पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सिद्धान्तशिरोमणौ ग्रहगणिते प्रोता मणय इव चन्द्रादयो ग्रहा अश्विनीस्था : पूर्वापरान्तराभावादुच्यन्ते । एवं भमण्डलं विभज्य चन्द्रादिकक्षासु प्रोक्तदिशा भूगर्भात् सूत्रसंपात राश्यंशकलाविकला- कल्पनया ग्रहसंस्थां भमण्डले वर्णयन्तीति न किञ्चिद्विरुद्धम् ॥ १३-१४ ॥ इदानीमनाद्यनन्तस्य कालस्य प्रवृत्तिमाह । लङ्कानगर्यामुदयाच्च भानोस्तस्यैव वारे प्रथमं बभूव । मधोः सितादेर्दिनमासवर्षयुगादिकानां वा० भा० – ननु पूर्वंटीकायामनादिरनन्तश्च कालोऽभिहितः । अथ च सृष्ट्यादौ तस्य प्रवृत्तिः । प्रवृत्तिर्नाम आदिः । प्रलये तदन्तः । तथा च शास्त्रान्तरे | युगपत् प्रवृत्तिः' ।। १५ ।। " काल: पचति भूतानि सर्वाण्येव सहात्मना । "} कान्ते स पक्वस्तेनैव सहाव्यक्ते लयं व्रजेत् ॥' इति तत् कथमनाद्यनन्तः काल उच्यते । सत्यं योऽयं भगवान् मूर्ती व्यापकश्च कालस्तस्य प्राक्तन प्राकृतिकलयावनन्तरं व्यक्तिजनकानां सूर्यादीनामभावावव्यक्तस्याव्यक्ते यववस्थानं स तस् लय उच्यते । न त्वात्यन्तिकः प्रलयः कालस्यास्तीति । यत् तुक्तम् । कान्ते स पक्वस्तेनैव सहाऽ- ध्यक्ते लयं व्रजेविति तत् तेनैवाव्यक्तावस्यानाभिप्रायेण । अतो युक्तमनाद्यनन्तत्वं तस्योक्तम् । तस्याव्यक्तस्य कालस्य सृष्ट्यादौ व्यक्तिजनकानां भग्रहाणां प्रादुर्भावे सति कालस्य व्यक्तीनामपि दिनमासवर्षंयुगादीगां युगपदेकहेलया प्रवृत्तिबंभूव । एतदुक्तं भवति । चन्द्रार्कयोर्मेषादिस्थयोश्चे- त्रस्य शुक्लपक्षादिः प्रतिपत् । अतो मधोः सितादेदिनानां सौराविमासानां वर्षाणां युगानां मन्वन्तराणां कल्पस्य च तदैव प्रवृत्तिः । अथोदयाच्च भानोः । स चोदयः कस्मिन् देशे । लङ्का- नगर्याम् । तथा तस्यैव वारे आदित्यवार इत्यर्थः ।। १५ ।। वा० वा० – इदानीं कालस्य प्रवृत्तिमाह लङ्कानगर्यामिति । कल्पादिकालस्य युगपत्प्रवृत्तिर्नामादिर्बभूव । कालो द्विविधः नित्योऽनित्यश्च । नित्योsनित्यश्च कालौ द्वौ तयोराद्यः 'परेश्वरः । सोऽवाङ्मनोगोचरश्च देही भक्तयनुकम्पय इति । १. अत्र विष्णुधर्मोत्तरपुराणान्तर्गतब्रह्मसिद्धान्ते श्रीमद्भगवद्भृगुसंवादे भगवद्वाक्यम् | “लङ्कायामदये चैत्र शुक्ल प्रतिपदारम्भेऽर्कदिनादावश्विन्यादौ किस्तुघ्नादौ रौद्रादौ कालवृत्तिः ।” अत एव ब्रह्मगुप्तः ब्राह्मस्फुट सिद्धान्ते “चैत्रसितादेरुदयाद्भानोदिनमासवर्षंयुगकल्पाः । सृष्टयादौ लङ्कायां समं प्रवृत्ता दिनेऽर्कांस्य ॥ ( १ अ० ४२ श्लो० ) अन्यच्च सिद्धान्तशेखरे 'मधुसितप्रतिपद्दिवसादितो रविदिने दिनमासयुगादयः दशशिर : पुरि सूर्यसमुद्गमात् समममी भवसृष्टिमुखेऽम । ( १ अ० १० श्लो० ) ३. परमेश्वर ख पु० । २. नित्यो जन्यश्च ख ग० पु० ।