प्रश्नसंहिता/अध्यायः ५३

विकिस्रोतः तः
← अध्यायः ५२ प्रश्नसंहिता
अध्यायः ५३
[[लेखकः :|]]
प्रश्नसंहितायाः अध्यायाः

।। त्रिपञ्चाशोऽध्यायः ।।

एवं वदति गोविन्दे श्रीस्तं प्रोवाच पद्मिनी।
गोविन्द पुण्डरीकाक्ष पुराण पुरुषोत्तम।। 53.1 ।।
दुस्तरापारसंसारसागरोत्तारणक्षम।
वासुदेव जगन्नाथ संकर्षण जगत्प्रभो।। 53.2 ।।
प्रद्युम्न सुभग श्रीमन्ननिरुद्धापराजित।
नारायण दयामूर्ते सर्वान्तर्यामिणे (ने)नमः।। 53.3 ।।
अमी हि प्राणिनः सर्वे निम्नाश्च क्लेशसागरे।
पूर्वोक्तेभ्यः क्रियाभ्यः किं सुलभा काचन क्रिया।। 53.4 ।।
नास्ति सर्वेषु वेदेषु सर्वशास्त्रेषु वा हरे।
क्लिश्यमानान् जनान् सर्वान् किं रक्षसि जगत्पते।। 53.5 ।।
श्रीभगवान्-
अरविन्दासने देवि पद्मगर्भसमुद्भवे।
उत्तारहेतवोऽमीषामुपाया बहवः कृताः।। 53.6 ।।
कर्म सांख्यं च योगं च वाजपेयादयो मखाः।
मन्त्रसिद्धिर्देवपूजा तीर्थयात्रादयो रमे।। 53.7 ।।
एतान् विहाय स्वाच्छन्द्यादकार्यें पतिता यदि।
तेषां कर्मानुरूपं तु ददामि फलमीदृशम्।। 53.8 ।।
श्रीः-
पिता पुत्रान् हि लोकेषु शिक्षते साधकर्मसु।
त्वं प्रवर्तयसेऽनिन्द्ये कार्ये सर्वाः प्रजा इमाः।। 53.9 ।।
भगवान्-
क्षीराब्धितनये लक्ष्मीः सर्वं मन्मनसि स्थितम्।
जानत्यपि पुनर्मां तु जिज्ञासयितुमिच्छसि।। 53.10 ।।
उपायाश्चाप्यपायाश्च शास्त्रीया निर्मिता मया।
उपायाः पूर्वमुद्दिष्टाः निषिद्धश्चेतरे मताः।। 53.11 ।।
अनर्थपरिहारार्थं प्रायश्चित्तं मयोदितम्।
चान्द्रायणं तप्तकृच्छ्रं कृच्छं सांतपनं तथा।। 53.12 ।।
गङ्गादितीर्थस्नानं च साधूनामभ्यनुज्ञया।
एतेष्वन्यतमं कृत्वा महापापाद्विमुच्यते।। 53.13 ।।
विमुक्तः स्वर्गमाप्नोति मोदते स्वर्गिभिः सह।
पुण्यक्षयो यदि भवेत् पुनर्भूमौ पतिष्यति।। 53.14 ।।
अनर्थसाधकं किंचित् किंचिच्चाप्यर्थसाधकम्।
अनर्थपरिहारश्च प्रायश्चित्तात्मकं रमे।। 53.15 ।।
त्रैराश्यं कर्मणामेवं शास्त्रतश्चोपदिश्यते।
मनीषी शास्त्रतत्त्वज्ञ उपायापायसंज्ञिकम्।। 53.16 ।।
प्रायश्चित्तं च संत्यज्य वैदिकीं वृत्तिमाश्रितः।
मन्त्रमेतं समुच्चार्य त्वया मां शरणं व्रजेत्।। 53.17 ।।
तदुपायं षडङ्गं स्याद् विवृणोमि तवानघे।
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम्।। 53.18 ।।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा।
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः।। 53.19 ।।
