पृष्ठम्:SukavihRdayAnandinI.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आब्रह्मादीनपि संहत्य लोकान्‌ येषामन्तः सुखशायी मुरारिः ॥ ३९

म्भौ न्लौ गः स्यादुभ्रमरविलसितम्‌'“ । ४०

मगणभगणनगणा लघुगुरू च यत्र तदृतं भ्रमरविलसितं नाम । प्राच्येव यतिर्यथा!% |

त्यक्त्वा मानं चरणविपतितस्तन्मन्येऽह!5' प्रिय सखि नियतम्‌ । त्वद्क्त्राब्जभ्रमरविलसितं कर्तुं वांछत्ययमिह दयितः ॥ ४०

पञ्चरसेरश्रीर्भितनगगैः स्यात्‌ । ४१

भगणतगणनगणा द्वौ गुरू च यत्र तदृतं श्रीः! नाम । पंचभिः षड़भिर्यतिर्यथा । द्रव्यविमोहाज्जलनिधियानं संगरभूमौ त्यजति च देहम्‌ ।

कृत्यमकृत्यं गणयति नैव श्रीरसलुन्धो धरुवमिह जन्तुः ॥ ४९

कुडमलदंतीत्येके ।

रो नराविह रथोद्धता लगौ । ४२

यत्र रगणनगणरगणा लघुगुरू च तद्वृत्तं रथोद्धता नाम । यथा । लग्न एव पदयोरथोद्धतान्यायताक्षिवचनानि संवृणु । सत्रवाभिरिति!> या प्रबोधिता तां स्मरामि निजजीवितौषधिम्‌ ॥ ४२

स्वागतेति रनभाद्रुरुयुग्मम्‌ । ४३

यस्य पादे रगणनगणभगणा गुरू च तदत्त स्वागता नाम । यथा | सर्वलोकसुखदास्वपि वर्षौस्वागतासु न सुखी रिपुवर्मः | विन्ध्यवर्मनृपते तव खड़गशभ्रान्तिभाजमचिरामभिवीक्ष्य ॥ ४३

ननसगगुरुरचिता वृन्ता । ४४


4 पाठे भ्रमरविरचितम्‌ ।

> पाठे यति यथा ।

51 पाठे चरणतिपतितस्तन्मन्येऽह । 1>2 पाठे श्री नाम ।

> अस्पष्टमेव ।

38

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/३८&oldid=371604" इत्यस्माद् प्रतिप्राप्तम्