पृष्ठम्:Laghu paniniyam vol1.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वन्द्वः] आकाङ्क्षाकाण्डः । १६१३ । चार्थे द्वन्द्वः । (२-२-२९) अनेकं सुबन्तं चार्थे समस्यते, द्वन्द्वश्च समासः । समुच्चयान्वाच येतरेतरयोगसमाहाराचार्था: । तत्र परस्परनिरपेक्षस्यानेकस्यै कस्मिन्नन्वय समुच्चयः । यथा—ईश्वरं गुरुं च भजस्व । यथा वा रक्तः पटः कुण्डलं च । अन्यतरस्यानुषङ्गिकत्वे अन्वाचयः । यथा—भिक्षामट । गाञ्चानय । मिलितानामन्वय इतरेतरयोगः । यथा- — रामश्च लक्ष्मणश्च वने प्रव्राजितौ । समूह: समाहारः । यथा – हस्तिनोऽश्वा रथाः पदातयश्च व्रजन्ति । - एषु प्रथमद्वितीययोरेकार्थीभावरूपसामर्थ्यासम्भवान्न समासः । काल- भेदेन भजनक्रियान्वयेऽपि परस्परनिरपेक्षयोर्गुर्वीश्वरयोः कथमेकपदो- पादानयोग्यता ? कथंतरां वा प्रधानस्य भिक्षाटनखानुषङ्गिकस्य गवा- नयनस्य च ? इतरेतरयोगसमाहारयोस्तु परस्परसाहित्यसत्त्वात् समासो भवति । यथा- - रामलक्ष्मणौ प्रवाजितौ—इतरेतरयोगः । - इस्त्यश्वरथपादातं व्रजति – समाहारस्यैकत्व | देकवचनम् । रामलक्ष्मणभरतशत्रुघ्नाः । गिरिनगरनदीप्रामाः । 6 ४१ अथ समासेषु घटकपद्सन्निवेशव्यवस्था ॥ १६१४ । उपसर्जनं पूर्वम् । (२-२-३०) 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्युक्तम् । तस्य पूर्व प्रयोग कार्यः । तथैव च दर्शितम् । १६१५ । राजदन्तादिषु परम् । (२-२-३१) एषूपसर्जनं परं प्रयोज्यम् । दन्तानां राजेति तत्पुरुषे राजद

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३४&oldid=348031" इत्यस्माद् प्रतिप्राप्तम्