एवं मां शरणं प्राप्य तरेत् संसारसागरम्।
सत्कर्मनिरतः शुद्धो वीतशोकभयक्लमः।। 53.20 ।।
निरारम्भो निराशीश्च निर्ममो निरहंकृतिः।
विद्यासु च प्रसक्तश्च सांख्ये तपसि च स्थितः।। 53.21 ।।
नार्हत्युपायनिष्ठस्य कलां कोटितमीमपि।
श्रीः-
आनुकूल्यादिशब्दानां हरे व्याख्यातुमर्हसि।। 53.22 ।।
भगवान्-
सर्वानुकूलता नाम आनुकूल्यमिहोच्यते।
तथैव प्रातिकूल्यं च भूतेषु परिवर्जनम्।। 53.23 ।।
त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः।
अङ्गसामग्र्यसंपत्तेरशक्तेरपि च कर्मणाम्।। 53.24 ।।
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात्।
उपाया नैव सिध्यन्ति ह्यपायबहुलात्तथा।। 53.25 ।।
इति या गर्वहानिस्तद् दैन्यं कार्पण्यमुच्यते।
शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात्।। 53.26 ।।
ईशेशितव्यसंबन्धादनिदंप्रथमादपि।
रक्षिष्यत्यनुकूलान्न इति या सुदृढा मतिः।। 53.27 ।।
स विश्वासो भवेद् देवि सर्वदुष्कृतनाशनः।
करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम्।। 53.28 ।।
अप्रार्थितो न गोपायेदिति तत्प्रार्थनामतिः।
गोपायिता भवेत्येवं गोप्तृत्ववरणं तथा।। 53.29 ।।
तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता।
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते।। 53.30 ।।
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः।
सन्न्यासस्त्याग इत्युक्तः शरणागतिरित्यपि।। 53.31 ।।
अपायोऽयं चतुर्थस्ते प्रोक्तः शघ्रफलप्रदः।
पूर्वे त्रय उपायास्ते भवेयुरमनोहराः।। 53.32 ।।
आनुकूल्येतराभ्यां तु विनिवृत्ति(1)रपायतः।
कार्पण्येनाप्युपायानां विनिवृत्तिरिहोच्यते(2)।। 53.33 ।।
(1.ग्र.परा यतः।)
(2.ग्र. रिहोदिता।)
रक्षिष्यतीति विश्वासाद्रक्षणोपायकल्पनम्।
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्।। 53.34 ।।
सर्वज्ञोऽपि हि विश्वात्मा सदा कारुणिकोऽपि सन्।
संसारतन्त्रवाहित्वात् रक्षापेक्षां प्रतीक्षते।। 53.35 ।।
आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते।
हिंसास्तेयादयः शास्त्रैरपायत्वेन दर्शिताः।। 53.36 ।।
[कर्मसांख्यादयः शास्त्रैरुपायत्वेन दर्शिताः।]
अपायोपायसंत्यागी माध्यमीं वृत्तिमास्थितः।। 53.37 ।।
रक्षिष्यतीति निश्चित्य निक्षिप्तः स्वस्वगोचरः।
बुध्येत देवदेवेशं गोप्तारं पुरुषोत्तमम्।। 53.38 ।।
ततो मन्त्रं वर्णचक्रादुद्धरेन्मन्त्रवित्तमः।
