यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥ पूर्वातवत्स्वरः संधौ क्वचिदेव परादिवत् । टृष्टव्यो यतिचिन्तायां” यद्यादेशः परादिवत् ॥ [नित्यं प्राक्पदसंबद्वाश्चादयः प्राक्पदान्तवत् । परेण नित्यसंबद्वाः प्रादयश्च परादिवत् ॥1*
यतिः सर्वत्र पादान्ते ।
यथा ।
श्रियः श्रेयकपोलौ तु सम्पूर्णेन्दुसमप्रभौ
प्रतिबिम्ब हरेर्यत्र कस्तूरी मण्डनायते । इत्यादिनेत्वेवं यथा । नमस्तस्मै महादेवाय शशिखण्डधारिणे' । इति ।
लोकार्थ तु विशेषतः ।
यथा ।
राजसेवां विनाऽस्माकं गुणो निष्फलतामगात्- । अतःपुरपुरन्ध्रीणां अनरघ्यामिव मण्डनम् ॥ इति ।
^ पाठे पूर्वान्तवत्स्वरसंधौ ।
^ पाठे अस्पष्टमस्ति । वृत्तमौक्तिकस्थः पाठः ।
4 पाठे नास्ति । टीकायां विवरणमस्ति ।
- राजस्थानप्राच्यविदयाप्रतिष्ठानप्रकाशितराजस्थानपुरातनग्रन्थमालायां ७९तमे ग्रन्थे वृत्तमौक्तिके
यतिनिरूपणप्रकरणे अथाभिधीयते चात्र यतिर्विच्छेदसंजिता। विरामधृतिविश्रामावसानपदरूपिणी॥१॥ समद्रन्द्रियभूतेन्द्ररसपक्षदिगादयः। साकाक्षत्वादिमे शब्दा यत्या सम्बन्धमात्रिताः॥२॥ तस्मात्तु लक्षणं सम्यगुच्यते वृत्तमौक्तिके। आलोच्य मूलशास््राणि सोदाहरणमञ्जसा॥३॥ यतिः सर्वत्र पादान्ते ्चोकस्यार्थ विशेषतः। समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके॥४॥ क्वचितु पदमध्येऽपि समुद्रादौ तथैव च । अत्र पूर्वापरौ भागौ न स्यातामेकवर्णकौ।|५॥ पूर्वान्तवत् स्वरः सन्धौ क्वचिदेव परादिवत्। द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत्।।६॥ नित्यं प्राक्पदसम्बन्धाश्चादयः प्राक्पदान्तवत्। परेण नित्यसम्बन्धाः प्रादयश्च परादिवत्॥७॥
ॐ पाठे प्रतिबिम्बहरेर्यत्र ।
> पाठे शशिषण्डधारिणे ।
ॐ पाठे निःफत्रतामगात् ।