बौधायनगृह्यसूत्रम्/गृह्यशेषः/प्रश्नः ३

विकिस्रोतः तः

BaudhGSS.3.1
अथ तृतीयप्रश्ने प्रथमो ऽध्यायः
अथातः पवित्राणां पवित्रायातिपवित्रायापराजिताय गुह्याय ब्रह्महृदयाय ओंकारकल्पं व्याख्यास्यामः ।१।
यत्र ग्राम्याणां पशूनां शब्दं नोपशृणुयादपां समीपे ब्रह्मवृक्षेणैकस्थूणां कुटीं प्राङ्मुखां कारयेत्।२।
कुशध्वजी कुशवेष्टी कुशचीरवासाः कुशोपवीतः कुशोपविष्टः कुशहस्तः कुशमेखलां धारयमाणः त्रिषवणस्नायी कुशशायी शाकयावकयोर्भैक्षाहार आदित्याभिमुखस्तिष्ठन्नोङ्कारं पञ्चसहस्रं जपेत्ततो ऽस्य मन्त्रास्सर्वे सिध्यन्ति सर्वे वेदा अधीता भवन्ति सर्वेषु वेदेषु चीर्णव्रतो भवति सर्वेषु तीर्थेषु स्नातो भवति सर्ववेदो ज्ञातो भवति सर्वैर्देवैर्ज्ञातो भवति सर्वयज्ञक्रतुभिरिष्टवान्भवत्याचक्षुषः पङ्क्तिं पुनाति मातापितृदोषैः पुरुषदोषैश्च निर्दोषः पूतो भवति चण्डालश्वपाकानां पुनाति ।३।
श्वेतायास्सरूपवत्सायाः पयसि स्थालीपाकं श्रपयित्वा ऽऽदित्याभिमुख ओङ्कारसहस्रेणाभिमन्त्रितं कृत्वा स्वयं प्राश्नीयात्सप्तानां पुरुषाणामलक्ष्मीं नुदति जातिस्मरत्वं लभते श्रियं देवीं भजते ब्रह्मचर्यमस्याविच्छिन्नं सन्ततं भवति ।४।
प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः वाङ्मयं प्रणवं सर्वं तस्मात्प्रणवमभ्यसेत्।५।
प्रणवेन विहीनं यत्तन्मन्त्रं प्राणहीनकम्सर्वमन्त्रेषु मन्त्राणां प्राणः प्रणव उच्यते ।६।
इत्याह भगवान्बोधायनः ।७।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने प्रथमो ऽध्यायः
BaudhGSS.3.2
अथ तृतीयप्रश्ने द्वितीयो ऽध्यायः
अथातो व्याहृतिकल्पं व्याख्यास्यामः त्रिषवणं स्नायादवश्शय्यासनस्त्रिरात्रमहोरात्रं वोपोष्य द्वादशसहस्रं व्याहृतीर्जपेत्।१।
कृतपुरश्चरणो ऽथ कर्माण्यारभते ।२।
दधिमधुघृताक्तानां पलाशसमिधामाहुतिसहस्रं जुहुयाद्ब्रह्मवर्चसकाम आज्येन तेजस्कामः पयसा पशुकामो दध्ने ऽन्द्रियकाम ओदनेनान्नाद्यकामो व्रीहिभिर्यवैर्धान्यकामः कन्याकामो लाजैस्तिलै राक्षोघ्नं पापनाशनं च सद्य एव विनश्यति ज्वरो वानस्पत्यानां न्यग्रोधैः पुत्रकामः प्लक्षैर्गृहकामो ऽश्वत्थैः पुष्टिकामश्शमीमयैश्शान्तिकामो ऽपामार्गैर्वश्यकामः खादिरैराधिपत्यकामो ऽर्कसमिद्भिरर्थकामः पलाशसमिद्भिस्सर्वकामः ।३।
यावज्जुहोति तावदाप्नोतीति ह स्माह भगवान्बोधायनः ।४।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने द्वितीयो ऽध्यायः
BaudhGSS.3.3
अथ तृतीयप्रश्ने तृतीयो ऽध्यायः
अथातो दुर्गाकल्पं व्याख्यास्यामः यज्ञोपवीतं रक्तपद्मपुष्पं सम्भारानुपकल्प्य मासिमासि कृत्तिकापूर्वाह्णे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा प्रोक्ष्य शौचेन सुव्रतस्तिष्ठन्भगवतीमावाहयेत्जातवेदसे इति ओमार्यां रौद्रीमावाहयामि इत्यावाह्य तामग्निवर्णां इति कूर्चं दत्वा अग्ने त्वं पारय इति यज्ञोपवीतं दत्वा ऽथैनां स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानः इत्येतेनानुवाकेन मार्जयित्वा आर्यायै रौद्र्यै महाकाऌयै महायोगिन्यै सुवर्णपुष्प्यै देवसङ्कीर्त्यै महायज्ञ्यै महावैष्णव्यै महापृथिव्यै मनोगम्यै शङ्खधारिण्यै नमः इत्येकादशनामधेयैर्गन्धपुष्पधूपदीपैः अमुष्यै नमो ऽमुष्यै नमः इत्येतैरेवार्चयित्वा सावित्र्या भगवत्यै दुर्गादेव्यै हविर्निवेदयामि इति हविर्निवेद्य शेषमेकादशनामधेयैर्हुत्वा पञ्चदुर्गा जपेद्दश स्वस्ति जपेत्जातो यदग्ने वषट्ते विष्णो वास्तोष्पते एवावन्दस्व आ नो नियुद्भिः हिरण्यवर्णाः अभयं कृणोतु अश्वावतीः त्वं वरुणः बृहस्पते युवमिन्द्रश्च स्वस्ति न इन्द्रो वृद्धश्रवाः इति जपित्वा शं च मे मयश्च मे इत्येतैरेकादशभिरनुवाकैश्च जपेत्सावित्र्या भगवत्यै दुर्गादेव्यै हविरुद्वासयामि इत्युद्वास्य शेषं ब्राह्मणेभ्यो दत्वा संवत्सरमुपासीत ।१।
सर्वकामास्सिध्यन्तीत्याह भगवान्बोधायनः ।२।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने तृतीयो ऽध्यायः
BaudhGSS.3.4
अथ तृतीयप्रश्ने चतुर्थो ऽध्यायः
अथात उपश्रुतिकल्पं व्याख्यास्यामः आदित्यवारे ऽङ्गारकवारे वा चतुर्थ्यामष्टम्यां चतुर्दश्यां भरण्यां कृत्तिकायां वा क्रियेत ।१।
पूर्वेद्युरकृतभुक्तिश्शुचिर्ब्रह्मचारी भूत्वा ऽथ प्रदोषे ऽग्निमुपसमाधाय सम्परिस्तीर्य तस्य दक्षिणत उपश्रुतिमावाहयेतों भूः रात्रीं देवीमावाहयाम्यों भुवरुपश्रुतिं देवीमावाहयाम्यों सुवर्महारात्रीं देवीमावाहयाम्यों भूर्भुवस्सुवः महाकाऌअरात्रीं देवीमावाहयामि इत्यावाह्याथैनां स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानः इत्येतेनानुवाकेन मार्जयित्वा गन्धैः कृष्णपुष्पैर्धूपैर्दीपैरलंकृत्याज्यं संस्कृत्य जुहोति रात्र्यै देव्यै स्वाहोपश्रुत्यै देव्यै स्वाहा महारात्र्यै देव्यै स्वाहा महाकाऌअरात्र्यै देव्यै स्वाहा निशायै स्वाहा क्षपायै स्वाहा कृष्णायै स्वाहा ऽन्धकारिण्यै स्वाहा यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां च जुहोति ।२।
अथ समन्तं परिषेकं कृत्वा रात्रिसूक्तेनोपतिष्ठते ।३।
व्याहृतीभिः रात्रीं देवीमुद्वासयामि इत्युद्वास्याथ व्रजेत्श्मशानदेशे देवागारे श्रोत्रियागारे कुलालकारुदेशे वा गच्छेत्।४।