सर्वदाहकसंयुक्तं श्रीवत्सं च मनोभवम्।। 53.39 ।।
मन्दरं व्यापकं द्वित्वं भद्रपाणिं च गोपनम्।
महाज्वालं चादिदेवं वायुबीजमतः परम्।। 53.40 ।।
द्रष्टारं धरणीं लक्ष्मीं चन्द्रं व्यापकमेव च।
न्यग्रोधशायिनं लक्ष्मीं वनमाल्यौषधे तथा।। 53.41 ।।
श्रीवत्सं व्यापकं खर्वमप्रमेयं च धारिणीम्।
वासुदेवं महाज्वालसमेतं पश्चिमाननम्।। 53.42 ।।
द्रष्टारं पद्मनेत्रं च लक्ष्मीं शङ्खसमन्विताम्।
मदनं सात्त्वतं सर्वदाहकेन समन्वितम्।। 53.43 ।।
शुभदं पञ्चबिन्दुं च कालं व्यापकमेव च।
वैराजं सात्त्वतं कीर्तिमादिदेवं महानलम्।। 53.44 ।।
संकर्षणं वायुबीजमप्रमेयं च धारिणीम्।
आनन्दं वायुबीजं च व्यापकान्तं समुद्धरेत्।। 53.45 ।।
वह्निजायां ततो युक्त्वा नमोऽन्तं वा समुच्चरन्।
समाहितमना भूत्वा द्वयं मन्त्रार्थतत्त्ववित्।। 53.46 ।।
त्वत्पूर्वकं मां शरणं व्रजेद्यद्वा समाहितः।
अष्टाक्षरं द्वादशार्णं प्रणवं वा चतुर्थिमत्।। 53.47 ।।
अथवा मन्त्रहीनोऽपि देवतान्तरवर्जितः।
मामेव शरणं प्राप्य शाश्वतं पदमश्नुते।। 53.48 ।।
सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम्।
उपायापायसंयोगे निष्ठया हीयतेऽनया।। 53.49 ।।
अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्।
प्रायश्चित्तिरियं सात्र यत्पुनः शरणागतिः।। 53.50 ।।
उपायानामुपायत्वस्वीकारेऽप्येतदेव हि।
अविप्लवाय धर्माणां पालनाय कुलस्य च।। 53.51 ।।
संग्रहाय च लोकानां मर्यादास्थापनाय च।
मनीषी समयाचारं मनसापि न लङ्घयेत्।। 53.52 ।।
यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम्।
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम्।। 53.53 ।।
लङ्घयन् शूलमारोहेदनपेक्षोऽपि तां प्रति।
एवं विलङ्घयन् मर्त्यो मर्यादां निर्मितां मया।। 53.54 ।।
प्रियोऽपि न प्रियोऽसौ मे ममाज्ञाव्यतिवर्तनात्।
उपायत्वग्रहं तत्र वर्जयेन्मनसा सुधीः।। 53.55 ।।
चतुर्थमाश्रयन्नेवमुपायं शरणाश्रयम्।
अतीत्य सकलं क्लेशं स विशत्यमलं पदम्।। 53.56 ।।
अपायोपायनिर्मुक्तां मध्यमीं स्थितिमाश्रिता।
शरणागतिरग्र्येषा संसारार्णवतारिणी।। 53.57 ।।
इदं शरणमज्ञानमिदमेव विजानताम्।
इदं तितीर्षतां पारमिदमानन्त्यमिच्छताम्।। 53.58 ।।
प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे।
सह त्वया मां शरणं व्रजेद्यदि सुमध्यमे।। 53.59 ।।
तनूकृत्याखिलं पापं मामेवैष्यत्यसंशयम्।
अथोपायप्रसक्तश्चेद् भुक्त्वा भोगानमानुषान्।। 53.60 ।।
