पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुढाकार शिरोमणिः
.
अत्र ट्र्यादिषु नवसु च्छेदेषु द्विसंख्याकस्यास्य त्रिसंख्यस्य
द्वितीयस्य चापवर्तकाभावादनयो संवर्गः षट्संख्यः । अयमादितो द्वयो-
श्छेदयोर्निरम्रो भाज्यराशिः । अथास्य च चतुस्संख्याकस्य तृतीयस्य
चापवर्तको द्विसंख्यः । अनेनापवर्तितयोः क्रमात् त्रिद्विसंख्याकयो -
रेतयोर्वधोऽपि षट्संख्यः । अयमपवर्तकेन द्विकेन गुणितः सूर्य (१२)
संख्यः । अयमादितस्त्रयाणां निरग्रो भाज्य: । अथास्य च पश्च-
संख्यस्य चतुर्थस्यचापवर्तकाभावादनयोर्घातः षष्टिसंख्यः । अयं चतुर्णां
निरम्रो भाज्यः । अथास्य च षट् संख्यस्य पञ्चमस्य चापवर्तकः षट्-
संख्यः । अनेनापवर्तितयोः क्रमाद्दशैकसंख्ययोरेतयोरभ्यासो दशक -
संख्यः । अयमपवर्तकेन षट्केन गुणितः षष्टिसंख्यः । अयमादितः
पञ्चानां छेदानां निरग्रो भाज्यराशिः । अथास्य सप्तसंख्यस्य षष्ठस्य
चापवर्तकाभावादनयोर्वधो नखवेद (४२०) संख्यः । षण्णां निरम्रो
भाज्यः । अथास्य चाष्टसंख्यस्य सप्तमस्याचापवर्तकश्चतुस्संख्यः । अने-
नापवर्तितयोरेतयोरम्यासो दिङ्नेत्र ( २१० संख्यः । अयमपवर्तन
चतुष्केण गुणितः खाब्धिगज (८४०) संख्यः । अयमपवर्तकेन त्रिकेण
गुणितो नखतत्व ( २५२० ) सख्यः । अयमष्टानां हाराणां निरम्रो
भाज्यराशिः । अथास्य च दशसंख्यस्य नवमस्य भागहारस्य चापवर्तको
दशकसंख्यः। अनेनापवर्तितयो रेतयोरभ्यासः पक्षतत्व (२५२) संख्यः ।
अयमपवर्तकेन दशकेन निहतः पूर्ववन्नखतत्व (२५२) संख्यः |
अयं द्विपूर्वाणां दशपर्यन्तानां नवानां भागहाराणां निरमः प्रत्यासन्नो
भाज्यराशिः ॥

अथ शेषसाम्यविषय उद्देशकः-
याद्यैर्दशक पर्यन्तै नवभिर्भाजकैर्हतः ।
यो भवेद्राशिरेकाग्रस्तमाचक्ष्वाऽविलम्बितम् ||
२६