पृष्ठम्:SukavihRdayAnandinI.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"एतासां राजति सुमनसां दामकण्ठावलम्बी'ति । “संतापं मे जनयति नितम्बोऽयमिन्दीवराक्ष्या' इति ।

पूर्वान्तवत्स्वरः संधौ क्वचिदेव परादिवत्‌ ।

अस्यार्थः । यो यं पूर्वपरयोरेकदेशः स्वरसंधौ विधीयते स क्वचित्पूर्वान्तवद्भवति क्वचित्परस्यादिवत्‌ ।

पूर्वान्तवद्यथा ।

स्यादस्थानेऽपगतयमुनासंगमे वाऽभिरामा । तथा । जम्भारातीभकुम्भोद्धवमिव दधतः सान्द्रसिन्दूररेणुम्‌ इति । परादिवद्वावो यथा । ममैव व्यायोगे ।

ये स्वारातिविदारितास्यसहसैवाभूद्विभिन्नं रणे

वामांगं कलकिकणीफलकवन्निस्तृंशवद्क्षिणम्‌ ।

एकं घातनिपातदत्तमितरद्धातप्रतीकारकृद्‌-

धन्यः पश्यति युध्यमानमिति सस्वांगं विमानस्थितः ॥ इत्यादि ।

यद्यादेशः परादिवद्‌ ।

यथा |

“सप्तर्षिहस्तावचितावशेषण्येऽधो विवस्वानि'ति ।

आदिशब्दात्‌ “विततघनतुषारः क्षोदशुभ्रांशुवत्म“ स्वविरले'त्यादि ।

नित्यं प्राक्पदसंबद्धाश्चादयः प्राक्यदान्तवत्‌' । तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः । यथा । (स्वादुःस्वच्छदसतिलमिदं प्रीतये कस्य न स्यादि'ति ।

परेण नित्यसंबद्ाः प्रादयश्च परादिवत्‌। तेभ्यः परा यतिर्न कर्तव्येत्यर्थः | यथा । दुःखं मे प्रक्षिपति हृदये दुःसहस्तद्वियोगः' इत्यादि सर्वमूह्यम्‌ ॥ १२

युक्समं विषमं चायुक्स्थानं सद्धिर्निगयते । १३८१) प्रथमतृतीयादिकं स्थानं अयुक्‌ विषमं द्वितीयचतुर्थाीदिकं स्थानं युक्सममिति ।

अथ वृत्तभेदानाह ।


© पाठे क्षोदसुभ्रांशुवर्त्म । ° पाठे प्राक्पदान्तवत्सु ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/१०&oldid=371376" इत्यस्माद् प्रतिप्राप्तम्