पृष्ठम्:Laghu paniniyam vol1.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] शिक्षाकाण्डः । २१ विभक्तिप्रत्ययानां (प्रथमादीनां ) प्रत्याहारः । तेषां मध्ये हलादिषु प्रत्ययेषु परेषु पूर्वस्याः प्रकृतेः प्रत्ययान्तस्य च पदसंज्ञा वक्ष्यते । यथा- अहन् + भिः = अहर् भिः (अहोभिः) — रुः । अद्दन् + गणः= अहर्गणः–रः रुरेफस्य उत्वविधानात् (९०) अहोभिरिति रूपम् ; रस्य रेफस्यैव श्रवणम् । अत एव रोरपवादो रो विधीयते ॥ स्य तदभावाद् अहर्गण इति Promosy - = ॥ * ॥ अहन्नित्यस्य रेफे परेऽपि 11 यथा अहन् + रम्यं = अहर् रम्यं (अहो रम्यम्) । ७३ | वसुस्रंसुध्वंस्वनडुहां दः । (८-२-७२) वस् प्रत्यय: ; स्रंस्, ध्वंस् इति धातू ; (एषु उकार इत्) अन- डुह् इति नामशब्दः । पदस्येत्यनुवर्तते । एषां पदान्ते दः स्यात् इत्यर्थः । विद्वस्, निषेदिवस्, उपेयिवस् इत्यादयो वस्प्रत्ययान्ताः । यथा— विद्वस् + भिः = विद्वद्भिः । = = स्रस् = स्रुद् | अनड्डुह् + भिः = अनडुद्भिः । ध्वस् = ध्वद् । अथ ‘तिप्यनस्तेः’ (८-२-७३) इत्यादिभिः त्रिभिः सूत्रैः तिङ्- प्रत्ययेष्वपि दरू विधीयेते । प्रक्रियाबाहुल्यात् तानि नात्र व्याख्यायन्ते । ततः 'र्वोरुपधाया...' (८-२-७६) इत्यादिदीर्घविधिनिषेधौ, अदसो मुत्वविधिश्च हल्संधावप्रकृतत्वात् प्रकरणान्तरेषु व्याख्यास्यन्ते । पश्चात् प्लुतविधिर्भाषायामनुपयुक्त इत्युपेक्ष्यते || ‘ससजुषो रु:' (७०) इति रुविधिरक्तः; अन्यदप्यस्ति रुविधा- नम् – 'मतुवसो रु संबुद्धौ छन्दसि' (८-३-१) इति । तत्र प्रथमो रुः इति पुल्लिङ्गः, छान्दसलौकिकभाषासाधारणश्च; द्वितीयो रु इति नपुंसकं लौकिकभाषायां विरलप्रयोगं च इति भेदः । एवं च पदान्तरेफास्त्रि- विधाः – रुः, रु, र इति । तत्र वक्ष्यमाणयोः उत्वयत्वयोः स्थानिनौ रु, रुश्च ; पूर्वस्वरस्यानुनासिकत्वं अनुस्वारासज्जनं वा कर्तुं निमित्तभूतं - रु एव ; रस्तु रेफसामान्यं न कस्यापि विशेषविधेविषय: DE ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/५४&oldid=347420" इत्यस्माद् प्रतिप्राप्तम्