पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् ३१९९ सू. ११४, ४ ] घेङ्कट सप्त दिशः भवन्ति । नानासूर्याः इति ऋवभिप्रायमाहुः । 'नानाऋतूनां नानासूर्यत्वम् ( तैआ १, ५,६ ) । सप्त च होतारः वषट्पतरः ऋजि तथा देवा अदितेः पुत्राः सप्त । 'अटो पुत्रासो अदिते.' ( ऋऋ १०, ७२, ८ ) इत्यत्रोक्ताः । तैः सर्वैः सोम | अस्मान् अभि रक्ष इति ॥ ३ ॥ यत् ते॑ राजव्छृत॑ ह॒बिस्तेन॑ सोम॒भि र॑क्ष नः । अ॒रावा मा न॑स्तारी॒न्मो च॑ नः॒ः किं च॒नाम॑म॒दिन्द्रा॑येन्द्रो॒ परि॑ स्रव ॥ ४ ॥ यत् । ते॒ । राजन् । शृ॒तम् । ह॒विः । तेन॑ । स॒ोम॒ । अ॒भि । र॒क्ष । नः॒ः । अरा॑ति॒ऽया । मा । नः॒ः । त॒र्य॑त् । मोइति॑ । च॒ । नः॒ः । किम् । चुन | आममत् । इन्द्रा॑य । इ॒न्द्रो॒ इति॑ । परि॑ । स्रव ॥ ४ ॥ वेङ्कट० यत् ते राजन् ! सोम ! श्रुतम् हविः, तेन सोम ! अस्मान् अभि रक्ष । मा अस्मान अराविश्ववानू शत्रुः वधीत् । मा एव अस्माकम् किञ्चिदपि अरातीवा हिंसीद् इति ॥ ४ ॥ " इति सप्तमाष्टके पक्षमाध्याये अष्टाविंशो वर्ग.५ ॥ इति ऋग्वेदे सभाप्ये नवमं मण्डलं समाप्तम् n २. कलिग्भिः प्राथ° विभः ऋलिमिः प्राय* वि. ३. ते अ 3. नास्ति वि अ. . ५.५. नास्ति मूको, - ४०० ४. इत्यभिप्रायः