अन्ते विरक्तिमासाद्य विशते मामकं पदम्।
अकामैश्च सकामैश्च तस्मात् सिध्यर्थमात्मनः।। 53.61 ।।
अर्चनीया नरैः शश्वन्मम मन्त्रमयी तनुः।
तथा हरौ पूज्यमाने पूजाकाले विशेषतः।। 53.62 ।।
मुदे भगवतो मुद्रां दर्शयेत् देशिकोत्तमः।
मुद्रा नाम पिशाचानामसुराणां च रक्षसाम्।। 53.63 ।।
यस्मान्मुदं द्रावयति तस्मान्मुद्रेति कीर्त्यते।
काश्चनैकेन हस्तेन हस्ताभ्यामपि काश्चन।। 53.64 ।।
तत्तत्काले प्रयोक्तव्या देवसांनिध्यसिद्धये।
चैतन्यमङ्गुलीनां तु रमे यद्यपि विद्यते।। 53.65 ।।
तथापि मन्त्रोऽत्राध्यक्षस्तत्फलं संप्रयच्छति।
श्रोत्रे पिधाय पाणिभ्यां नामगोत्रे च वै ब्रुवन्।। 53.66 ।।
व्युत्क्रमेण च तत्पादौ गृह्णीयाद्यदि वल्लभे।
अभिवादनमुद्रैषा गुर्वादिषु नियोजयेत्।। 53.67 ।।
हस्ताभ्यां शिरसा पद्भ्यां मनसा च धिया तथा।
अहंकारेण चात्मानं निपात्य धरणीतले।। 53.68 ।।
साष्टाङ्गेन स्पृशेद्‌भूमिं सा नमस्कृतिमुद्रिका।
हृदये शिरसि तयोः संपुटाञ्जलिरूर्ध्वगा।। 53.69 ।।
प्रणामपूर्वा सा ज्ञेया क्षिप्रं देवप्रसादिनी।
प्रसार्य तर्जनीमन्यां मुष्टीकृत्य च मस्तकम्।। 53.70 ।।
तर्जन्या भ्रामयेत् सा तु वह्निप्राकारमुद्रिका।
आत्मरक्षणकाले च महाभीतौ च दर्शयेत्।। 53.71 ।।
योगमुद्रा करतलं वामं नाभेः समीपगम्।
उत्तानीकृत्य तदधि दक्षिणं च तथा न्यसेत्।। 53.72 ।।
निधाय पूर्ववद् वामं दक्षिणं चाप्यधोमुखम्।
क्रियेत यदि सा प्रोक्ता योगसंपुटमुद्रिका।। 53.73 ।।
तर्जन्यङ्गुष्ठयोरन्तः संयोगस्तत्त्वमुद्रिका।
तत्त्वानां न्यसने चापि मानसाराधने तथा।। 53.74 ।।
अर्घ्यादिदानसमये हरये दर्शयेद् गुरुः।
अनामिकामध्यमयोर्मध्येऽङ्गुष्ठं निवेश्य च।। 53.75 ।।
मुष्टिं कृत्वा तु हृदये न्यासो हृदयमुद्रिका।
अधो बद्‌ध्वा तु तां मुष्टिं तर्जन्यन्तेन युक्तया।। 53.76 ।।
अङ्गुष्ठेन ब्रह्मरन्ध्रं संस्पृशेच्छीर्षमुद्रिका।
ऊर्ध्वाङ्गुष्ठयुतां मुष्टिं शिखायां विन्यसेद्यदि।। 53.77 ।।
शिखामुद्रेति सा प्रोक्ता तां मुद्रां यद्यधोमुखीम्।
भ्रुवोर्मध्ये स्थाप्यमाने नेत्रमुद्रेति कीर्त्यते।। 53.78 ।।
अङ्गुष्ठौ सुदृढौ चान्तः कृत्वा मुष्टी तु हस्तयोः।
मूलभागे दृढं न्यासो व्यत्यासेन भवेद्यदि।। 53.79 ।।
सा मुद्रा कवचाख्या स्यान्मन्त्रमुच्चार्य (3)दर्शयेत्।
कनिष्ठाद्यङ्गुलीस्तिस्रो मुष्टीकृत्य तदन्ययोः।। 53.80 ।।
(3.ग्र. विन्यसेत्।)
