पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः ४१ तथा मध्यमगत्या कल्पादितो मध्यमज्ञानम् । तस्य मध्यमस्य मन्दस्पष्टस्य यदन्तरं तन्मन्दफलं तदपि परमं ज्ञात्वा प्रात्यहिकमन्दफलसाधनं च सुगमम् । 'बुधशुक्र- योस्तु परमाधिकपरमाल्पशीघ्रकर्णावगतशीघ्रोच्चगतितोऽभीष्टशीघ्रोच्चं ज्ञेयम् । शरा- भावे शीघ्रोच्चं चक्रशुद्धं पातः स्यात् । वेधसिद्धेष्टशरावगतभौमादिसपातमन्दस्पष्ट - धनुर्वत् सिद्धे धनुषि शीघ्रोच्चपातौ संस्कार्यम् । बुधशुक्रयोर्मन्दफलं सुधिया वेद्यम् । इदं मनसि सम्प्रधा 'स्फुटग्रहं मध्यखगं प्रकल्प्य' इति ग्रहमध्यगतिज्ञानमुक्तं भाष्य- कृता। स्पष्टे विलोममन्दफलसंस्कारेण शीघ्रोच्चज्ञानमुक्तम् | विलोमशीघ्रफलसंस्कृत- स्पष्टान्मन्दोच्चज्ञानमुक्तम् । इतरेतराश्रपदोषस्तु दोषाभास इति प्रागप्यभिहितमिति ध्येयम् । यद्वा युगपदेव कूपोद्धृतपुरुषवन्मन्दोच्चशीघ्रोच्चग्रहभगणानभिज्ञस्तं ३ प्रति भगणज्ञानमाचार्येण नोपपाद्यते । किन्तु मन्दोच्चभगणग्रहभगणाभिज्ञं प्रति चलोच्च- भगणज्ञानम् | चलोच्चभगणग्रहभगणज्ञानाभिज्ञं प्रति मन्दोच्चभगणज्ञानम् । मन्दोच्च- भगणचलोच्चभगणज्ञानं ( चणं ४ ) ( वा क्षणं ? ) प्रति मध्यग्रहज्ञानोपायः प्रतिपाद्यत इति न किञ्चिद्विरुद्धम् । यत्तु पूर्वमुक्तं पत्र परमश्चलकर्णस्तत्र यावान् ग्रहस्तावदुच्चम् । परमकर्ण - त्रिज्ययोश्चान्तरमन्त्यफलज्येति । तत्र परमाल्पकर्णे नीचतुल्यत्वम् । ततोऽन्त्यफल- ज्याज्ञानमिति योज्यम् । यस्माच्छीघ्रोच्चतुल्ये किल परमकर्णस्तत्र ताराग्रहाणामस्त- ङ्गतत्वात् तेषां छायोपलम्भासम्भवः । कथं पुनर्मन्दस्पष्टतुल्ये शीघ्रोच्चेऽस्तमयः । उच्यते । कुजगुरुशनीनां मध्यमार्कश्चलोच्चम् | यदा च स्पष्टग्रहार्कविवरं स्वस्वकालां- शाल्पं तदाऽस्तमनम् । तत्र शीघ्रोच्चतुल्ये मन्दस्पष्टे मन्दस्पष्टग्रहस्पष्टार्कयोरन्तरं परमं परमार्कमन्दफलतुल्यमेव स्यात् । ननु बुधशुक्रयोः शीघ्रनीचतुल्यत्वे मन्दस्पष्टस्यैव स्पष्टत्वान्मंध्यमयोश्च तयो- मध्यमार्कतुल्यत्वादस्तमयो दुनिवारः स्यात् । तंत्रोच्यते । यदा च मध्यमयोस्तुल्यत्वेन शुक्रार्कयो: स्पष्टयोरपि कदाचित्तुल्यता स्यात्तदा विम्बैक्यार्धांच्छरस्य न्यूनतायां जातायां रखेरधः स्थितत्वेन परमास्तकाले बुधशुक्रयोरादर्शादौ दर्शनं भविष्यतीति न किञ्चिद्बाधकम् । ६ ननु को नाम मध्यः कश्च मन्दस्पष्ट : किञ्च तयोः स्पष्टादन्यथात्वे कारणम् । यद्यतात्विकता तयोस्तर्ह्यलं तच्चिन्तया । अतात्त्विकसाधितस्य कथं याथार्थ्यमिति चेत् । उच्यते । श्रूयतामवधानेन । नक्षत्राणां ग्रहाणाञ्च पूर्वस्यामुदयदर्शनात् पंश्चि- १. व शुक्र इति क ग पु० । ३. महभगणभिज्ञः, कपु० पा० । ५. मध्यमार्क एव चलोच्चमिति पाठः साधु प्रतिभाति । ६. र्द्धद्दरस्य गपु० द्धक्षरस्य क ख पु० । सि० - ६ २. मन्दाच्च ख पु० । इति क ख ग पु० । ४.