । तत्र प्रथमा भूमिः प्रथमं पुद्गलधर्मनैरात्म्यतत्त्वाधिगमाङ्गपरिपूरिता व्यवस्थाप्यते । तथा हि यदाग्रधर्मानन्तरं प्रथमतरं लोकोत्तरं सर्वप्रपञ्चरहितं सर्वधर्मनिःस्वभावतासाक्षात्कारि स्फुटतरं ज्ञानमुत्पद्यते, तदा बोधिसत्त्वः सम्यक्त्वन्ययाभावक्रान्तितो दर्शनमार्गोत्पादात्प्रथमां भूमिं प्रविष्टो भवति । अत एवास्यां भूमौ प्रथमतोऽनधिगततत्त्वाधिगमाद्बोधिसत्त्वः प्रमुदितो भवति । तत एषा भूमिः प्रमुदितेत्युच्यते । अत्र च द्वादशोत्तरं दर्शनहेयं क्लेशशतं प्रहीयते ।

(१९७)
शेषास्तु भूमयो भावनामार्गस्वभावाः । तासु भावनाहेयास्त्रैधातुकाः षोडश क्लेशाः प्रहीयन्ते । अस्यां च भूमौ बोधिसत्त्वस्य धर्मधातुसमुदागमताप्रबोधात्स्वार्थ इव पराथे प्रवर्तनाद्दानपारमितातिरिक्ततरा भवति । स च बोधिसत्त्वः समधिगततत्त्वोऽपि वा यावन्न् शक्नोति सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारि भवितुं तावत्प्रथमा भूमिः । यदा तु शक्नोति, तदास्याङ्गस्य परिपूरितो द्वितीया भूमिर्व्यवस्थाप्यते । अत एवास्यां भूमौ सूक्ष्मापत्तिस्खलितसमुदाचारात्शीलपारमितातिरिक्ततरा भवति । सर्वदौश्शील्यमलापगमादियं भूमिर्विमलेत्युच्यते ।

स सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारी भवति । यावन्न शक्नोति सकललौकिकं समाधिं समापत्तुं यथाश्रुतं चार्थमाधर्त्तुं तावद्द्वितीयैव भूमिः । यदा शक्नोति, तदा तस्याङ्गस्य परिपूरितस्तृतीया भूमिर्व्यवस्थाप्यते । अस्यां च भूमौ बोधिसत्त्वस्य श्रुतधारण्या सर्वलौकिकसमाध्याभिनिर्हारार्थं सर्वदुःखसहनात्, क्षान्तिपारमितातिरिक्ततरा भवति । तेषां समाधीनां लाभादिय भूमिरप्रमाणं लोकोत्तरं ज्ञानावभासं करोतीति प्रभाकरीत्युच्यते ।

स प्रतिलब्धलौकिकसकलसमाधिरपि यावन्न् शक्नोति यथाप्रतिलब्धैर्बोधिपक्षैर्धर्मैर्बहुलं विहर्तुं सर्वसमापत्तीनां च चित्तमुपेक्षितुं तावत्तृतीया भूमिः । यदा तु शक्नोति तदा तस्याङ्गस्य परिपूरितश्चतुर्थी भूमिर्व्यवस्थाप्यते । अस्यां भूमौ बोधिसत्त्वस्याभीक्ष्णं कायवाङ्मनोजल्पसमतिक्रमणाअय बोधिपक्षैर्धर्मैर्विहरणात्, विर्यपरमितातिरिक्ततराभवति । इयं च सकलक्लेशेन्धनदाहसमर्थस्य बोधिपक्षधर्मार्चिष उद्गतत्वादर्चिष्मतीत्युच्यते ।

सोऽभीक्ष्णं बोधिपक्षधर्मविहारी भवति । यावन्न शक्नोति सत्यानि भावयन् संसारानभिमुखं निर्वाणाभिमुखं च चेतो व्यावर्तयितुमुपायसंगृहीतान् (१९८) बोधिपक्षान् धर्मान् भावयितुम्, तावच्चतुर्थी भूमिः । यदा तु शक्नोति तदास्याङ्गस्य परिपूरितः पञ्चमी भूमिर्व्यवस्थाप्यते । अत एवास्यामियमुपायसंगृहीता बोधिपक्षभावना [परिपूरितेन] सुष्ठु दुःखेन जीयते अभ्यस्यता इति सुदुर्जयेत्युज्यते ।

अस्यां चार्यसत्याकारभावनाबहुलीकाराद्ध्यानपारमिता अतिरिक्ततरा भवति । उपयसंगृहीतबोधिपक्षबहुलविहारी च भवति । यावद्न शक्नोति संसारप्रवृत्तिप्रत्यवेक्षणान्निर्वित्सहया चित्तसन्तत्यानिमित्तविहारं समापत्तुं तावत्पञ्चमी भूमिः । यदा शक्नोति तदास्याङ्गस्य परिपूरितः षष्ठी भूमिर्व्यवस्थाप्यते । अस्यां च बोधिसत्त्वस्य प्रतीत्यसमुत्पादभावनाविहारात्प्रज्ञापारमितातिरिक्ततरा भवति । अत एव प्रज्ञापारमिताया अतिरिक्ततरत्वात्सर्वबुद्धधर्मेषु अभिमुखोऽस्यां भूमौ वर्तत इति कृत्वा अभिमुखीत्युच्यते ।

