पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दपाठसंशोधनम् .
II
१. एवं च 'मालिन्यमब्जशशिनोर्मधुलिका विति श्लोके
सुन्दरीं प्रति कस्यचिद्रसिकस्योक्तिरियमिति व्याचक्षाणानां विचक्षणानां
भाषितं वरदराजस्तवानालोकनमूलकमिति सुश्लिष्टम् ॥
कुवलयानन्दोदाहृतानि
-
(१) 'उद्घाट्य योगकलया हृदयाब्जकोशम् '
(२) 'मोहं जगत्त्रयभुवामपनेतुमेतत् '
(३) 'भानुर्निशासु भवदङ्घिमयूखशोभाः '
(४) ‘नाथ त्वदंघ्रिनखधावनतोयलग्नाः
,
6
(५) 'नामैव ते वरद वांछितदातृभावं'
(६) · आश्रित्य नूनममृतद्युतयः पदं ते '
(७) ‘त्वद्वक्तूसाम्यमयमम्बुजकोशमुद्रा'
(८) 'मालिन्यमब्जशशिनो: '
(९) 'तापत्रयौषधपरस्य तव स्मितस्य '
एतानि कुवलयानन्दस्थानि नव पद्यानि वरदराजस्तवीयानि । तत्र
उद्धाट्ययोगेति पद्ये अनेकेषु दीक्षितग्रन्थेषूपलब्धमपि वरदराजस्तवे
दीक्षितैरेव स्वयं सम्यग्व्याख्यतम् । तादृशं व्याख्यानं व्युत्पित्सु -
व्युत्पन्नजनोपयोग्यमवश्यं दर्शनीयमित्यभिप्रेमः ॥
.
अत्र श्लोके श्लिष्टमुकुन्दपदस्य नवनिध्यन्यतमवाचकत्वेन तत्पर
तया चन्द्रिकाकारादिभिरप्रदर्शितमपि रसिकसञ्जीविनीकारेण संगृहीतं
बर्तते । चेदपि वरदराजस्तवव्याख्यानावलोकनेन यावानानन्दसन्दोह-
८८