पृष्ठम्:SukavihRdayAnandinI.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

34 बृहत्याम्‌

रान्नसाविह हलमुखी । २३

यत्र रगणनगणसगणास्तदृत्तं हलमुखी नाम । यथा । निंदितां वपुषि पुरुषद्रेषिणीं विरदशनाम्‌^+। । तां सखे परिणयविधौ दूरतस्त्यज हलमुखीम्‌ ॥ २३

भुजगशिशुभृता नौ मः । २४

टौ नगणौ मगणश्च यत्र तदृतं भुजगशिशुभूता नाम । सप्तभिर्यतिरित्याम्नायः । यथा | वरतरुलवलीवल्लीकिसलयगहन्िन्नाः। | भुजगशिशुभृता रम्या मलयगिरिवनोद्देशाः ॥ २४

पक्तौ म्सौ ज्गौ शुद्धविराडिदं मतम्‌ । २५

मगणसगणजगणा गुरुश्च यत्र तदृतं शुद्धविराट्‌ नाम । यथा | कुर्वन्‌ राज्यमपीह संततं कामक्रोधविवजिंतः सदा । मित्रो मे न समोभयानतः(?) सत्यं शुद्धविराडसि प्रभो ॥ २५

म्नौ स्गौ चेति पणव नामेदम्‌ । २६

यत्र मगणनगणयगणा गुरुश्च यत्र तदृतं पणव नाम । पञ्चभिर्यतिः । यथा | यासां वक्ष्यसि घनवक्षोजे हारः संप्रति शुशुभे तारः । पादौ नूपुररववाचालौ भ्रातस्ताः पणवनिताः पश्य ॥ २६

जौ रगौ मयूरसारिणी स्यात्‌ । २७

रगणजगणरगणा गुरुश्च यत्र तद्वत मयूरसारिणी नाम । यथा |


+" अपूर्णपादाच्छदोभंगः भवतीह । 14 पाठे वरतरुलवलावल्लीकिसलयगहनक्ठिन्ना ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/३४&oldid=371599" इत्यस्माद् प्रतिप्राप्तम्