पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टाकारशिरोमणिः
(अनुवृत्तः)
त्रिधा निहितः २१, २१, २१ । एभ्यः एष्वग्रेषु ५, ७, ९ त्यक्तेषु
जाताश्छेदाः षोडश, चतुर्दश, द्वादश एषां क्रमेणाग्राण्यनन्तर-
प्रदर्शितान्येव ५, ७, ९ । एभिरमैरेतैश्छेदैश्च भिन्न-बहुभागहारभिन्न-
बह्वग्रभाज्यराश्यानयनप्रकारेणानीतो भाज्यराशिः शररसरामेन्दु (१३६५)
संख्यः । अयं षोडशभिः पञ्चाग्रः । चतुर्दशभिस्सप्ताग्रः । द्वादश-
भिर्नवाग्रः । अयमेव भाज्यराशिरप्रयोगेन कुपक्ष (२१) संख्येन हीन-
श्वेदेभिश्छेदैर्निरम्रो भवति । एवमेवप्रकारा भाज्यराशय आनेतव्याः ।
नन्वनन्तरयोः प्रश्नयोः-
" स एवामैक्ययुक्त श्चेत्तैहरे रेव शुद्धयति ।
स एवाक्यं हीनश्चेत्तैर्ह रैरेव शुद्धयति ॥ "
इति च निरग्रता प्रतीयते । तदनुपपन्नमनयोः साप्राधिकारे कथनम्
सत्यं--
--
‘‘ को राशिः कैर्हरै भिन्नै -
भक्तो भिन्नावशेषकः ॥”
इति निरम्रतापि दृश्यत इति युक्तमुक्तम् ॥
अथ कक्ष्याकुट्टाकारः प्रदर्श्यते । अत्रादौ कक्ष्याग्रहानयन
ज्ञातव्यम् । अतस्तदुच्यते---
खव्यामेखत्रयखसागरषट्कनाग-
व्योमाष्टशून्ययमरूपनगाष्टचन्द्राः ॥
(१८७१२०८०८६४००००००)
(सूर्यसिद्धान्ते १२ अध्याये श्लो ९०.)
इति भगवता सूर्येणोपदिष्टया काशकक्ष्यया गुणिते स्वेष्टदिनगणे सह-
साइतेन ग्रहकक्ष्याभूदिनसंवर्गेण विभक्ते लब्धं भगणादिग्रहो भवेत्