पृष्ठम्:Laghu paniniyam vol1.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० लघुपाणिनी ७९ । ढो ढे लोपः । (८-३-१३) ढस्य ढे परे लोप: स्यात् । ढान्तस्य पदस्याभावात् पदमध्य एवायं भवति । अत इदमुपरिष्टादुदाहरिष्यामः ।। 20 THPTUSTES JO ८० । रो रि । (८-३-१४) PIE DISSING रेफस्य रेफे परे लोप: स्यात् । ढरेफयोर्लोपे कार्यान्तरं षष्ठाध्याये विधीयते- ८१ । दूलोपे पूर्वस्य दीर्घोऽणः । (६-३-१११) ढकाररेफयोर्लोपे लुप्ताभ्यां ताभ्यां पूर्वस्य अणो दीर्घः स्यात् । PETEFEEST यथा- - [हल्-संधि स्वर्_+ राज्यं = (८०) स्व राज्यम्, (८१) स्वाराज्यम् । निर् + रागः – (८०) नि रागः, (८१) नीरागः । sta lengths for = TIVE SPREI दुर् + रक्तं = (८०) दु रक्तम्, (८१) दूरक्तम् । वपुस्· + रम्यं = (७०) वपुर् रम्यम्, (८०) वपु रम्यम्, (८१) वपूरम्यम् । ८२ | खरवसानयोर्विसर्जनीयः (रः) । (८-३-१५) खरि परे अवसाने च रेफस्य विसर्गः स्यात् । यथा - अवसाने - पुनर् = पुनः । पितुर् = पितुः । खरि - दोस् = (७०) दोर् = दोः । उच्चैस् = (७०) उच्चैर् = उच्चैः । - अन्तर् = अन्तः । पुनर् + करोति = पितुर् + प्रेम पुनःकरोति । पितुःप्रेम । दोर् + फलं उच्चैर् + खण्डः = अन्तः + सारम् = अन्तःसारम् । यद्यपि खप्रत्याहारे सर्वेऽपि खरातिखरा अन्तर्भूतास्तथापि 'विसर्जनी- यस्य सः' (९४) इत्यादेशान्तरविधानात् कपवर्गीयाणामेवायं विधिः फलति ॥ दोःफलम् । उच्चैःखण्डः । ‘रो रि' 'खरवसानयोर्विसर्जनीयः' इत्येताभ्यां सूत्राभ्यां रेफ- सामान्यस्य कार्यमुक्तम् ; अथ 'रु' इति कृत्रिमस्य रेफस्य कार्याण्याह-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/५७&oldid=347423" इत्यस्माद् प्रतिप्राप्तम्