नवधनुर्मात्रात्कर्णौ बध्नाति ।५।
स्वस्ति न इन्द्रो वृद्धश्रवाः इत्येतामृचं जपित्वा विमुञ्चेद्व्यक्तं तत्प्रतिगृह्यतामनुरूपं युज्यतां सर्वकर्मणां चारम्भ इत्याह भगवान्बोधायनः ।६।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने चतुर्थो ऽध्यायः
BaudhGSS.3.5
अथ तृतीयप्रश्ने पञ्चमो ऽध्यायः
अथातश्श्रीकल्पं व्याख्यास्यामः शुक्लपक्षस्य पञ्चम्यां पौर्णमास्यामपि वा श्रियं कदम्बमयीं बिल्वसारमयीं स्थण्डिले वा विधायाहोरात्रोपोषितश्शुचिः कृतशौचस्समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य गन्धमुमनसस्सम्प्रकीर्य हिरण्मयेन पात्रेणोदकं पूरयित्वा गन्धान्सुमनसः तस्मिन्हिरण्यवर्णां हरिणीमिति द्वाभ्यां ओं भूः श्रियमावाहयामि ओं भुवः श्रियमावाहयामि ओं सुवः श्रियमावाहयामि ओं भूर्भुवस्सुवः श्रियमावाहयामि इत्यावाह्य कर्दमेन इति द्वाभ्यां प्रसिद्धं प्रोक्ष्य अश्वपूर्वां इति स्नापयित्वा गन्धद्वारामिति गन्धं ददाति कां सो ऽस्मि तामिति पुष्पं ददाति उपैतु मामिति धूपं ददाति चन्द्रां हिरण्मयीमिति दीपं ददाति चन्द्रां प्रभासामिति नैवेद्यं ददाति ।१।
अथ देव्या दक्षिणतो ऽग्निमुपसमाधाय सम्परिस्तीर्य महाव्रीहिभिस्तण्डुलैः पायसं चरुं श्रपयित्वा हविर्द्विधा कृत्वा मनसः काममित्यभिप्रेत्य काममन्नं वा ऽऽज्यमिश्रं श्रीसूक्तेन पञ्चदशर्चेन हविर्जुहोति ।२।
तेन सूक्तेन श्रियै नमः पुष्ट्यै नमो धात्र्यै नमस्सरस्वत्यै नमः इति बलिमुपहरति ।३।
पद्मपुष्पाणि यथालाभं गृहीत्वा प्रत्यङ्गं निमार्ष्टि क्षुत्पिपासामित्यलक्ष्मीं निर्णुदति ।४।
एवमेवाहरहर्मासिमासि वा महान्तं पोषं पुष्यति धन्यं यशस्यमारोग्यमायुष्यं पुत्र्यं पशव्यं तस्य महत्स्वस्त्ययनमित्याह भगवान्बोधायनः ।५।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने पञ्चमो ऽध्यायः
BaudhGSS.3.6
अथ तृतीयप्रश्ने षष्ठो ऽध्यायः
अथातस्सरस्वतीकल्पं व्याख्यास्यामः शुक्लपक्षे त्रयोदश्यां वोत्तरयोः फल्गुन्योर्वा पुण्ये नक्षत्रे ऽथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा ऽग्रेणाग्निं सरस्वतीमावाहयति आयातु वरदा देव्यक्षरं ब्रह्मसम्मितम्।गायत्रीं छन्दसां मातेदं ब्रह्म जषस्व नः ।१।
सरस्वतीमावाहयामि इत्यावाह्यात्र स्थानानि कल्पयति वाग्देव्यै कल्पयामि गीर्देव्यै कल्पयामि सरस्वत्यै कल्पयामि ब्राह्म्यै कल्पयामि इति ।२।
अथैनाः स्नापयति आपो हिष्ठा मयो भुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा ऽद्भिस्तर्पयित्वैतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्यै नमो ऽमुष्यै नमः इति परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति पायसं वा चोदयित्री सूनृतानां पावीरवी कन्या इति द्वाभ्याम्।३।
अथाज्याहुतीरुपजुहोति प्रणो देवी आ नो दिवः ये ते सरस्व ऊर्मयः उत नः प्रिया प्रियासु इमा जुह्वाना यस्ते स्तनश्शशयः देवीं वाचमजनयन्त यद्वाग्वदन्ती इत्येतेन सूक्तेन ।४।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।५।
आथाग्रेणाग्निं पलाशपर्णेषु हुतशेषं निवेदयित्वा बाह्यबलिं दत्वोदेत्यापरेणाग्निं प्राङ्मुखं कुमारमुपवेश्य विद्यारम्भं कुरुते ।६।
अनन्तरं देवीमुद्वासयेतुत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि ।ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छ देवि यथासुखम्।७।
इति पुनरागमनाय पुनर्दानाय ।८।
एवमेव मासि मासि विद्याकांक्षी सरस्वतीमाराधयेदित्याह भगवान्बोधायनः ।९।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने षष्ठो ऽध्यायः
BaudhGSS.3.7
अथ तृतीयप्रश्ने सप्तमो ऽध्यायः
अथातो विष्णुकल्पं व्याख्यास्यामः आषाढकार्तिकफाल्गुनशुक्लपक्षेषु द्वादश्यां यदा श्रद्धा भवत्यहोरात्रमुपोषितश्श्वोभूते प्राग्वोदग्वा ऽरण्ये शुचिर्गृहे वा यत्र रोचते मनस्तत्र स्थण्डिले ऽग्निमुपसमाधाय संपरिस्तीर्याप्रणीताभ्यः कृत्वा सिद्धे पायसे यत्ते पवित्रं पवित्रं ते विततमित्युदाहृत्य ओमिति विद्युद्गन्धोशीरमयं भगवन्तं श्वेतपीतरक्तप्रतिसरेणावेष्ठ्य स्थापयित्वावाहयेतों भूः पुरुषमावाहयाम्यों भुवः पुरुषमावाहयाम्यों सुवः पुरुषमावाहयाम्यों भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य प्रसिद्धमासनस्नानपाह्याचमनीयानि दद्यात्सर्वसुरभिगन्धपुष्पधूपदीपमाल्यैरभ्यर्च्य यथोपपन्नं बर्हिष्यश्वत्थपर्णे प्रस्तरे गोभिर्जुष्टमिति धूपभाजने न्यस्यति ।१।
ततष्षोडशाज्याहुतीर्जुहोति पुरुषसुक्तेन परो मात्रया इति तिसृभिः ।पवमानमुपनिनीय चरोराज्यमिश्रं चतस्रः आहुतीर्जुहोति वासुदेवाय स्वाहा बलदेवाय स्वाहा विष्णवे स्वाहा श्रियै स्वाहा इति ।२।
स्विष्टकृतमवदायान्तः परिधि सादयित्वा दैवतमर्चयत्येतैरेव नामधेयैः अमुष्मै नमो ऽमुष्मै नमः इति गन्धपुष्पधूपदीपैरन्नेन अमुष्मै स्वाहा ऽमुष्मै स्वाहा इति फलोदकेन अमुं तर्पयाम्यमु तर्पयामि इति स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।३।
