पृष्ठम्:Laghu paniniyam vol1.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ लघुपाणिनीये [हल्-संधि कार्यलक्षणं निमित्तमाश्रित्य सिद्धकाण्डगतो विधिर्न प्रवर्तयितव्य इति संकेतस्य तत्त्वम् । असिद्धकाण्डस्तावन्न केवलं सिद्धकाण्डं प्रत्यसिद्धः, किं तु तत्रापि पूर्वपूर्वी प्रति परंपरं सूवमसिद्धमिति संकेतः । एवं च त्रिपाद्यां यत्र कुत्रापि स्थितं सूत्रं सपादसप्ताध्यायीं, त्रिपाद्यामेव स्वपूर्व- सूत्राणि च प्रत्यसिद्धम् ; स्वोत्तरसूत्राणि तु प्रति सिद्धम् । अनया च रीत्या त्रिपाद्यां यथायथोपचीयते सूत्रसंख्या तथा तथापचीयते सिद्ध- त्वम्, एवमन्तिमं सूत्रं सर्वमेव सूत्रान्तरं प्रत्यसिद्धं भवति । व्याख्यातं चैतत् सूत्रम् –'अ अ' (६) इति । अत एव विवृतस्य संवृतं केवल- मुच्चारणमात्र कार्यमित्युक्तम् । तदेतदसिद्धत्वविधायकं सूत्रं व्याख्यायते- ६१ । पूर्वत्रासिद्धम् । (८-२-१) , इतः परं यदुच्यते तत् पूर्वोक्तं प्रत्यसिद्धम् । अष्टमाध्याय- द्वितीयपादस्य प्रथममिदं सूत्रमिति सपादसप्ताध्यायीं प्रति उत्तरा त्रिपाद्य- सिद्धा; अधिकारसूत्रमिदमिति त्रिपाद्यामपि पूर्व प्रति परं सूत्रमसिद्धम् ॥ असिद्धकाण्डे तावव्यञ्जनविकारा एवोच्यन्त इति विषयपर्या- लोचनेन यद्यपि सिद्धकाण्डादस्य व्यावर्तनं सुकरम्, तथाप्यसिद्धकाण्ड एवान्तरालिकस्यासिद्धत्वस्य विवेचने सूत्रानुक्रम एव यतः शरणी- करणीयो वर्तते, ततो लाघवार्थमसिद्धकाण्डगता विधय उद्देशानुक्रमेण पञ्चभिः कारिकाभिरत्र परिगणिताः - - नलोपोऽन्ते, मतोर्वत्वं, रो लः, संयोगतक्षणम्, । चो: कु,-र्होढः, छशो:षत्वं, भष्भावोऽथ, पदान्तजश् ॥ १ ॥ पढो: को, नश्च निष्ठाया:, किनकु, र्नो मान्तघातुषु । रुत्वं, वसुस्रंस्वादीनां दत्वं, र्वोपधदीर्घता, ॥ २ ॥ मुत्वं, प्लुत,-श्छान्दसरु, ठूलोपो, रविसर्गता, ISGDF रोर्यः, शाकल्यलोपश्च, मो बिन्दु, स्थुट् तुकौ, ङमुट् ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४९&oldid=347415" इत्यस्माद् प्रतिप्राप्तम्