तर्जन्यङ्गुष्ठयोः स्फोटं दक्षिणस्याष्टदिक्ष्वपि।
शिरःप्रदक्षिणेनैव कुर्याच्चेदस्त्रमुद्रिका।। 53.81 ।।
हस्तौ मुकुलीतौ कृत्वा न्यसेच्छिरसि मन्त्रतः।
किरीटमुद्रा सा ज्ञेया श्रीवत्साख्यामथो शृणु।। 53.82 ।।
मणिबन्धौ मेलयित्वा चाङ्गुष्ठावन्तरं नयेत्।
शेषाः प्रसारयेच्छाखा दक्षिणोरसि विन्यसेत्।। 53.83 ।।
एषैव पद्ममुद्रेति वदन्त्यागमशास्त्रिणः।
पद्मे श्रियादिदेवीनामासने च नियोजयेत्।। 53.84 ।।
अङ्गुष्ठौ च कनिष्ठौ च प्रवेश्यान्तश्च हस्तयोः।
शिष्टाङ्गुलीनामग्राणि मेलयित्वा परस्परम्।। 53.85 ।।
एषा कौस्तुभमुद्रेति वामवक्षसि विन्यसेत्।
अङ्गुष्ठाभ्यां विना शाखा ऋजूकृत्योरु(4)पार्श्वयोः।। 53.86 ।।
(4.ग्र. पार्श्वगौ।)
हस्तौ प्रालम्बयेत् कण्ठाद्वानमालेति तां विदुः।
प्रसार्याङ्गुलिभिर्हस्तौ मेलयित्वा परस्परम्।। 53.87 ।।
सव्यापसव्यभ्रमणं कुर्याच्चक्राख्यमुद्रिका।
दोर्मूले दक्षिणस्यापि रक्षणार्थे च योजयेत्।। 53.88 ।।
वामाङ्गुष्ठं दक्षिणस्य मुष्टिना ग्राहयेत् पुरा।
प्रसारयेत् तदितरा(5)स्ताभिर्मुष्टिं च गूहयेत्।। 53.89 ।।
(5.तां मुष्टिं ग्राहयेत् ततः।)
तर्जन्यग्रं दक्षिणस्य त्वङ्गुष्ठेन नियोजयेत्।
शङ्खमुद्रामिमां देवि न्यसेद्वामभुजोपरि।। 53.90 ।।
कूर्पराद्यौ मेलयित्वा करौ मध्याङ्गुलीयुगम्।
प्रसार्य योजयेदन्या मुष्टीकुर्याद्विचक्षणः।। 53.91 ।।
गदामुद्रामिमां देवि वामहस्ते प्रदर्शयेत्।
वामेतरे पद्ममुद्रां दर्शयेच्च यथाविधि।। 53.92 ।।
करयोरुभयोः पृष्ठं श्लेषयेच्च कनिष्ठिके।
बन्धयेत् तर्जनीयुग्मं चञ्चुवत् तदधोमुखौ।। 53.93 ।।
अङ्गुष्ठौ पादवच्छाखा इतराः पक्षवद्धवेत्।
वैनतेयस्य मुद्रैषा मूले तूर्वोर्नियोजयेत्।। 53.94 ।।
हस्तयोरङ्गुलीः सर्वाः प्रसार्य तदनन्तरम्।
चालयेत् किंचिदाकुञ्च्य फणिनो मस्तकानिव।। 53.95 ।।
शेषमुद्रामिमां देवि हस्तपादमुखस्य च।
शोधने तूपयोगः स्याद् देवस्य परमात्मनः।। 53.96 ।।
कनिष्ठाद्यङ्गुलीस्तिस्रः संहृत्याङ्गुष्ठकेन च।
नियोज्य तर्जनीं भूयो विष्वक्‌सेनस्य मुद्रिका।। 53.97 ।।
पादाग्रे दर्शयेत् तद्वद् दिग्बन्धे च नियोजयेत्।
वामे करतले पूरेवं ततो हस्ते तु दक्षिणे।। 53.98 ।।
पुनर्वामतले कुर्यादङ्गुलीभिस्तु ताडनम्।
तालत्रयाख्यमुद्रैषा कवाटोद्धाटनादिषु।। 53.99 ।।
पात्रस्थापनकालेऽपि दर्शयेत् गुरुसत्तमः।
हस्तयोर्मध्यमाङ्गुल्यौ करपृष्ठे नियोजयेत्।। 53.100 ।।
अङ्गुष्ठेन तथाङ्गुष्ठं कनिष्ठेन कनिष्ठिकाम्।
