पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४२ मे ११ ] दशमै मण्डलम् बृह॒स्पति॑ने॒ परि॑ पातु प॒श्रादु॒तोत्त॑रस्मा॒दध॑रा॒दधा॒योः । इन्द्र॑ पु॒रस्ता॑हु॒त म॑ध्य॒तो नः॒ सखा सखा॑भ्यो॒ वरि॑वः कृणोतु ॥ ११ ॥ बृह॒स्पति॑ । नः॒ । परि॑ । पा॒ातु॒ । प॒श्चात् । उ॒त । उत्त॑रस्मात् । अर्धरात् । अ॒प॒ऽयोः । इन्द्र॑ः । पु॒रस्ता॑त् । उ॒त । म॒थ्य॒तः । नः॒ः । सखा॑ । सवि॑ऽभ्यः । वरि॑वः । कृ॒णोतु ॥ ११ ॥ उद्गीथ० बृहस्पतिः बृहतो मद्दतः पतिः इन्द्रः नः अस्मान् परि पातु परिरक्षतु पश्चात् अस्माकं पृष्ठतः स्थितादित्यर्थः, उत अपि उत्तररमात् अधरात् पुरस्तात् मध्यतः समीपतश्च स्थितादित्यर्थः, अघायोः संघ पापं वधादिलक्षणम् अस्माकं कर्त्तुं कामयमानादित्यर्थः । परिरक्ष्य च नः अस्माकम् सखा इन्द्रः सखिभ्यः सखिभूतेभ्यः अस्मभ्यम् वरिवः धनम् कृणोतु फरोतु, ददात्वित्यर्थः ॥ ११ ॥ बेट० सर्वाभ्यो दिग्भ्यो योऽघायुरागच्छति, ततोऽस्मान् इन्द्रावृहस्पती परि पाताम्। अपिश्च सखा इन्द्रः सखिभ्यः अस्मभ्यम् धनम् कृणोतु ॥ ११ ॥ इति सप्तमाष्टके अष्टमाध्याये ग्रयोविंशो वर्गः ॥ ३४३५ [ ४३ ]

  • कृष्ण आङ्गिरस ऋषिः । इन्द्रो देवता । जगती छन्दः, अन्त्ये त्रिष्टुभौ ।

अच्छ॑ म॒ इन्द्र॑ म॒तय॑ः स्व॒र्विद॑ः स॒धीच॒ीर्विश्वा॑ उश॒तीर॑नूपत । परि॑ ष्वजन्ते॒ जन॑यो॒ो यथा॒ पति॒ मये॒ न शु॒न्ध्यं॑ म॒घवा॑नमृ॒तये॑ ॥ १ ॥ अच्छ॑ । मे॒ । इन्द्र॑म् । म॒तय॑ः । स्व॒ऽविदे॑ । स॒ध्रीची॑ः । विश्वा॑ः । उ॒श॒तीः । अ॒नुप॒त॒ । परि॑ । स्व॒जन्ते॒ । जन॑यः । यथा॑ । पति॑म् । मर्य॑म् । न । शु॒न्ध्युम् । म॒घवा॑नम् । उ॒तये॑ ॥ १ ॥ उद्गीथ० अच्छशब्दोऽम्र अभ्यर्थे मे मम स्वभूताः मतयः । प्रख्यापयिग्य इत्यर्थः सध्रीचीः सहाञ्चनाः उशतीः इन्हें कामयमानाः । अभिष्टुरय च प्रीतिजननार्थमित्यर्थः ॥ १ ॥ अच्छ अनूषत अभिष्टुवन्ति इन्द्रम् अनूपतेत्यनेन च सम्बध्यते । कीदृश्यः । स्वर्विदः स्वः - शब्दोऽत्र सर्वपर्यायः । सर्वगुणावे दिन्यः सहपूजा वा विश्वाः सर्वप्रकाराः सहगमनाः परि स्वजन्ते ऊतये अवतिरत्र प्रीत्यर्थः । प्रीतये चेङ्कट० अभिष्टुवन्तिमम इन्द्रम् स्तुतयः सर्वस्य लम्भयिञ्यः सङ्गताः व्याप्ताः कामयमानाः | पर स्वजन्ते, जायाः यथा पतिम्, मर्यम् न मनुष्यम् इव च शुद्धम्, मघवानम् रक्षणा- याऽऽयम् ॥ १॥ न घा॑ त्य॒द्भिगप॑ वेति मे॒ मन॒स्त्वे इत् काम पुरुहूत शिश्रय । राजे॑व दस्मि॒ नि प॒दोऽधि॑ व॒हि॑िष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥ २ ॥ १. करोति वि. अ. २. ददानीत्यर्थः मूको. ३. इन्द्र मूको. ४-४. नास्ति मूको. ५. "गुणावेधः मूको. ९. पति: मूको. १०. उत्तरार्धस्य कृते ७. या मूको, ८० नास्ति वि. ६. सहनाः मूको. सु. १,६२, ११,१८६७.