आभिर्विश्वा अभियुजः इति जानुं निपात्य चतुःप्रदक्षिणं परिक्रामेत्विश्वभुजे नमः ।सर्वभुजे नमः ।आत्मने नमः ।परमात्मने नमः इति ।ध्रूवसूक्तं जपित्वा पुरुषमुद्वासयेतों भूः पुरुषमुद्वासयाम्यों भुवः पुरुषमुद्वासयाम्यों सुवः पुरुषमुद्वासयाम्यों भूर्भुवस्सुवः पुरुषमुद्वासयामि इत्युद्वास्य यत्रापस्तद्गत्वोत्सृजेदवभृथम्।४।
प्रतत्ते अद्य किमित्ते विष्णो परिचक्ष्यं भूतिति द्वाभ्यां प्रतिसरं विस्रंसयति ।५।
इदं विष्णुर्विचक्रमे इत्येतया चरुं प्राश्नाति ।६।
एवं घोषयेत्यो वैष्णव इत्याह वैष्णवो ऽस्मि इति यः प्रतिब्रूयात्तस्मै शेषं दद्यादेतैरेव मन्त्रैः प्राश्नाति ।७।
प्राश्याप आचम्य ओं नमो भगवते वासुदेवाय इति द्वादशाक्षरं जपित्वा ऽश्वमेधफलमाप्नोति सकृदिष्ट्वा सनातनमिति ।८।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने सप्तमो ऽध्यायः
BaudhGSS.3.8
अथ तृतीयप्रश्ने अष्टमो ऽध्यायः
अथातो रविकल्पं व्याख्यास्यामः मण्डलं चतुरश्रं वा गोमयेन गोचर्ममात्रं स्थण्डिलं कृत्वा ऽष्टाचत्वारिंशत्कृत्वो रविवारे ताम्रपात्रे रक्तगन्धं रक्तपुष्पं वा घृणिम्सूर्य आदित्यः इत्यावाह्य आसत्येन इत्यर्घ्यं दद्यात्हंसश्शुचिषतिति पाद्यं अग्निर्मूर्धा इत्याचमनीयम्।आपो हिष्ठा मयोभुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा ऽद्भिस्तर्पयति धातारं तर्पयामि विधातारं तर्पयामि अर्यमणं तर्पयामि मित्रं तर्पयामि वरुणं तर्पयामि भगवन्तं तर्पयामि हसं तर्पयामि पूषाणं तर्पयामि पर्जन्यं तर्पयामि विवस्वन्त तर्पयामि इन्द्रं तर्पयामि रविं तर्पयामि इत्येतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्मै नमो ऽमुष्मै नमः इति ।व्याहृतीभिः पुरुषमुद्वासयामि इत्युद्वास्याथापूपं दद्यादष्टाचत्वारिंशत्।१।
एकवारमर्चयित्वा कुष्ठरोगी क्षयरोगी ।२।
वन्धाद्विमुच्यते बद्धो रोगी रोगाद्विमुच्यते ।३।
इत्याह भगवान्बोधायनः ।४।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने अष्टमो ऽध्यायः
BaudhGSS.3.9
अथ तृतीयप्रश्ने नवमो ऽध्यायः
अथातो ज्येष्ठाकल्पं व्याख्यास्यामः तिलतैलमाज्यं पयोदधिसक्तून्लाजान्करम्भान्कृष्णानि वासांसीति सम्भारानुपकल्पयते ।१।
प्रोष्ठपदायामनूराधायां वा ऽहविष्यं भुञ्जीत ।२।
अथ श्वोभूते ज्येष्ठामनुस्मरन्नुत्थाय देवागारे रहस्यप्रदेशे वा यत्र रोचते मनस्तत्र स्थण्डिलं कृत्वा ऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा ऽग्रेणाग्निं ज्येष्ठादेवीमावाहयति यस्यास्सिंहा रथे युक्ता व्याघ्राश्चाप्यनुगामिनः ।तामिमां पुण्डरीकाक्षीं ज्येष्ठामावाहयाम्यहम्।३।
इत्यावाह्य इह लोकाकीर्तये नमः ।परलोकाकीर्तये नमः ।श्रियै नमः ।ज्येष्ठायै नमः ।सत्यायै नमः ।कपिलपत्न्यै नमः ।कपिलहृदयायै नमः ।कुम्भ्यै नमः ।कुम्भिन्यै नमः ।प्रकुम्भ्यै नमः ।ज्यायायै नमः ।वरदायै नमः ।हस्तिमुखायै नमः ।विघ्नपार्षदायै नमः ।विघ्नपार्षद्यै नमः इति तर्पयति ।४।
आपो हिष्ठा मयोभुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा तैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्यै नमो ऽमुष्यै नमः इति परिधानप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति इन्द्रो ज्येष्ठामनु नक्षत्रमेति इति पुरोनुवाक्यामनूच्य पुरन्दराय वृषभाय धृष्णवे इति याज्यया जुहोति ।५।
अथाज्याहुतीरुपजुहोति इन्द्राय स्वाहा ।ज्येष्ठाय स्वाहा ।श्रेष्ठाय स्वाहा ।प्रजापतये स्वाहा इति ।नमस्सुते निरृते इति षड्भिरनुच्छन्दसम्।६।
अथ कुत्सैर्जुहोति ।७।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां भूर्भुवस्सुवरों ज्येष्ठायै हविर्निवेदयामि इति निवेदयति ।८।
अथ दिशां बलिं हृत्वा गन्धमाल्ये द्वे वाससी निवेद्यं दत्वा ऽन्नं च ब्राह्मणेभ्यो दत्वा नमस्सुते निरृते इति षड्भिरुपस्थाय स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।९।
यस्यास्सिंहा रथे युक्ता व्याघ्राश्चाप्यनुयायिनः ।तामिमां पुण्डरीकाक्षीं ज्येष्ठामुद्भासयाम्यहम्।१०।
इत्युद्वास्य ज्येष्ठामन्त्रं सहस्रकृत्वः आवर्तयेच्छतकृत्वो ऽपरिमितकृत्वो वा दशावरम्।११।
शाकयावकभैक्षमूलफलाशी अधश्शायी श्वोभूते तथैवाभ्यर्च्य षण्मासादूर्ध्वं समाचरन्नित्यानामाशास्यान्सर्वान्कामानवाप्नोतीति ह स्माह भगवान्बोधायनः ।१२।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने नवमो ऽध्यायः
BaudhGSS.3.10
अथ तृतीयप्रश्ने दशमो ऽध्यायः
अथातो विनायककल्पं व्याख्यास्यामः मासिमासि चतुर्थ्यां शुक्लपक्षस्य पञ्चम्यां वा ऽभ्युदयादौ सिद्धिकामः ऋद्धिकामः पशुकामो वा भगवतो विनायकस्य बलिं हरेत्।१।
पूर्वेद्युः कृतैकभुक्तः शुचिरप आचम्याथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा दक्षिणामुखं हस्तिमुखं दक्षिणतो ब्राह्मणमुपवेश्योपोत्थाय दैवतमावाहयति विघ्न विघ्नेश्वरागच्छ विघ्नेत्येव नमस्कृत अविघ्नाय भवान्सम्यक्सदा ऽस्माकं भव प्रभो इति ।२।
अथ दूर्वाक्षतसुमनोमिश्रमर्घ्यं ददाति इमा आपश्शिवाश्शिवतमाश्शान्ताश्शान्ततमाः पूताः पूततमाः पुण्याः पुण्यतमाः मेध्या मेध्यतमा जुष्टा जुष्टतमा अमृता अमृतरसाः पाद्या अर्घ्या अर्हणीया अभिषेचनीया आचमनीया मार्जनीयाश्च प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान्विनायको विनायकाय नमः इति ।३।
