चन्द्रवर्त्म गदितं तु रनभसैः । ५०
यत्र रगणनगणभभगणसगणा भवन्ति तदरृत्तं चन्द्रवर्त्म गदितम् । यथा । चक्षुषी परिविमृश्य करयुगात् क्रान्तहर्यपरिशोभितवदना । चन्द्रवर्त्म कथयेत्यतिविवशा कांतमेवमवदन्निशि वनिता ॥ ५०
जतौ तु वंशस्थमुदीरितं जरौ । ५१
यत्र जगणतगणजगणरगणास्तदृत्त वंशस्थं नाम | यथा । स्ववेश्मवंशस्थमुदीक्ष्य वायसं प्रियागमासंशिनमुत्तमेगितैः 157 | जगाद काचिन्मुदिता समागते प्रिये प्रदास्यामि तवेप्सितं खग ॥ ५९१
स्यादिन्द्रवंशा ततजैः रसंयुतैः । ५२
यत्र द्वौ तगणौ जगणरगणौ!° तदृततं इन्द्रवंशा नाम यथा । आदीन्द्रवंशादिवमस्तभूरुहप्रच्छादितानेकगुहा गृहोऽपि सन् । धाराधिनाथस्य भयेन विद्रुतान् भूगोपुरिष्टान्न भवामि नेश्वरः ॥ ५२
इह तोटकमम्बुधिसैः प्रथितम् । ५३
यत्र चत्वारि सगणास्तदृत्तं तोटकं नाम । यथा । त्यज मानममानमनंतगुणं कुरु वाक्यमिदं परिणामहितम् । त्वयि" तोटकजायतनेत्रयुगे त्वरितं दयितांतिकमिन्दुमुखि ॥ ५३
द्रुतविलम्बितमाह नभौ भरौ । ५४
नगणभ्रगणौ भगणरगणौ यत्र तद द्रूतविलम्ितं नाम | यथा | द्रूतविलम्बितगेन तवारिणा क्वचिदपि स्थिरभावमविन्टता । गुरुनितम्बभरालसगामिनी प्रतिपदं स्ववधूरनृप निन्यते ॥ ५४
^" पाठे प्रियागमासंशिनमुत्तमैगतैः । > पाठे जगणरगणा ।
>१ पाठे त्वमि ।
पाठे स्ववधूर्नृपतिर्निन्यते ।