पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मजिज्ञासा
मिति कदाप्यनिष्टानुबन्ध्येव यत्तु ऐहिकामुष्मिक सुखद्वयसाधकं स धर्म
इत्युक्तौ तादृशसाधनं कीदृशामिति निर्णेतुमशक्यतया धर्मलक्षणं सन्दि-
ग्धमेव भवति । एतेन सुखसाधनं धर्म इति कैश्चित्पाश्चात्यविद्वाद्भः
निरुक्तं लक्षणमपि निरस्तम् ||
अपरे के चन पाश्चात्यविद्वांसः प्रतिभाप्रेरणया क्रियमाणं कर्म
धर्म इति वदन्तः प्रतिभायाः (Intuition) प्रवतर्कत्वं वदन्ति ।
प्रतिभावादिपक्षः श्रीमता मण्डनमिश्रेण स्वीये विधिविवेके २५२तमे
पुढे विशदीकृतः । “ प्रतिभानेत्रोऽहि लोकः इति कर्तव्यतासु
66
समीहते " तदुक्तम्-
"
इतिकर्तव्यतायां तां न कश्चिदतिवर्तते ।
प्रमाणत्वेन तां लोकस्सर्वस्समनुगच्छति ॥
व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ।
स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलः कथम् ॥
जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम् ।
आहारप्रीतिविद्वेषप्लवनादिक्रियासु च ॥
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ।
इति यत्कर्तव्यं तत्र प्रतिभैव प्रमाणम् । प्रतभैव प्राणिनां तृतीयं
नेत्रम् | न केवलं जनाः तिर्यञ्चोऽपि प्राणिनः स्वयां प्रतिभामेवानुसृत्य
व्यवहरन्ति जीवन्ति च । वसन्तोदये पुंस्कोकिलः स्त्रीकोकिलाह्वानाय
प्रतिभाबोधित एव स्वीयस्वरं विकुरुते । प्रतिभाबोषिता एव पक्षण:
काले नीडादिकं रचयन्ति । तिर्यक्षु प्रतिजातिप्रसिद्धानि आहार-
प्रीतिद्वेषप्लवनादिकर्माणि प्रतिभैव बोधयति । न हि श्वा मार्जाल
शत्रुरिति प्रतिभां विना अन्यः कश्चन न बोधयति श्वमार्जालम् ।
एतेन प्रतिभैव प्रवर्तिका । प्रतिभाप्रेरणया प्राणिभिर्यत्क्रियते स धर्म