अथ तूष्णीं वा गन्धपुष्पधूपदीपैरभ्यर्च्योपतिष्ठते भूपतये नमो भुवनपतये नमो भूतानां पतये नमः इति ।४।
उपस्थाय तिस्रो विनायकाहुतीर्जुहोति विनायकाय भूपतये नमो विनायकाय स्वाहा ।विनायकाय भुवनपतये नमो विनायकाय स्वाहा ।विनायकाय भूतानां पतये नमो विनायकाय स्वाहा इति ।जयप्रभृति सिद्धमाधेनुवरप्रदानात्।५।
अपूपं करभ्भमोदकम्सक्तून्पायसमित्यथास्मा उपहरति विघ्नाय स्वाहा ।विनायकाय स्वाहा ।वीराय स्वाहा ।शूराय स्वाहा ।उग्राय स्वाहा ।भीमाय स्वाहा ।हस्तिमुखाय स्वाहा ।वरदाय स्वाहा ।विघ्नपार्षदेभ्यस्स्वाहा ।विघ्नपार्षदीभ्यस्स्वाहा इति ।६।
अथ भूतेभ्यो बलिमुपहरेत्ये भूताः प्रचरन्ति इति ।७।
अथ पञ्चसूत्रं कङ्कणं हस्ते व्याहृतिभिः बध्नाति विनायक महाबाहो विघ्नेश भवदाज्ञया ।कामा मे साधितास्सर्वे इदं बध्नामि कङ्कणमिति ।८।
अथ साग्निकं विनायकं प्रदक्षिणं कृत्वा प्रणम्याभिवाद्य विनायकं विसर्जयति कृतं यदि मया प्राप्तं श्रद्धया वा गणेश्वर ।उत्तिष्ठ सगणस्साधो याहि भद्रं प्रसीदतोमिति ।९।
तस्मिन्याते द्वादशेध्मसमिद्धेनोपरि मध्यमं चैव दक्षिणोर्ध्वं समिधं तथा दधिमधुपयआज्यं स्नमिश्र्य परिषेचनं विसर्जनं कल्पयति ।१०।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने दशमो ऽध्यायः
BaudhGSS.3.11
अथ तृतीयप्रश्ने एकादशो ऽध्यायः
अथातो मृत्युंजयकल्पं व्याख्यास्यामः जन्मनक्षत्रे पुण्ये नक्षत्रे त्रिजन्मनि वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ऽथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा सावित्र्या पक्वं हुत्वा प्रादेशमात्रास्तिस्रस्तिस्रो दूर्वा एकां समिधमाहृत्य अष्टसहस्रमष्टशतमष्टाविंशतिर्वा दधिमधुघृतपयांसि समुदायुत्याभ्यज्यादधाति अपैतु मृत्युः परं मृत्यो मा नो महन्तं मा नस्तोके त्रियम्बकं ये ते सहस्रमित्यष्टषष्टिशतकृत्व आवर्तयेत्तदानीं अष्टसहस्रं संपद्यते ।१।
अथाज्याहुतीरुपजुहोति मृत्युर्नश्यत्वायुर्वर्धतां भूस्स्वाहा ।मृत्युर्नश्यत्वायुर्वर्धतां भुवस्स्वाहा ।मृत्युर्नश्यत्वायुर्वर्धतां सुवस्स्वाहा ।मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवस्सुवस्स्वाहा इति ।२।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।३।
अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति तच्छं योरावृणीमहे इति ।४।
अथ दक्षिणां ददाति धेनुमृषभमनड्वाहं कंसं हिरण्यं वासो वेत्यपपुनर्मृत्युं जयतीति ह स्माह भगवान्बोधायनः ।५।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने एकादशो ऽध्यायः
BaudhGSS.3.12
अथ तृतीयप्रश्ने द्वादशो ऽध्यायः
अथातो ऽभिवृद्धिकल्पं व्याख्यास्यामः ग्रामस्य देवतायतनस्य गृहस्य वा सारतमक्षेत्रेषु वा भूतिमिच्छन्पूर्वपक्षे स्थिरराशौ स्थिरमुहूर्ते ब्रह्मस्थाने इन्द्रस्येशानस्य वा दिशि जानुदघ्नमवटं खात्वा गोमयेन गोचर्ममात्र चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य सैकतेनावकीर्य मध्ये पद्मपत्र लिखित्वा कुशाग्रेण पञ्चगव्येन आपो हिष्ठा मयोभुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेनानुवाकेन व्याहृतीभिः प्रोक्ष्य सुमनसो ऽवकीर्याशिषो वाचयित्वा पद्ममध्ये सैकतेन स्थण्डिलं कृत्वा ऽग्निमुपसमाधाय संपरिस्तीर्य परिधानप्रभृत्या ऽग्निमुखात्कृत्वा मध्ये ऽग्नौ मनसा पद्मासनं ध्यात्वा श्रियमावाहयति गन्धद्वारामित्येतयर्चा गन्धादिभिरन्वाराध्य बिल्वसमिद्भिः श्रीसूक्तेन हुत्वा पक्वाज्जुहोति वास्तोष्पते वास्तोष्पते इति द्वाभ्याम्।१।
अथाज्याहुतीरुपजुहोति ब्रह्म जज्ञानमिति षड्भिरनुच्छन्दसम्।२।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।३।
अथाग्रेणाग्निं पुष्करपर्णेषु हुतशेषं निदधाति यत्पर्यपश्यतिति ।४।
पुष्करपर्णं प्रक्षाऌय पञ्चगव्येन मथितेन पूरयित्वा गन्धादिभिस्संपूज्य श्रीसूक्तेन स्वक्षेत्राणि प्रोक्षतीत्याह भगवान्बोधायनः ।५।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने द्वादशो ऽध्यायः
BaudhGSS.3.13
अथ तृतीयप्रश्ने त्रयोदशो ऽध्यायः
अथातश्शिथिलीकल्पं व्याख्यास्यामः गृहसीमान्तचतुरश्रदिग्विधानेनान्तश्चोत्तरविधिः ।१।
गृहमध्ये शिथिली जायते सप्ताहात्शुभकरं भवस्यत ऊर्ध्वं प्रजानां व्याधिपीडनं करोति यत इन्द्र भयामहे इति पलाशसमिद्भिरष्टोत्तरशतं जुहुयात्हविष्यमाज्यं च दोषमपहरति ।२।
इन्द्रदिग्भागे शिथिली जायते सकुटुम्बस्य महद्भयं भवति सदसस्पतिमिति मन्त्रेन खादिरसमिद्भिर्जुहुयात्।३।
अग्निदिग्भागे शिथिली जायते सप्ताहात्सुहृदागमनं भवत्यत ऊर्ध्वं राजक्षोभं करोति अयमु ते समुतसि कपोत इव गर्भधिम्।वचस्तच्छिन्न ओजसे स्वाहा इत्यौदुम्बरसमिद्भिर्जुहुयात्।४।
यमदिग्भागे शिथिली जायते ऽष्टाहादर्थलाभमाप्नोति तत ऊर्ध्वं भार्यामरणं करोति प्लक्षसमिद्भिस्त्रियम्बकेन जुहोति ।५।
निरृतिदिग्भागे शिथिली जायते त्र्यहाद्वृष्टिं करोति तत ऊर्ध्वं भार्यानाशं करोत्यपामार्गसमिद्भिः प्रजापते न त्वतिति मन्त्रेण जुहोति ।५।
