पृष्ठम्:Laghu paniniyam vol1.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिक्षाकाण्ड: । ९२ । नश्चापदान्तस्य झलि । (८-३-२४) अपदान्तस्य नस्य मस्य च झलि परेऽनुस्वारः । यथा— प्रकरणम् ] पयान् + सि = पयांसि । - आक्रम् + स्यते = आकंस्यते । अधिजिगाम् + सति = अधिजिगांसति । । ३व । (झलोऽन्यस्मिन् परे) गम्यते, तन्यते । ङमुनित्यम् । (८-३-३२) धनून् + षि = धनूंषि । प्रत्यु० - ( पदान्तस्य तु) राजन् भुङ्क्ष्व ९३ । ङमो ह्रस्वादचि ङम् इति प्रत्याहारः, उद् इत्यागमचिह्नम् । द्वन्द्वान्ते श्रयमाणं पदं यथा प्रत्येकमन्वेति तथा प्रत्याहारान्ते प्रयुक्तमागमचिह्नमपि एकैकेन वर्णेनान्वेति; तथा च ङुट्, णुट्, नुट् इत्यागमा: । ह्रस्वात् परो यो डम्, तदन्तात् पदात् परस्य अचो ङमुडागम: स्यात् । ङान्तात् डुट्, णान्तात् णुट्, नान्तात् नुट् इति यथासंख्यमागमाः । आगमेषूकार इत् इति पूर्वमेवोक्तम् । टित्त्वादागम आदौ योजनीय: । (२५) । यथा -- प्रत्यङ् + आत्मा = प्रत्यङ् ङात्मा = प्रत्यड्डात्मा । सुगण् + ईश: = सुगण् णीश: सुगण्णीशः । लिखन् नास्ते = लिखन्नास्ते । लिखन् + आस्ते प्रत्यु० –'हखात्.' किं ? प्राङ् - ४५ = + आस्ते = प्राडास्ते । भवान् + आस्ते = भवानास्ते । ९४ । विसर्जनीयस्य सः । (८-३-३४) इह हि 'संहितायाम्' इत्यधिक्रियते । संहिता च विसर्जनीयस्य परेण वर्णेन संभवतीति नावसानेऽस्य प्रवृत्तिः । विसर्जनीयश्च खरव- सानयोर्विहितः । इत्थं च खरीत्यर्थात् सिध्यति । अपवादाभावे विसर्ग- स्य सकार आदेश: स्यात् खरि । अपवादा उत्तरसूत्रेषु वक्ष्यन्ते । १. 'ह्रस्वात्' इति पदं किमर्थम् ? तस्य किं प्रयोजनमिति प्रश्नः । एवमप्रेऽपि प्रत्युदाहरणेषु 'किम्' इत्यस्य किं प्रयोजनकमित्यर्थो बोध्यः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/६४&oldid=347430" इत्यस्माद् प्रतिप्राप्तम्