[१]जगति जनापवादः। लोकप्रत्ययार्थमस्यैवार्थस्याभिव्यक्तये पिता ते
चाणक्येन घातित इति रहसि त्रासयित्वा भागुरायणेनापवाहितः
पर्वतकपुत्रो मलयकेतुः । शक्यः खल्वेष राक्षसमतिपरिगृहीतोऽपि
[२]व्युत्तिष्ठमानः प्रज्ञया निग्रहीतुम् । न पुनरस्य निग्रहात्पर्वतकवधोत्पन्नं
[३] राक्षसस्यायशः प्रकाशीभवत्प्रमार्ष्टुमिच्छामि । प्रयुक्ताश्च स्वपक्षपरपक्षयोरनुरक्तापरक्तजनजिज्ञासया बहुविधदेशवे[४]षभाषाचारसंचारवेदिनो नानाव्यञ्जनाः प्रणिधयः। [५]अन्विष्यते च कुसुमपुरवासिनां
नन्दामात्यसुहृदां नि[६]पुणं प्रचारगतम् । तत्तत्कारणमुत्पाद्य कृत[७]कृत्य-
तु मलयकेतौ प्राय एनमेव परिगृह्य प्रत्यवतिष्ठेत । तदानेनैव जनापवादेन निर्वहणे जीवसिद्धिप्रत्यायितेन राक्षसमलयकेत्वोर्विरोधं संपाद्य कार्यप्रनाड्या राक्षसो वशयितुं शक्यः स्यादिति भावः । वक्ष्यति चैतद्वनगज इव तस्मात्सोऽभ्युपायैर्विनेय इति ।
प्रज्ञयेति । प्रज्ञया निर्वहणे संपत्स्यमानयाधुनैव निग्रहीतुं शक्यः । तन्न युक्तमित्याह--न पुनरस्येति । मलयकेतुर्निगृहीतश्चेत् पर्वतकवधोऽपि मयैव कृत इति स्यात् । ततश्च राक्षसोपरि पातितमयशः परिमार्जितं स्यात्तथा सति निर्वहणे कुटिलनयेन संविधास्यमानो राक्षसमलयकेतुविरोधो न सिद्ध्येदिति भावः ।
निपुणेति । निपुणं गूढत्वेन क्रियमाणं प्रचारगतं कपटाचरणप्रकारः तत्तत्कारणं ‘स्त्रीमद्यमृगयाशीलौ’ इत्यादि तृतीयाङ्के (१७२ पृष्ठे)वक्ष्यमाण-
- ↑ जगति om. in A.; जगतीं M.; R. and M. have °स्यानभिव्यक्तये; E. has अस्य चार्थस्यैवाभिव्यक्तये.
- ↑ R. has उत्ति. ; बुद्ध्या for प्रज्ञया B, निवारयितुम् B. E. H. and N.
- ↑ राक्षसस्य om. B. E. P. N; स्यापयश: for स्यायश: R. M.; प्रमार्ष्टुमिति E. and H.; प्रमार्ष्टुमलमिति. B.; B. and N. add अन्यच्च before प्रयु° for which N. E. read सुनियुक्ताश्च; B. नियुक्ताश्च. B. adds मया after प्रयु° and om. one पक्ष.
- ↑ B. and R. omit वेष, B. reading वेश after भाषा.
- ↑ अन्विष्यन्ते and गतयः at the end of the sentence B. E. H. and Nagpur MSS.; B. E. and M. read निवासिनाम्.
- ↑ निपुणतरं B.; मापाद्य for मुत्पाद्य P.; तत्तत्कृत्यतायामापा P.
- ↑ Dhruvaproposes कृतक.