वरुणदिग्भागे शिथिली जायते गर्भलाभं करोत्यत ऊर्ध्वं चोरभयं कुर्याद्दूर्वासमिद्भिः गणानां त्वा इति जुहोति ।७।
वायुदिग्भागे शिथिली जायते कन्यादोषमुपजायते दूर्वासमिद्भिः सप्त ते अग्ने इति जुहोति ।८।
सोमदिग्भागे शिथिली जायते शत्रुखादनं करोत्यत ऊर्ध्वं धान्यनाशं करोति वटसमिद्भिरघोरमन्त्रेण जुहोति ।९।
ईशानदिग्भागे शिथिली जायते गृहपतेर्व्याधिपीडनं करोति येषामीशे इति शमीसमिद्भिर्जुहोति ।१०।
द्वारप्रदेशे शिथिली जायते गृहिणीनाशं करोति बिल्वसमिद्भिस्त्रियम्बकेन जुहोति ।११।
शयनप्रदेशे शिथिली जायते गृहपतेर्मरणं करोति व्याहृतीभिर्यवैर्जुहोति ।१२।
गोमहिषस्थाने शिथिली जायते प्रजानां चक्षुर्नाशं करोति व्याहृतीभिर्यवैर्जुहोति ।१३।
जलभाण्डस्थाने शिथिली जायते दासवर्गनाशं करोति सप्तव्याहृतीभिर्यवैर्जुहोति ।१४।
देवालये शिथिली जायते ग्रामे ऽग्निभयं करोति बिल्वसमिद्भिस्त्रियम्बकमन्त्रेण जुहोति ।१५।
सभास्थाने शिथिली जायते ग्रामस्य सकुटुम्बस्याध्रुवं कुर्यादात्वाहार्षसूक्तेन दूर्वाभिर्जुहोति ।१६।
देवालये सभास्थाने तटाके गृह एव वा उत्पन्ने रक्तवल्मीके कुर्यात्तस्य प्रतिक्रियाम्।१७।
समिद्भिस्सर्पिषा चैव हविषा तिलसर्षपैः कुर्याद्व्याहृतिमन्त्रेण होममष्टशतं पृथक्।१८।
धर्मास्थाने तु बल्मीके जाते मरणमादिशेतिन्द्रस्थाने श्रियं ब्रूयादाग्नेये च तथा ऽश्रियम्।१९।
याम्ये बन्धुविनाशस्स्याद्राक्षसे गृहिणीं हरेत्वारुणे बन्धुलाभस्स्याद्वायव्ये दूर आगतिः ।२०।
सौम्यै सुखं तथा रौद्रे दुर्वाक्यं मरणं भवेतित्याह भगवान्बोधायनः ।२१।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने त्रयोदशो ऽध्यायः
BaudhGSS.3.14
अथ तृतीयप्रश्ने चतुर्दशो ऽध्यायः
अथातो यमऌअकल्पं व्याख्यास्यामः पत्नी गावो वा यमऌऔ विजायेरन्तस्य संस्कारः प्राङ्नामकरणात्कार्यः ।१।
ब्राह्मणाननुजाप्य चतुर्णां क्षीरवृक्षाणां कषायानाहरेयुः प्लक्षन्यग्रोधाश्वत्थोदुम्बराणां चतुर उदकुम्भान्पूरयित्वा चतस्रो विधवा ब्रह्मचारिणो वा हिरण्यमन्तर्धाय स्नापयेयुश्शतधारेण वा कृत्वा ऽभिषिञ्चन्ति ।२।
अथ भूतबलिं करोति ।आचार्यमलङ्कृत्य गोमिथुनं दद्यात्।३।
पुंसो यवमयं गोमूत्रं स्त्रियो हिरण्यगर्भस्समवर्तताग्रे इत्यष्टभिर्हुत्वा कार्यो मारुतश्चरुर्न तस्य भयं विद्यत इति प्रसिद्धं नामकरणम्।४।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने चतुर्दशो ऽध्यायः
BaudhGSS.3.15
अथ तृतीयप्रश्ने पञ्चदशो ऽध्यायः
अथातो ऽर्धमासे ऽर्धमासे ऽष्टम्यां ब्राह्मणाः ब्रह्मचारिणः स्त्रियश्च पुत्रकामा आयुष्कामा आरोग्यकामा ब्रह्मवर्चसकामास्सौभाग्यकामाश्चोपवसन्ति ।१।
अथ प्रदोषे रुद्रं विरूपाक्षं सपत्नीकं ससुत सगणं सपारिषत्कमावाहयामि इत्यावाह्य स्वागतेनाभिनन्दयति स्वागतं पुनरागतम्।२।
भगवते महादेवाय विरूपाक्षाय सपत्नीकाय ससुताय सगणाय सपारिषत्कायेत्येतदासनं क्लृप्तमत्रास्तां भगवान्महादेवो विरूपाक्षस्सपत्नीकस्ससुतस्सगणस्सपार्षत्कः इति ।३।
अथ कूर्चं ददाति भगवतो ऽयं कूर्चः दर्भमयस्त्रिवृद्धरितस्सुवर्णमयस्तं जुषस्व इति प्रतिगृह्णातु भगवान्महादेवो विरूपाक्षाय सपत्नीकाय ससुताय सगणाय सपार्षत्कायेति ।४।
अथात्र स्थानानि कल्पयति महाकालाय नमः शङ्कराय नमो बभ्रुकर्णाय नमो नन्दिकेश्वराय नमो दण्डिमुण्डाय नमः चण्डिकेश्वराय नमः इति ।५।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति आर्द्रया रुद्रः हेती रुद्रस्य इति द्वाभ्याम्।६।
अथाज्याहुतीरुपजुहोति भवाय देवाय स्वाहा इत्यादिभिश्चतुर्विंशतिभिः हुत्वा हव्यवाहं स्विष्टमिति स्विष्टकृतं हुत्वा ऽथाग्रेणाग्निमर्कपर्णेषु हुतशेषं निदधाति यो रुद्रो अग्नौ इति ।७।
शिष्टैर्गन्धमाल्यैरभ्यर्च्य रौद्रीभिः ऋग्यजुस्सामाथर्वभिस्स्तुतिभिः स्तुन्वन्त्यार्षैस्स्तोत्रैः ।८।
देवतां प्रवाहयति प्रयातु भगवानीशानस्सर्वलोकानां सर्वलोकनमस्कृतः अनेन हविषा तृप्तः पुनरागमनं प्रति इति प्रत्यभिमृशते ऽयनाय चेति ।९।
य एवं विद्वानावरति पुत्रवान्पशुमान्भवति सर्वं पाप्मानं तरति तरति ब्रह्महत्यां अपपुनर्मृत्युं जयतीति ह स्माह भगवान्बोधायनः ।१०।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने पञ्चदशो ऽध्यायः
BaudhGSS.3.16
अथ तृतीयप्रश्ने षोडशो ऽध्यायः
अथ वृषोत्सर्गः कार्तिक्यां पौर्णमास्यां क्रियेतापि वा आश्वयुज्यां वैशाख्यां वा गोष्ठे गवां मध्ये ।१।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति पूषा गा अन्वेतु नः इति पुरोनुवाक्यामनूच्य शुक्रं ते अन्यतिति याज्यया जुहोति ।२।
अथाज्याहुतीरुपजुहोति इह धृतिस्स्वाहा ।इह विधृतिस्स्वाहा ।इह रन्तिस्स्वाहा ।इह रमतिस्स्वाहा इति उपसृजन्मात्रे वत्सं धारयन्धरुणो धयत्रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा इति ।आ गावो अग्मन्नुत भद्रमक्रनित्येतेन सूक्तेन नमस्ते रुद्र मन्यवे इत्या ऽन्तादनुवाकस्य ।३।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।४।
अथ रुद्रं जपित्वा गोमिथुनमध्वर्यवे ददाति ।५।
