पृष्ठम्:Laghu paniniyam vol1.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] शिक्षाकाण्ड: । अथ श्चुत्वष्टुत्वे निषेधति— - (षष् + सन्तः) = षट् + सन्तः = १०४ । न पदान्ताट्टोरनाम् । (८-४-४२) पदान्तात् टवर्गात् परस्य स्तो: टुत्वं न स्यात्, 'नाम्' इति षष्ठीबहुवचनं वर्जयित्वा । यथा -- - षट्सन्तः । षट् + तरवः = षट्तरवः सम्राड् + दयते सम्राड्दयते प्रत्यु० -- ( पदान्तात् किम् ?) ईड् + ते = ईट्टे | = ॥ * ॥ अनाम्नवतिनगरीणामिति वक्तव्यम् ॥ 'नाम्' एक एव सूत्रकारेण वर्जितः । नवतिनगरीशब्दावपि वर्ज्यावित्याह चार्त्तिककारः । षष् इति षान्तः शब्दो (६९) जश्त्वेन षड् इति डान्तो भवति । तथा स्थिते प्रकृतसूत्रस्य प्रवृत्तिः । यथा - = = - षड् + नां (६९) = षड् + णां (= षण्णाम् ) । षडू + नवतिः षड् + णवतिः (= षण्णवतिः) । = षड् + णगरी (= षण्णगरी ) । १०५ । तोः षि । (१-४-४३) षड् + नगरी तवर्गस्य षकारे परे टुत्वं न भवति । यथा - - ४९ (१०७) सत् + षण्डः = सत्षण्ड: | महान् + षण्डः = महान् षण्डः । १०६ । शात् । (८-४-४४) शकारात् परस्य तवर्गस्य प्राप्तं कार्य (श्चुत्वं) न स्यात् । यथा- विश् + नः = विश्नः । शकारात् परस्तवर्गः पदमध्य एव भवति । 'न पदान्ताट्टोः' इति पदान्ते टुत्वं च निषिद्धम् । अतो ज्ञापकादेव श्चुत्वष्टुत्वे पदमध्येऽपि भवतः । १०७ । यरोज्नुनासिकेऽनुनासिको वा । (८-४-४५) पदान्तस्य यरः अनुनासिके परे अनुनासिकादेशो वा स्यात् । यप्रत्याहारो हकारभिन्नानि व्यञ्जनानि क्रोडीकरोति । तत्र वर्ग्याणां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/६८&oldid=347434" इत्यस्माद् प्रतिप्राप्तम्