संकुञ्चयेत् तदितराः शाखाः सर्वाः प्रसारयेत्।। 53.101 ।।
मुद्रैषा कामधेन्वाख्या सर्वशुद्धिकरी सदा।
हस्ताभ्यामञ्जलिं बध्वा त्वीष(6)द्विकसितां स्फुटाम्।। 53.102 ।।
(6.ग्र. द्विकसितं स्फुटम्।)
मुद्रा ह्यावाहने योज्या स्थापना शृणु भार्गवि।
हस्तावदोमुखौ कृत्वा चाङ्गुष्ठाभ्यामनामिके।। 53.103 ।।
संमृजेत् स्थापने देवि विनियोगो भवेदियम्।
ऊर्ध्वाङ्गुष्ठं दक्षिणं तु मुष्टीकृत्य प्रदर्शयेत्।। 53.104 ।।
मुद्रैषा प्रतिपा देवि पूजाकाले नियोजयेत्।
उत्तानं जश्रिणं कृत्वा कींचिन्नाम्राङ्गुलिं पुनः।। 53.105 ।।
स्वागतेन च शब्देन दर्शयेत् स्वागतामिमाम्।
उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठद्वयेन तु।। 53.106 ।।
स्वां स्वां कनिष्ठां विमृजेदेषा संनिधिमुद्रिका।
नाभौ कूर्परयुग्मं तु निवेश्य करयोर्द्वयोः।। 53.107 ।।
मणिबन्धान्मेलयित्वा ततः किंचिद्विकासयेत्।
किंचिद्विचालयेदेषा प्रार्थनायां प्रदर्शयेत्।। 53.108 ।।
ईषद्विकसितं कुर्यादञ्जलिं कमलेक्षणे।
एषा सांमुख्यमुद्रा स्यात् संमुखीकरणे हरेः।। 53.109 ।।
कुम्भमुद्रां प्रवक्ष्यामि यद्यधोमुखतोऽञ्जलिम्।
प्रदर्शयेत् स्नानकाले कमले गुरुसत्तमः।। 53.110 ।।
पञ्चाङ्गुलीनामग्रं तु योजयेद् ग्रासमुद्रिका।
निवेदने देवदेव्योरितरेषामिमां स्मरेत्।। 53.111 ।।
मध्यमानामिकाभ्यां तु ह्यङ्गुष्ठं मेलयेत्ततः।
कनिष्ठा तर्जनीयुग्मं दीर्घाकृत्वा विचक्षणः।। 53.112 ।।
धान्यपुष्फलादीनामिमं होमे प्रदर्शयेत्।
बलिप्रदानकाले तु पुष्टिमुद्रां नियोजयेत्।। 53.113 ।।
अङ्गुष्ठाभ्यां तु करयोस्तर्जनीमध्यमान्तिमौ।
स्पृशेत् तदितराः शाखाः प्रसार्याभिप्रदर्शयेत्।। 53.114 ।।
जपमुद्रेति विज्ञेया जपकाले जलोद्भवे।
तर्जन्यनामिकाग्रं तु वेष्टयित्वा परस्परम्।। 53.115 ।।
[अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैः शनैः।]
कुर्यात् कनिष्ठिकादीनां मुद्रैषा स्याद्विसर्जने।। 53.116 ।।
किंच पुष्पाणि तुलसीरन्यानि विधिवद्रमे।
स्नातः शुद्धाम्बरो मौनी पाणिपादं च शोधयेत्।। 53.117 ।।
मन्त्रमुच्चारयन्मूलं (7)द्वादशाक्षरमेव वा।
तत्तल्लताभ्यो वृक्षेभ्यः स्वारामाच्चिनुयाद्रमे।। 53.118 ।।
(7.ग्र. यद्वाष्टाक्षरमेव वा।)
वेत्रजातिषु पात्रेषु निधाय च पिधाय च।
गत्वालयं तत्र शुद्धे पत्रैः संच्छादिते स्थले।। 53.119 ।।
पुनर्निक्षिप्य संशोध्य तैः पुष्पैरर्चयेद्धरिम्।