लाजमन्त्रेण त्रिः प्रदक्षिणं परिक्रमयेदेकवर्णो द्विवर्णो वा यूधं छादयति ।यूधस्य मुख्याश्चतस्रो वत्सतर्यः स्नाप्याच्छाद्य तिलोदकं गृह्णाति ऋचां प्राची इति ।६।
अवधूनुयुर्जलबिन्दून्पीत्वा तृप्ता यान्तु पितरः इति ।७।
अथैनं मध्ये गोष्वपि सृजति एतं युवानं परि वो ददामि इति ।८।
अपियन्तमनुमन्त्रयते त्वां गावः इति ।९।
मध्यस्थमनुमन्त्रयते मयोभूर्वातो अमिवातूस्नाः इति ।१०।
सर्वासां पयसि पायसं श्रपयित्वा ब्राह्मणान्संपूज्याशिषो वाचयित्वा यथाशक्ति दक्षिणां ददाति ।११।
तिर्यग्योनिगतान्ज्ञातीन्जात्यन्तरे वर्तमानाम्दुष्कुलैरपरुद्धान्दशपूर्वान्दशापरानात्मानं चैकविंशतिं पङ्क्ति च पुनाति न च पुनरावर्तते न च पुनरावर्तते इति ।१२।
अथाप्युदाहरन्ति एष्टव्वा बवहः पुत्रा यद्येकोपि गयां व्रजेत्गौरीं वा वरयेत्कन्यां नीलं वा वृषत्मुसृजेत्।१३।
लोहितो यस्तु वर्णेन श्वेतलागूललक्षणः खुरे ककुदि च श्वेतस्स वै नीलवृषस्स्मृतः ।१४।
इत्याह भगवान्बोधायनः ।१५।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने षोडशो ऽध्यायः
BaudhGSS.3.17
अथ तृतीयप्रश्ने सप्तदशो ऽध्यायः
अथातस्सहस्रभोजनविधिं व्याख्यास्यामः उदगयने पूर्वपक्षे पुण्ये नक्षत्रे त्रिजन्मनि दक्षिणायने वा क्रियेत ।१।
स्वगृहे देवगृहे वा यत्र शुचिर्देशः स्यात्तत्र शुचिर्भूत्वा युग्मान्ब्राह्मणान्सुप्रक्षाऌइतपाणिपादानप आचमय्य आसनं कल्पयित्वा गन्धपुष्पधूपदीपैरभ्यर्च्य सङ्कल्पसिद्धिरस्तु इति वाचयित्वा त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्याशिषो वाचयित्वा प्रदक्षिणनमस्कारं विदधीत ।२।
सहस्रात्मानमीश्वरं सहस्रभोजनेन सम्पूज्य एकस्मै स्वाहा द्वाभ्यां स्वाहा इति दशानुवाकान्भोजनान्ते द्वादश ब्राह्मणाः श्राविताः भवन्ति षड्वा ।३।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति विष्णोर्नुकमिति पुरोनुवाक्यामनूच्य विष्णो रराटमसि इति याज्यया जुहोति ।४।
अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इत्यादि द्वादशनामधेयैस्स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।५।
अथ विप्रान्भोजयित्वा गुऌअपायसं घृतमिश्रमित्यन्नस्य बलिमुपहरति अमुष्मै स्वाहा ऽमुष्मै स्वाहा इति द्वादशनामधेयैः ।६।
अथ ब्राह्मणेभ्यो निवेदयित्वा वस्त्रयुगानि कुण्डलयुगान्यङ्गुलीयकमुपानहौ छत्रं कमण्डलुमिति च दद्यात्।७।
अन्नशेषमाज्यशेषं पक्वशेषं चोभौ जायापती प्राश्नीयातां सर्वान्कामानवाप्नोति सर्वकल्मषैः महापातकैः प्रमुच्यते षष्टिर्वर्षसहस्राणि ब्रह्मलोकमतीत्य विष्णुलोके महीयत इत्याह भगवान्बोधायनः ।८।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने सप्तदशो ऽध्यायः
BaudhGSS.3.18
अथ तृतीयप्रश्ने अष्टादशो ऽध्यायः
अथातस्सहस्रभोजनसुत्यां व्याख्यास्यामः विषुवे ऽयने जन्मनक्षत्रे चन्द्रसूर्यग्रहणे ग्रहगृहीते व्याधिग्रस्ते प्रजाकामो ऽयकामो वा ब्राह्मणाननुज्ञाप्य अभीष्टमाहुर्वरणं कृत्वा सहस्रब्राह्मणान्वेदपारगान्भोजयित्वा सहस्रसङ्ख्यापरिपूर्णे पुण्ये नक्षत्रे ब्राह्मणान्द्वादश षड्वा निमन्त्रयित्वा स्नानासनादिगन्धपुष्पधूपदीपैरभ्यर्च्याथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं व्याहृतीभिर्विष्णुमावाह्य परिधानप्रभृत्या ऽग्निमुखात्कृत्वा दैवतमर्चयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा गन्धपुष्पधूपदीपैरभ्यर्च्याथ पक्वाज्जुहोति विष्णोर्नुकमिति पुरोनुवाक्यामनूच्य विष्णो रराटमसि इति याज्यया जुहोति ।१।
अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इति द्वादशनामधेयैः स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।२।
अथ विप्रान्भोजयित्वा गुऌअपायसं घृतमिश्रमित्यन्नस्य बलिमुपहरति अमुष्मै स्वाहा इति द्वादशनामधेयैः ।३।
अथ ब्राह्मणेभ्यो वस्त्रयुगानि कुण्डलयुगान्यङ्गुलीयकमुपानहौ छत्रं कमण्डलुमिति च दद्यात्।४।
अन्नशेषमाज्यशेषं पक्वशेषं चोभौ जायापती प्राश्नीयातां सर्वान्कामानाप्नोति महापातकैः प्रसुच्यते षष्टिर्वर्षसहस्राणि ब्रह्मलोकमतीत्य विष्णुलोके महीयते इत्याह भगवान्बोधायनः ।५।
इति बोधायनीये गृह्यशेषसुत्रे तृतीयप्रश्ने अष्टादशो ऽध्यायः
BaudhGSS.3.19
अथ तृतीयप्रश्ने एकोनविंशो ऽध्यायः
अथातो जीवश्राद्धं व्याख्यास्यामः यस्त्वात्मनश्श्रेय इच्छत्यपरपक्षे त्रयोदशीरुपोष्य तस्मिन्नेवाहनि सम्भारानुपकल्पयते यान्यौर्ध्वदैहिकानि मृतानां वस्त्रषट्कं सौवर्णीं सूचीमङ्कुशं तान्तवं पाशं कन्थां पलाशवृन्तमौदुम्बरीमासन्दीं कलशानीत्यन्यान्यपि च ।१।
श्वोभूते स्नात्वा मध्याह्ने जले स्थित्वोपोत्थाय पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा वस्त्राङ्गुलीयकं दक्षिणां दद्यात्सघृतपायसं दक्षिणामुखो ऽश्नीयात्।२।
अथ श्राद्धविधिना ऽग्निमुपसमाधाय सम्परिस्तीर्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति चत्वारि शृङ्गा इति पुरोनुवाक्यामनूच्य त्रिधा हितमिति याज्यया जुहोति तत्सवितुर्वरेण्यमिति पुरोनुवाक्यामनूच्य योजयित्री सूनृतानामिति याज्यया जुहोति ये चत्वारः इति पुरोनुवाक्यामनूच्य द्वे स्रुती इति याज्यया जुहोति अग्ने नय इति पुरोनुवाक्यामनूच्य या तिरश्ची इति याज्यया जुहोति ।३।
