( उत्थाय आ[३]काशे लक्ष्यं बद्वा।) एष दुरात्मनो भद्रभटप्रभृतीनाह[४]रामि । ( आत्मगतम् ।) दुरात्मन् राक्षस केदानीं गमिष्यसि ।
एषोऽहमचिराद्भवन्तम्
( इति निष्क्रान्ताः सर्वे ।)
प्र[७]थमोऽङ्कः।
स्वच्छन्दमिति । स्वच्छन्दं निरङ्कशं स्वपक्षमनाश्रित्य विजातीयं परपक्षं कथमाश्रितोऽसीति तव कोऽपि नियन्ता नास्तीत्यर्थः । एकचरमिति । वयसन्न नन्दवंशसंबन्धिनः सर्वे स्वजना वर्तामहे तान्विहाय तत्रैकश्चरसीति भावः। उज्वलदानशक्तिं परकृत्योपजापाथै महता कोशसंचयेन स्थापित: शकटदास इति वक्ष्यमाणबहुव्ययकारिणम् । उत्सेको दुरभिमानो अरातिहस्तगतो विनयेन्न तु चन्द्रगुप्तेन संदधीतेति षष्ठाङ्के वक्ष्यमाणदुरभिमानवता मदबलेन विगाहमानमस्मदपकाराय चेष्टमानं त्वामारण्यकं गजमिव प्रगुणीकरोमि । यथा आरण्यको दुष्टगजः शनैर्गर्तपाद्दृढरज्जुबन्धनादिनोपायेन संवाहनादित्रियायां प्रगुणीक्रियते वशीक्रियते । एवं त्वामतिसंकटे पातयि-
- ↑ अर्थ for एव B, andH.
- ↑ नन्दोपटन. E.
- ↑ G. E. om. all आकां--बद्व; B, has प्रत्यक्षवत् before आका°. B adds खलु after एष.
- ↑ भद्रमुखः G; for आहरामि G. reads ग्राहयिष्यामि; F. and H. ग्राहयामि; M. and G. have स्वग° for आत्मगं' which follows; R. has आः before दुरात्मन्; G. and E. om: इदानीम् which follows; B. N. G. E. read यास्यसि for गमिष्यसि
- ↑ उत्सेकिनम् R; बलमदैन B. E. G. H.विगाह्यम° R. G. E.; विदह्यमानम् H.
- ↑ M. has प्रवणं करोमि; R. प्रवणीकं .
- ↑ Before this B. has इति मुद्राराक्षसे; P: has इति मुद्राराक्षसनाम्नि नाटके युद्धलाभः;A. has मुद्रलाभो नाम; N. has इति मुद्रालाभो नाम and समाप्तः afterअङ्कः