पृष्ठम्:Rekha Ganita.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ४ जचिहं भविष्यति यदा भुजद्वयं समानं भविष्यति वा अजभुजा द्वहिः पतिष्यति यदा अब अजादधिकं स्यात् वा अजोपरि पति ध्यति यदा अब अजादूनं स्यात् । पुनर्नअजकोणो जबअकोण तुल्यः स्याततो अनरेखा उत्पाद्य यथा झवभुजे कचिहे संपातं करि ष्यति । तदा कचिहं वचिहं भविष्यति यदि अर्ब अजसमानं वा झ्वोपरि पतिष्यति यदि अब अजादधिकं स्यात् वा झवाद्वहिः पतिष्यति यदा अवं अजात्यूनं स्यात् । ततो दबरेखा झकरेखा च उत्पाद्य यथा तचिहे संपातं करिष्यति । एवं अबजत्रिभुजे अकझत्रिभुजे च अबभुजो बअजकोणः अ बजकोणश्च अक्षभुजेन अझककोणेन झअककोणेन च समानस्तदा अकं बजसमानं जातम् । दबसमानं च बतं अकसमानं जातम् । अतक्षेत्रं दनक्षेत्रेण समानं जातम् । अबवझसमकोणसमचतुर्भजे नापि समानं जातम् । तदा दनक्षेत्रं अबभुजस्य समकोणचतुभुज क्षेत्रेण समानं जातम् । अनेन प्रकारेण अजभुजस्य समकोणसमचतुर्भजं क्षेत्रं जलचतुः भुजक्षेत्रेण समानं भविष्यति । पुनः अजभुजस्य समकोणचतुभुजक्षेत्रं अबजत्रिभुजोपरि पातनीयं वा अबजत्रिभुजाद्वहिः पातनीयम् । इदमेवास्माकमिष्टम् । • अतक्षेत्रेण दनक्षेत्रं समानं जातम् D. K. २ इदमेवेष्टम् A. B.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१२९&oldid=150693" इत्यस्माद् प्रतिप्राप्तम्