प्रातः पद्मद्वयं शस्तमुत्पलत्रयमेव च।। 53.120 ।।
मध्यंदिने माधवी च केतकीद्वयमेव च।
मालतीचम्पकं चैव पुंनागं सुरपर्णिका।। 53.121 ।।
नन्द्यावर्तं श्वेतपुष्पं करवीरं च पद्मकम्।
मन्दारमवदातं च पाटलप्रभमेव च।। 53.122 ।।
सायंकाले विचकिलं मल्लिकाद्वयमेव च।
वकुलं जातिपुष्पं च तथा वनसमुद्भवे।। 53.123 ।।
जाती च मल्लिका चापि एतैः संपूजयेद्धरिम्।
ह्रीबेरं च तमालं च तथा दमनकत्रयम्।। 53.124 ।।
तुलस्यौ सितकृष्णे च केवला क्षपकास्तथा।
एतैः संपूजयेत् सर्वकालेषु च तथार्चयेत्।। 53.125 ।।
पद्मादिजलपुष्पाणि त्र्यहात्पर्युषितं भवेत्।
न पर्युषितदोषोऽस्ति(8)ह्रीबेरादेस्तु पूजने।। 53.126 ।।
(8.ग्र. तुलसीपल्लवस्य हि इति पाठान्तरं ग्र. पुस्तके दर्शितम्।)
एतैर्भगवतः पूजां पद्माद्यैरर्चनं चरेत्।
साधको भगवन्नाम शतमष्टोत्तरं वदन्।। 53.127 ।।
पादयोरर्चनं कुर्यात् तस्य स्वर्गो भवेद् ध्रुवम्।
सहस्रनाम्ना यः कुर्यात् कारयेदर्चनं हरेः।। 53.128 ।।
भूलोके सर्वकामान् स आयुषः पूर्णमेव च।
संपदः पुत्रपौत्रादीननुभूय ततो रमे।। 53.129 ।।
प्राप्त विष्णोः परं धाम मोदते नित्यसूरिवत्।
पुष्पैर्लक्षार्चनसममर्चनं तुलसीदलैः।। 53.130 ।।
अष्टोत्तरशतैः कुर्यात् तस्य स्थानं तु पद्मजे।
वैकुण्ठं पदमासाद्य मोदते सानुगैः सह।। 53.131 ।।
उद्यानं वा तटाकं वा क्षेत्रं वा पूजनाय यः।
ददाति स तु मल्लोके नित्यवासं करिष्यति।। 53.132 ।।
अतः सर्वं(9) समालोच्य शास्त्रं च भगवत्प्रियम्।
देशकालाधिकारं च पूजयेत् भक्तिमान्नरः।। 53.133 ।।
(9.ग्र. सम्यक्)
तस्य दाता हरिः (10)साक्षादिहामुत्र शुभं फलम्।
इत्येवं वासुदेवस्य मुखपद्माद् विनिःसृतम्।। 53.134 ।।
(10.ग्र. सत्यं)
शास्त्रामृतं श्रोत्रपेयं श्रोत्रतॄणां मोक्षदायकम्।
श्रुतं मया पाञ्चरात्रं क्षेमाय जगतो मुने।। 53.135 ।।
उपादिक्षं सुसूक्ष्मार्थं हरिणा प्रेषिता तव।
[भारद्वाजान्वयो वेदशिराः कौण्डिन्यसंततिः।। 53.136 ।।
कवषस्तु वसिष्ठाभिजनो भार्गवनामकः।
विश्वामित्रान्ववायश्च मरीचीति महर्षयः।। 53.137 ।।
शरणागतिधर्मज्ञाश्चत्वारो द्वयचिन्तकाः।
परमैकान्तिनो शङ्खशार्ङ्गचक्रगदांशजाः।। 53.138 ।।
चक्राद्यायुधसंभूताश्चत्वारो मुनिसत्तमाः।
ते त्वं समागमिष्यन्ति भगवद्दीक्षिता मुने।। 53.139 ।।
तेभ्य एतमुपादिश्य वैकुण्ठं सूरिसेवितम्।
आयाहि भगवत्प्रीत्यै मोदतां नित्यसूरिवत्।। 53.140 ।।
[त्वच्छिष्यवर्गान्वयजो यस्तु मूढोऽपि दीक्षितः।
