पृष्ठम्:SukavihRdayAnandinI.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नरनाथ भवंतमरीणां नाशकरं प्रसमीक्ष्य पुरस्तात्‌ । रिपवो जहति स्म भयात आपातलिकां संगरभूमिम्‌ ॥ आपातलिकां अस्थिरामित्यर्थः |

उक्तं च पिगलवृत्तौ भट्श्रीहलायुधेन । यथा ।

पिगत्रकेशा कपिलराक्षी वाचाटा विकटोन्नतटन्ती । आपातलिका पुनरेषा नृपतिकुलेऽपि न भाग्यमुपैति ॥ १४

तृतीययुग्दक्षिणांतिका समस्तपादेषु द्वितीयलः । ९५

वैतालीयमेव सर्वेष्वपि पादेषु द्वितीयो लघु तृतीयेन सह युक्तो भवति "न समाऽत्र पराश्रिता कव्रे'ति बाधित्वा तदा दक्षिणान्तिका नाम । यथा |

ववौ मरुदक्षिणान्तिको वियोगिनीनां प्राणहारकः ।

प्रकपिताशोकचम्पके वसन्त एषोऽनंगबोधकः ॥ १५

उदीच्यवृततिर्दितीयलः सक्तोऽग्रयेण^* भवेदयुग्मयोः । १६

अयुग्मयोः प्रथमतृतीययोः पादयोः द्वितीयो लघुरगिमेन तृतीयेन लघुना सह युज्यते तदा वैतालीयमेवोदीच्यवृत्तिर्नाम यथा ।

गिरं मनोज्ञां पिकांगना मुदिताश्िक्यत्स्वयमुद्रिरत्यसौ ।

उदीच्यवृत्तौ दिवाकरे सहकारोऽपि तनोति मञ्जरी ॥ १६

पूर्वेण युतोऽथ पंचमः प्राच्यवृत्तिरुदितेति युग्मयोः । १७ लघुरित्यनुवर्तते । समपादयोद्वितीयचतुर्थयोः पंचमो लघुः पूर्वेण” चतुर्थेन लघुना सह युक्तो यदा स्यात्तदा प्राच्यवृत्तिनीम वैतालीयं भवति । यथा ।

स्वगुणैरनुरंजितप्रजः प्राच्यवृत्तपरिपालने रतः । रणभूमिषु भीमविक्रमौ विध्यवर्मनृपतिर्जयत्यसौ ॥ १७

यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम्‌ । १८


% पाठे आपातिका । % पाठे उदीच्यवृतिरदवितीयसक्तोऽग्रयेण । % पाठे लघुपूर्वेण ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/१९&oldid=371585" इत्यस्माद् प्रतिप्राप्तम्