अथाज्याहुतीरुपजुहोति पुरुषसूक्तेनाष्टादशर्चेन हुत्वा गायत्र्या ऽष्टसहस्रमष्टशतमष्टाविंशतिं वा जुहुयात्स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।४।
धार्य एवाग्निरासमाप्तेः ।५।
चतुष्पथं गत्वा सूचीमङ्कुशं कन्थां रज्जुमिति कृष्णतनवे ह्रस्वाय ब्राह्मणाय दत्वा प्रीयन्तां यमकिङ्कराः इति वाचयित्वा व्रीहिषु कलशान्सादयेत्।६।
तन्तुना परिवेष्ट्य जलपूर्णान्पुरुषाकृतिं कृत्वा त्रीणि शीर्ष्णि मुखे त्रीणि ग्रीवायामेकविंशतिं शरीरे चतुष्टयं बाह्वोर्द्वे द्वे लिङ्गस्यैकं पादयोः पञ्च पञ्चेति प्रीतो ऽस्तु भगवान्यमः इति ।७।
तत आसन्दीं कृत्वा पञ्चगव्येन प्रक्षाऌय पलाशवृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा कलशपुरुषे प्राणानभिनिवेश्य वृन्तशरीरे देहमभिनिवेश्य स्वपेत्।८।
उदिते सूर्ये कलशैर्देहं स्वयमेवाभिषेचयेत्पौरुषेण सूक्तेन पञ्चगव्येन शुद्धोदकेन सायाह्ने सतिलमन्नं सर्पिषा ऽश्नीयात्।९।
ब्राह्मणानपि यमकिङ्करतृप्तये भोजयेत्।१०।
चतुर्थ्यां यन्त्रदाहः ।११।
उदकं पिण्डं च अमुकगोत्राय मह्यं पिण्डमामुत्रिकं स्वधा इति नमस्कारान्तं कृत्वा समापयेत्।१२।
तत्राशौचं दशाहं स्यात्स्वस्य ।ज्ञातेर्न विद्यते ।१३।
एकादश्यामेकोद्दिष्टमिति प्रतिपद्यते ।१४।
अथाप्युदाहरन्ति आपन्नस्त्री च शूद्रश्च यन्त्रैर्दग्ध्वा स्वकां तनुम्तदह्नैव क्रियास्सर्वाः कुर्यादिति हि वै श्रुतिः ।१५।
स्त्रीणां तूष्णीं समन्त्रकं वा ।१६।
मासिमास्येवं संवत्सरात्संवत्सरादूर्ध्वमाद्वादशाब्दात्ततो निवृत्तिः ।१७।
यदा स्वयं न शक्नुयात्तदा पुत्रादयः कुर्युः ।१८।
अथाप्युदाहरन्ति जीवन्नेवात्मनश्श्राद्धं कुर्यादन्येषु सत्स्वपि यथाविधि प्रवर्त्यांशु सपिण्डीकरणादृते इति ।१९।
तस्योक्तं कालं न विऌअम्बयेद्यतो ऽनित्यं जीवितमिति ह स्माह भगवान्बोधायनः ।२०।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने एकोनविंशो ऽध्यायः
BaudhGSS.3.20
अथ तृतीयप्रश्ने विंशो ऽध्यायः
अथातो नारायणबलिं व्याख्यास्यामः दक्षिणोत्तरायणयोरपरपक्षस्य द्वादश्यां क्रियेत ।१।
पूर्वेद्युर्द्वादश षड्वा ब्राह्मणान्निमन्त्रयते योनिगोत्रश्रुतवृत्तसम्पन्नान्।२।
अथापरेद्युर्देवगृहे नदीतीरे वा ऽग्निमुपसमाधाय सम्परिस्तीर्य आप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं दैवतमावाहयति पुरुषसूक्ते द्वे ऋचौ जपित्वा व्याहृतिभिः पुरुषमावाहयति ।३।
अथैनं स्नापयति पुरुषसूक्तेन ।४।
अथैनं गन्धपुष्पधूपदीपैरष्टाक्षरेणार्चयित्वा ऽद्भिस्तर्पयति केशवं तर्पयामि इति द्वादशनामभिः ।५।
परिधानप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति विष्णोर्नुकमिति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति ।६।
अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इत्येतैरेव नामधेयैः ।७।
अथ गुऌअपायसघृतमिश्रमन्नं निवेदयति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां विष्णवे महापुरुषाय हविर्निवेदयामि इति ।सप्तव्याहृतिभिस्स्वाहाकारेण जपति ।व्याहृतिभिराचमनीयम्।८।
अथ ब्राह्मणानाहूय सदर्भोपक्लृप्तेष्वासनेषूपवेश्याथैनान्वस्त्रगन्धपुष्पधूपदीपैर्माल्यैरभ्यर्च्याथाभ्यनुज्ञातस्तिलघृतमिश्रं हविस्समुदायुत्य हस्ते जुहोति पितृभ्यस्स्वधा नमो नारायणाय स्वाहा इत्यादिचतुर्विंशतिः मन्त्रा ऊह्याः ।९।
अथ अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो नारायणाय स्वाहा इति ।१०।
अथ ब्राह्मणानन्नेन परितोष्याचम्य तेषां यथाशक्ति दक्षिणां ददाति ।११।
प्रदक्षिणीकृत्य शेषमनुज्ञाप्य दक्षिणेनाग्निं प्रागग्रान्दर्भान्संस्तीर्य तेषु बलिं ददाति विश्वेभ्यो देवेभ्यो नमस्साध्येभ्यो देवेभ्यो नमस्सर्वेभ्यो देवेभ्यो नमस्सर्वाभ्यो देवताभ्यो नमो विष्णवे नमो नारायणाय नमस्सहस्रशीर्षाय नमो यज्ञात्मने नमो यज्ञपुरुषाय नमो विश्वात्मने नमस्सर्वात्मने नमस्सर्वेश्वराय नमः इति ।१२।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।१३।
सर्वान्पितॄन्समधिगच्छति ब्रह्मलोके महीयत इत्याह भगवान्बोधायनः ।१४।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने विंशो ऽध्यायः
BaudhGSS.3.21
अथ तृतीयप्रश्ने एकविंशो ऽध्यायः
अथातो नारायणबलिसंस्कारविधिं व्याख्यास्यामः चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम्विषस्त्रिरज्जुपाषाणदेशान्तरमृते ऽपि वा अभिशस्तसुरापात्मत्यागिनां द्विजहतानामन्येषां च द्वादश वर्षाणि त्रीण्येकं वा यत्र मरणं यस्य तत्रतत्र कुर्वीत ।१।
असांहितानां पालाशाग्रमाहूयपर्णत्सरूणां कृष्णाजिने पुरुषाकृतिं कृत्वा होतृकल्पेन वा पितृमेधेन वा संस्कुर्यात्।२।
अथ प्रयोगमन्त्रानपोद्धृत्य पुरुषसूक्तस्य प्रत्यृचं तत्तन्मन्त्राणां स्थाने पृथक्पृथक्प्रयोगो भवति ।३।
अपि वा तूष्णीं सर्वं क्रियेत ।४।
याम्यसूक्तेनोपोषणम्।५।
पौरुषेणोपस्थानम्।६।
समानमत ऊर्ध्वम्।७।
तीर्थे स्नात्वा प्रेतायोदकक्रियां कृत्वा नामगोत्रे मनसा ब्रूते नारायणैतत्त उदकमिति वाचा ऽभिव्याहरेत्।८।
स एतमेव सायंप्रातर्दशरात्रं करोति ।९।