स एवाराधने योग्यः पावनो ब्रह्मविन्महान्।। 53.141 ।।
अन्या भागवता नैव पूजायामावयोर्द्वयोः।
दीक्षितैरितरैर्विप्रैः कृतं यदि परार्चनम्।। 53.142 ।।
मोहेन राज्यराष्ट्राणां महान् दोषो भविष्यति।
तस्मात् सर्वप्रयत्नेन कार्यं त्वच्छिष्यवंशजैः।। 53.143 ।।]
इति श्रिया समादिष्टः श्रीप्रश्नमिति संज्ञितम्।
एतच्छास्त्रं पाञ्चरात्रं युष्मभ्योऽहमुपादिशम्।। 53.144 ।।
इदं शास्त्रं मयावाप्तं बहुकालं तपस्यता।
अत एतदभक्ताय श्रद्धाहीनाय वै क्वचित्।। 53.145 ।।
असूयवे कर्मठाय न वक्तव्यं मुनीश्वराः।
साधुभ्यो विष्णुभक्तेभ्यः पञ्चकालेभ्य एव च।। 53.146 ।।
भीतेभ्यः संसृतेर्नित्यं श्रद्धालुभ्यो विचक्षणाः।
उपादिशत यूयं(11) च पुण्यक्षेत्रादिषु क्रमात्।। 53.147 ।।
(11.ग्र. तु)
कल्पयित्वा भगवतः संनिधिं शास्त्रसंमतम्।
भगवन्तं समाराध्य स्वेष्टं प्राप्स्यथ मा चिरम्।। 53.148 ।।
[स्वार्थे परार्थे यजने यूयं मुख्याधिकारिणः।
युष्मद्वंश्याश्च ये विप्रास्तेऽभिषेच्या यथाविधि।। 53.149 ।।
तेऽपि स्वार्थे परार्थे च भवेयुरधिकारिणः।
वेदशिराः-
किं स्वार्थं च परार्थं किं वदस्व वदतां वर।। 53.150 ।।
एकतः-
सिन्धुतीरे सरित्कूले ग्रामे वा विपिनादिके।
पत्तने वा पर्वताग्रे स्वयंव्यक्तादिभेदतः।। 53.151 ।।
जगतां क्षेमलाभाय दुष्कृतां निधनाय च।
संस्थितो वासुदेवस्तु परार्थ इति कथ्यते।। 53.152 ।।
उत्कृष्टः परशब्दोऽयमर्थो मोक्षादिलक्षणः।
यस्मात् स लभ्यते सोऽयं परार्थः परिकीर्तितः।। 53.153 ।।
स एव सर्वफलदः सर्वेषां मुक्तिदायकः।
तस्मात् सर्वजनैः सेव्यः परार्थः पुरुषोत्तमः।। 53.154 ।।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्राद्यैः स्वस्वसद्मनि।
स्थापितो देवदेवस्तु स्वार्थ इत्यभिधीयते।। 53.155 ।।
पश्वारामगृहक्षेत्रपुत्राद्याः स्वार्थसंपदः।
तन्मात्रदानात् तद्देवः स्वार्थ(:) संपरिकीर्तितः।। 53.156 ।।
परार्थः सूर्यसदृशः स्वार्थस्तु गृहदीपवत्।
इति तेभ्य उपादिश्य श्रीपतिं मनसा स्मरन्।। 53.157 ।।
आत्मानं ब्रह्मरन्ध्रेण निर्गमय्य तनुं त्यजन्।
अर्चिरादिगतिं प्राप्य वैकुण्ठं पदमाप्तवान्।। 53.158 ।।

।। इति श्रीश्रीप्रश्नसंहितायां शरणागतिमुद्रादिविधिर्नाम त्रिपञ्चाशोऽध्यायः ।।(12)
(12.श्रीप्रश्नसंहितायां चतुःपञ्चाशोऽध्याय इति ग्र. पुस्तके।)
।। इति श्रीश्रीप्रश्नसंहिता समाप्ता ।।
।। श्री भूमिनीलासमेताय वासुदेवाय परब्रह्मणे नमः ।।