पृष्ठम्:Laghu paniniyam vol1.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] शिक्षाकाण्डः । ४३ रोर्यत्वं पदान्त एव; एजादेशस्तु पदान्ते पदमध्ये च । तत्र पदमध्ये लोपस्य प्रसक्तिरेव नास्ति । अतः हरये, गुरवे, नायकः, पावकः इत्येव रूपाणि । यवयोर्लोपस्य षष्ठाध्यायविहितं स्वरसंधि प्रत्यसिद्धत्वात् 'देव इह' इत्यादौ 'देवेह' इति आद्गुणादयो न भवन्तीति स्पष्टम् । स्वरसंधि- विधायकानां षष्ठध्यायिकानां सूत्राणां दृष्टया नास्त्येव हि शाकल- लोपोऽसौ । अथ रो: ‘उ' इति षष्ठाध्यायेऽपि कश्चिदादेशो विधीयते । यथा- - ८९ । अतो रोरप्लुतादप्लुते (अति उत्) । (६-१-११३) अप्रसिद्ध्या प्लुतस्यास्माभिरुपेक्षितत्वात् 'अप्लुतादप्लुते' इति पदद्वयं विहायैव सूत्रार्थो व्याख्यायते । तथा च ‘अतो रोरत्युत्' इत्येवानुवृत्त्युपस्कृतं सूवम् । अत: (हस्वात्) अकारात् परस्य रो: उत् अति परे । ‘उत्' इत्यत्व तकार इत्संज्ञो लुप्यते । ‘अतः' 'अति' इत्यनयोस्तु दीर्घनिवृत्त्यर्थं तपरकरणम् | यथा – स्यात् - (ER)--1FR यशस् + अस्य = यशर् + अस्य = यश उ + अस्य = (आद्गुणेन) यशो अस्य = (एङ: पदान्तादतीति पूर्वरूपेण) यशोऽस्य । १. अप्लुतादतः परस्य रोः अप्लुते अति परे उः इत्यन्वयः । तपरकरणेनैव दीर्घवत् प्लुतस्यापि निवारणे सिद्धे अप्लुतविशेषणमुभयत्रापि किमर्थमिति चेत्, प्लुतविधि- स्त्रिपादीगतः षाष्ठाध्यायिकस्य उत्व विधेरस्य दृष्ट्या असिद्ध इति निलीय स्थितस्यापि प्लुतस्य वारणार्थम् । २. अत्र पूर्वपक्षी प्रत्यवतिष्ठते – "ननु उकारस्य पूर्वेण अता प्रथमं गुणं कृत्वा ततः पूर्वरूपेण ‘यशोऽस्य' इति रूपमुक्तम् ; ( उकारस्य) परेण अता प्रथमं यणादेशं कृत्वा 'यशवस्य' इति रूपं कुतो नापद्यते ? ” इति । शब्दानां क्रमेणोच्चारणप्रसज्ञ एव कार्यसंभवेन पूर्वकार्यस्य ('अ + उ' इत्यस्य) निमित्तं प्रथममुपतिष्ठते । ततः पर- कार्यस्य ('उ + अ' इत्यस्य ) । ततश्च पूर्वकार्य संजातनिमित्तकमादौ प्रवर्तते स्वप्रवृत्त्या चापहरत्येव परकार्यस निमित्तम् । एवमनिष्टरूपापत्तेस्त्रावकाश एव नास्ति । इति युक्त्या प्रत्यवस्थाता प्रतिक्षेप्यः । । सावकाश एवं नास्ति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/६२&oldid=347428" इत्यस्माद् प्रतिप्राप्तम्