पृष्ठम्:SukavihRdayAnandinI.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7]

प्रस्तारदशितानां वृत्तानां मध्ये यद्वृत्तं नष्टं लुमं भवति तस्य नष्टस्य यो भवेदंक एकादिसंख्या तस्य अर्थऽर्धे समे च अके सति लो लघुर्भवति । विषमे एकं आधाय प्रक्षिप्य तस्यार्धऽर्ध गुरु्वेत्‌ । यथैतस्मिश्चतुरक्षरे। छदसि पंचमं वृतं नष्टम्‌ । तस्य अंकः पच स च अर्धं न प्रयच्छति । सैकः क्रियते तदा षड्भवन्ति । ते अर्ध क्रियन्ते | अर्धितास््रयो भवन्ति । तदर्थे गुरुः प्राप्यते पुनस्त्रयोऽ्धं न प्रयच्छन्ति । सैकाश्चत्वारः । तेऽपि अर्धस्तदर्थे पुनर्बन्धो गुरुदयोः समत्वात्‌ । तदर्धं लघुः प्राप्यते पुनरेकोऽ्धं न प्रयच्छति । सैकोर्दव्यः तदर्ध पुनरपि गुरुरेव लभ्यते । इत्थं नष्टस्योदाहरणम्‌ । तथा च | आद्यौ द्रौ गुरू ताभ्यां परको लघुस्ततो गुरुरिति । 5515 एतच्चतुरक्षरे छंदसि पचमं वृत्तं भवति । ४

उदिष्ट“ व्याख्यातुमाह । उद्ष्टं दविगुणानादादुपर्यकान्समालिखेत्‌ । लघुस्था ये तु तत्रंकास्तैः सेकैर्मिश्रितैर्भवेत्‌ ॥ ५

केनचित प्रस्तार्यकतमत्‌ इति संख्यापरिलाना उक्तं तदुद्धिष्टमुच्यते । पूर्वत्र वृत्तं न ज्ञायते । अतः संख्यया नष्टमुदधियते । अत्र पुनर्वृत्तं जायते संख्या न ज्ञायते अतः संख्यापरिजानार्थं उद्धिष्टमिदमुच्यते । तस्य उद्िष्टवृत्तस्य प्रथमादक्षरादारभ्य उपरि दविगुणानंकान्‌ समालिखेत्‌ । यथा । अस्मिन्नेव चतुराक्षरे छंदसि एकं वृत्तं उदष्टं तस्य दौ वर्णौ गुरु ततो लघुस्ततोऽपि गुरुः । तत्र उद्ष्ट वृत्ते लघुनि तिष्ठन्तीति लघुस्था ये पुनरकाश्चत्वारः> तैश्चतुर्भिः सेकैः एकेन सहितैः पचभिरुदिष्टं भवेत्‌ । उद्िष्टसंख्या भवेत्‌ । चतुरक्षरायां जातौ तत्पंचमं वृत्तं भवतीत्यर्थः ॥ ५

एकट्‌व्यादिलगुक्रियार्थमाह |

वर्णान्‌ वृत्तभवान्‌ सैकान्‌ ओत्तराधर्यतः स्थितान्‌ । एकादिक्रमशश्चैतानुपर्युपरि निक्षिपेत्‌ ॥ £ उपान्त्यतो निवर्तेत त्यजन्मैकैकमूर्ध्वतः । उपर्यादादरुरोरेवमेकदल्यादिलगुक्रिया ॥ ७

यावत एव वृत्तभवा वर्णा तावत एव सैकान्‌ एकसहितान्‌ यथा । चतुरक्षरजातौ चत्वारो ये वर्णास्तान्‌ सैकान्‌ पच । ओत्तराधर्यतःस्थितान्‌ उपर्युपरिभावेन स्थितान्‌ एकादिक्रमेणैव


>' पाठे चतुरक्ष छदसि(?)। 2 पाठे उद्िष्टे | > पाठे पुनरंकाश्चत्वार ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/७१&oldid=371637" इत्यस्माद् प्रतिप्राप्तम्