पृष्ठम्:Laghu paniniyam vol1.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकशेष:] आकाङ्क्षाकाण्डः । १६२० । वाहिताग्न्यादिषु । (२-२-३७) आहिताग्निः, अग्न्याहितो वा । जातपुत्रः, पुत्रजातो वा । १६२१ । कडाराः कर्मधारये। (२-२-३८) कडारजैमिनिः, जैमिनिकडारो वा । वृद्धवीरः, वीरवृद्धो वा । कडार, गौर, काण, खज, खलति, वृद्ध इत्यादि ॥ एकशेषः । १६२२ । सरूपाणामेकशेष एकविभक्तौ । (१-२-६४) प्रत्यर्थ शब्दनिवेशान्नैकेनानेकस्याभिधानं सम्भवतीति द्विवचन- बहुवचनयो: शब्दस्य संख्यानुसारेणावृत्तिः प्रसज्यते इत्येकशेष आरभ्यते। एकखामेव विभक्तौ यानि तुल्यरूपाणि प्रातिपदिकानि तेषामेकमेव शिष्यते अन्यानि निवर्तन्ते । यथा- - ...... वृक्षश्च वृक्षश्च - वृक्षौ - वृक्षश्च.. • वृक्षव-वृक्षाः । वृक्षेण च...... वृक्षेण च वृक्षैः । सरूपाणामित्युक्तेरर्थभेदेऽपि रूपसाम्ये एकशेषो भवेत् । यथा- ‘रदविप्राण्डजा द्विजाः' विरूपाणामपि समानार्थकानाम् एकशेष इष्यते । यथा- वक्रदन्तश्च कुटिलदन्तश्च वक्रदन्तौ कुटिलदन्तौ वा । १६२३ । वृद्धो यूना तल्लक्षणश्वेदेव विशेषः । (१-२-६५) वृद्ध इति गोत्रस्य संज्ञा प्राचाम् । गार्ग्यश्च गार्ग्यायणच गायौं । १६२४ । स्त्री पुंवच्च । (१-२-६६) यूना सह्रैकशेषे वृद्धस्त्रियाः पुंवद्भावश्च । यथा- गार्गी च गार्ग्यायणश्च – गाग्यौं । - ४१७ - १६२५ । पुमान् स्त्रिया । (१-२-६७)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३६&oldid=348033" इत्यस्माद् प्रतिप्राप्तम्