पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
अत्र महिषीनिर्देशात् एष पुरुषमेघो राजन्यस्यैवेतिक्तव्यम् । राजा
सोमकः एकतनयस्य जन्तोः स्थाने सुतशतं प्राप्तुमिच्छन् पुरुषमेधम-
करोत् । सोमकः सुतशतं प्राप्य अन्ते पुण्यलोकमवाप । तत्पुरोधास्सु
नरकं प्राविशत् । तं नरकान्मोचयितुं सोमकेन संचालितः यत्नः निष्पलः
एवाभूत् । अत्र पुरुषमेधः ब्राह्मणस्य नरकफलदोऽपि क्षत्रियस्य पुण्य-
लोकसंपादक इति स्पष्टम् । तदुक्तं ब्रह्मनन्दीयशाक्तानन्दतरंगिण्यां-
'नरबलिस्तु राज्ञामेव राजा नरबलिंदद्यान्नान्योऽपि परमेश्वरी ” इति ॥
"
-
एवं वेदपुराणतत्रादिषु परामृष्टेषु इदं वक्तुं शक्यते – यत् पुरुष-
मेघः पूर्वं धर्म इति ब्राह्मणेराचरितः पश्चादधर्म इति परित्यक्तः ।
एवंसतीतरे वर्णाः मुख्यतः क्षत्रिया तमेव धर्मबुद्धया आचरितवन्तः ।
एक एव आचारः ब्राह्मणानां धर्मः क्षत्रियाणामधर्म इत्येतत् ब्रह्मक्षत्रयोः
मनोभूमिकाभेदं सुस्पष्टं व्यनक्ति ॥
4. अनुमरणम्.
भर्तृमरणे सत्या अनुमरणमपि पूर्वोक्तमेव मनोभेदं प्रकाशयति ।
ऋगाथर्वणवेद निरूपिते कालेऽपि अनुमरणं न परमार्थतः किन्तु अनु-
शयनरूपेण केवलमाचरितमिति दृश्यते । स्त्री भर्तृशरीरसमीपे चित्यां
शिश्ये । तदा (ऋग्वेदे X 18, 8 ) पुनरुत्थापिता सती दिधिषुं प्रति
पुनरुपयमार्थं प्रेषिता बभूव । गौतमानुमता देवरेण सुतोत्पत्तिरपि स्त्रियाः
अनुमरणाभावमेवानुबोधयति । मासषट्कपर्यन्तं वसिष्ठः, एकवत्सरपर्यन्तं
बोधायनः, यावज्जीवं मनुः विधवायाः ब्रह्मचर्यमनुशास्ति । विष्णु-
बृहस्पत्यादयः केचन स्मृतिकाराः अनुमरणमैच्छिकमाहुः । परा-
शरस्तु अनुमरणं ब्रह्मचर्यतश्श्रेय इति श्लाघते । पैठीनसिः, अंगिराः,
व्याघ्रपादश्च ब्राह्मणविधवायाः अनुमरणं प्रतिषिध्य तद्ब्राहणेतरस्त्रीणां