सोऽनिमित्तविहारलाभी भवति । यावन्न शक्नोति निश्छिद्रमनिमित्तविहारं समापत्तुम्, तावत्षष्ठी भूमिः । यदा शक्नोति तदास्याङ्गस्य परिपूरितः सप्तमी भूमिर्व्यवस्थाप्यते । अस्यामपि भूमौ बोधिसत्त्वः सर्वनिमित्तं निर्निमित्तेन प्रतिविध्यति निमित्तकृतव्यवहारं च न विरोधयति । अतोऽस्यामुपायपारमितातिरिक्ततरा भवति । इयं च भूमिरनाभोगमार्गोपश्लेषात्सुष्ठु दूरङ्गमाद्दूरङ्गमा ।

स निश्छिद्रानिमित्ताविहारि भवति । यावन्न शक्नोत्यनाभोगवाहिनमनिमित्तविहारं समापत्तुं तावत्सप्तमी भूमिः । यदा शक्नोति तदास्याङ्गस्य परिपूरितोऽष्टमी भूमिर्व्यवस्थाप्यते । अस्यां च भूमौ अनाभोगेन कुशलपक्षयोगात्प्रणिधानपारमितातिरिक्ततरा भवति । अनिमित्ताभोगाप्रकम्प्यत्वादियमचलेत्युच्यते ।

(१९९)
सोऽनाभोगानिमित्तविहारी च भवति । यावन्न शक्नोति पर्यायनिरुक्त्यादिप्रभेदैः सर्वाकारसर्वधर्मदेशनायां वशीभवितुं तावदष्टमी भूमिः । यदा शक्नोति तदास्याङ्गस्य परिपूरितो नवमी भूमिर्व्यवस्थाप्यते । अस्यां च भूमौ बोधिसत्त्वस्य प्रतिसंविद्- विशेषलाभात्प्रज्ञाबलविशेषयोगाद्बलपारमितातिरिक्ततरा भवति । सर्वाकारधर्मदेशनाकौशलतोऽनवद्यमतिविशेषलाभात्साधुमती भूमिरुच्यते ।

अस्यां च प्रतिसंविच्चतुष्टयलभी भवति । यावन्न शक्नोति बुद्धक्षेत्रपर्षन्निर्माणादि दर्शयितुं परिपूर्णधर्मसम्भोगं सत्त्वपरिपाकं च कर्तुम्, तावद्नवमी भूमिः । यदा तु शक्नोति तदास्याङ्गस्य परिपूरितो दशमी भूमिर्व्यवस्थाप्यते । अस्यां च निर्माणादिना सत्त्वपरिपाचनाय ज्ञानविशेषयोगाद्बोधिसत्त्वस्य ज्ञानपारमितातिरिक्ततरा भवति । इयं च धर्मदेशनामेघैः अनन्तेषु लोकधातुषु धर्मप्रवर्षणाद्धर्ममेघेत्युच्यते । अपरैरपि स्कन्धपरिशुद्धयादिव्यवस्थापनैः भूमीनां व्यवस्थापनमस्ति, ग्रन्थविस्तरभयान्न लिखितम् ।

स प्रतिलब्ध- निर्माणादिवशितोऽपि यावन्न शक्नोति सर्वस्मिन् ज्ञेये सर्वाकारमसक्तम् । अप्रतिहतं ज्ञानमुत्पादयितुं तावद्दशमी भूमि । यदा शक्नोति तदास्याङ्गस्य परिपूरितो बुद्धभूमिर्व्यवस्थाप्यते । एतच्च भूमिव्यवस्थापनमार्यसंधिनिर्मोचने निर्दिष्टम् । अस्याश्च बुद्धभूमेः सर्वाकारसकलसंपत्प्रकर्ष्डपर्यन्तगमनान्नापरमुत्कृष्टं स्थानान्तरमस्ति [तस्मात्ततः परं नास्ति भूमिव्यवस्था] इति ।

अस्याश्च बुद्धमूमेर्गुणपक्षप्रभेदो बुद्धैरपि न शक्यते सर्वाकारं वक्तुम् । तस्या अप्रमेयत्वात्, कथं पुनः अस्मत्सदृशैः । यथोक्तमार्यगण्डव्यूहे-

(२००)
गुणैकदेश-पर्यन्त नाधिगच्छेत्स्वयंभुवः ।
निरीक्ष्यमाणो बुद्धोऽपि बुद्धधर्मा ह्यचिन्तियाः ॥ इति ।

एतावत्तु संक्षेपेण वक्तुं शक्यते । [स्वपरार्थसम्पत्तिप्रकर्षपर्यन्तगतः, अशेषदोषापगमनिष्ठां प्राप्य भगवान् बुद्धो धर्मकाये स्थित्वा सम्भोगनिर्माणकायाभ्यामनाभोगरूपेण अशेषजगदर्थ कुर्वन् यावत्संसारं विहरति ।

तस्मात्प्रेक्षवद्भिः सर्वगुणाकरेषु भगवत्सु श्रद्धा उत्पदनीया, तद्गुणपरिसाधनार्थं सर्वप्रकारेण प्रयतितव्यम् । त्रिकायदिविभागस्तु ग्रन्थविस्तरभयान्न लिख्यते ।

नयस्यानुसारेण सूत्रस्य चाठ सदुक्त्यास्य मार्गस्य जिनपुत्रकाणाम् ।
मयानल्पपुण्यं यदाप्तं च तेन परामेतु बुद्धिं जगन्मन्दमाशु ॥

भूपतिश्रीदेवराजवचनेन] कमलशीलेन भावनाक्रमस्य अयं संक्षेपः कृतः ।

भावनाक्रमः प्रथमः समाप्तः ।

"https://sa.wikisource.org/w/index.php?title=भावनाक्रमः/प्रथमः&oldid=366879" इत्यस्माद् प्रतिप्राप्तम्