त्रिरात्रेण वा ।१०।
पिण्डदाने असावेतत्ते पिण्डमिति विशेषः ।११।
एकादश्यामेकोद्दिष्टम्।१२।
एवं प्रेतायामुष्मै यमाय च स्वाहा इत्यग्रौ करणे वा ।१३।
प्रतिग्रहणे प्रदाने विसर्जने च नारायणाय इत्यनेन मन्त्रेण करोति ।१४।
सर्वं मनसा सङ्कल्पयेद्वाचा ऽभिव्याहरेत्।१५।
पर्वत्रये च षाण्मासिके च समानम्।१६।
संवत्सरे सपिण्डीकरणम्सपिण्डीकरणस्थाने नारायणवलिक्रिया ।१७।
सायं प्रातर्न विद्यते सोयं बोधायनमतो यथा ।१८।
द्वयोरयनसङ्क्रान्त्योः पुण्येषु दिवसेषु वा ।१९।
अथ वा ऽपरपक्षस्य क्रिया भवेत्।२०।
सपिण्डीकरणमेतेषामन्येषां च समानम्।२१।
प्रेतपात्रं पितृपात्रे निनयेत्।त्रिषु वासिञ्चेत्।प्रेतपिण्डं पितृपिण्डेषु निदध्यातसौ पितृभिः पितामहैः प्रपितामहैस्संगच्छध्वं भूर्भुवस्सुवरोमित्याह भगवान्बोधायनः ।२२।
इति बोधायनीये गृह्यशेससूत्रे तृतीयप्रश्ने एकविंशो ऽध्यायः
BaudhGSS.3.22
अथ तृतीयप्रश्ने द्वाविंशो ऽध्यायः
यस्त्वात्मनश्श्रेयांसमिच्छत्यौर्ध्वदैहिकं स्वस्य यदि भवति तदा दहनप्रभृति सपिण्डीकरणान्तं जीवन्नेवाधस्तथोक्तं सकलं कुर्यात्।१।
तथाह कण्वः जीवन्नेव च यः कुर्वन्नात्मनश्श्राद्धमिच्छति यन्त्रेण कृत्वा संस्कारमुदकं बलिमेव च ।२।
कृत्वा ऽथ षोडशश्राद्धं दद्याद्यद्यत्प्रियं भवेतात्मनस्तत्स्वयं दत्वा ततश्श्राद्धं समापयेत्।३।
तत्राशौचं दशाहं स्यात्स्वस्य ज्ञातेर्न विद्यते इति ।५।
अत्रैव विष्णुः आत्मार्थं पारलौक्यं यत्तत्सर्वं लमवाप्नुयात्न हि कर्म कदाचित्तु क्षयमेति कृतं नरैः इति ।५।
तस्माद्यस्य न सन्ति कर्तारो ज्ञातयः पुत्रो ऽन्तेवासिनो वा स जीवन्नेव आमुष्मिकं सर्वमविकृतं कुर्वन्नामोच्चारणे तद्गोत्राय तच्छर्मणे करिष्यते ।६।
अथ वा प्रविदानकल्पेन वा दद्यादितीदमप्येकम्।७।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने द्वाविंशो ऽध्यायः
BaudhGSS.3.23
अथ तृतीयप्रश्ने त्रयोविंशो ऽध्यायः
अथातश्शुभाशुभनिमित्तानां वायसानां बलिं व्याख्यास्यामः शुक्लपक्षे त्रयोदश्यामष्टम्यां नवम्यां वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य देवस्य गृहे गोष्ठे नदीतीरे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य प्रदक्षिणं दर्भैरासनानि कल्पयति अङ्कतेभ्यः कल्पयामि ।कङ्कतेभ्यः कल्पयामि ।कद्रुपुत्रेभ्यः कल्पयामि ।वायसेभ्यः कल्पयामि ।ब्रह्मपुत्रेभ्यः कल्पयामि इति तन्मध्ये ।१।
अथैनानावाहयति न कपिलान्न लोहितान्नारिष्टान्न महारिष्टान्वायसमात्रकान्।२।
आयान्तु शकुनाश्शीघ्रा वायसा बलिभोजनाः ।३।
अङ्कतानावाहयामि ।कङ्कतानावाहयामि ।कद्रुपुत्रानावाहयामि ।वायसानावाहयामि ।ब्रह्मपुत्रानावाहयामि इति मध्ये ।४।
अथैनान्स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा ऽथाद्भिस्तर्पयति अङ्कतेभ्यस्तर्पयामि ।कङ्कतेभ्यस्तर्पयामि ।कद्रुपुत्रेभ्यस्तर्पयामि ।वाससेभ्यस्तर्पयामि ।ब्रह्मपुत्रेभ्यास्तर्पयामि इति मध्ये ।५।
अथैनान्गन्धपुष्पधूपदीपैः अमुष्मै नमो ऽमुष्मै नमः इति पायसं द योदनं वा हविर्निवेदयति अङ्कतेभ्यस्स्वाहा ।कङ्कतेभ्यस्स्वाहा ।कद्रुपुत्रेभ्यस्स्वाहा ।वायसेभ्यस्स्वाहा ।ब्रह्मम्पुत्रेभ्यस्स्वाहा इति मध्ये ।६।
अथैनान्ज्ञापयति सत्याः स्थ सत्यं वदत सत्ये रमत वायसाः यत्सत्यमिह तद्ब्रूयाद्यो मिथ्याबलिमश्नियात्।७।
अथैते मातृघातेन पितृघातेन वा पुनः तद्दुष्कृतं प्रतिगृह्णीयाद्यो मिथ्याबलिमश्नीयात्।८।
कपिलानां शतं हत्वा ब्राह्मणानां विशेषतः तद्दुष्कृतं प्रतिगृह्णीयाद्यो मिथ्याबलिमश्नियात्।९।
भावाय पूर्वं गृह्णीयादभावायानु दक्षिणम्नास्तीत्यपरं गृह्णीयाद्भविष्यत्यपि चोत्तरम्।१०।
मध्ये सर्वार्थलाभाय शाकुनेष्विदमुत्तममित्येवं ज्ञात्वा सर्वकर्माण्यारभत इत्याह भगवान्बोधायनः ।११।
इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने त्रयोविंशो ऽध्यायः
BaudhGSS.3.col.
अथातश्शुभाशुभनिमित्तानाम्।यस्त्वात्मनश्श्रेयांसमिच्छति ।अथातो नारायणबलिसंस्कारविधिम्।अथातो नारायणबलिम्।अथातो जीवश्राद्धम्।अथातस्सहस्रभोजनसुत्याम्।अथातस्सहस्रभोजनविधिम्।अथ वृषोत्सर्गम्।अथातो ऽर्धमासे ऽर्धमासे ।अथातो यमऌअकल्पम्।अथातश्शिथिलीकल्पम्।अथातो ऽभिवृद्धिकल्पम्।अथातो मृत्युंजयकल्पम्।अथातो विनायककल्पम्।अथातो ज्येष्ठाकल्पम्।अथातो रविकल्पम्।अथातो विष्णुकल्पम्।अथातस्सरस्वतीकल्पम्।अथातश्श्रीकल्पम्।अथात उपश्रुतिकल्पम्।अथातो दुर्गाकल्पम्।अथातो व्याहृतिकल्पम्।अथातः पवित्राणाम्।२३।
अथातः पवित्राणाम्।अथातो व्याहृतिकल्पम्।अथातो दुर्गाकल्पम्।अथात उपश्रुतिकल्पम्।अथातश्श्रीकल्पम्।अथातस्सरस्वतीकल्पम्।अथातो विष्णुकल्पम्।अथातो रविकल्पम्।अथातो ज्येष्ठाकल्पम्।अथातो विनायककल्पम्।अथातो मृत्युंजयकल्पम्।अथातो ऽभिवृद्धिकल्पम्।अथातश्शिथिलीकल्पम्।अथातो यमऌअकल्पम्।अथातो ऽर्धमासे ऽर्धमासे ।अथ वृषोत्सर्गम्।अथातस्सहस्रभोजनविधिम्।अथातस्सहस्रभोजनसुत्याम्।अथातो जावश्राद्धम्।अथातो नारायणबलिम्।अथातो नारायणबलिसंस्कारम्।यस्त्वात्मनश्श्रेयांसमिच्छति ।अथातश्शुभाशुभनिमित्तानाम्।२३।
इति बोधायनीये गृह्य शेषे तृतीयप्रश्नस्समाप्तः