पृष्ठम्:Laghu paniniyam vol1.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्ययतद्धिता:] निरुक्तकाण्ड: । ३९९ भिर्योगे सम्पत्तिकर्तुः प्रातिपदिकात् च्विरिति सर्वलोपी प्रत्ययः । 'अस्य च्वौ' इत्यवर्णान्तस्य ईत्वमुक्तं च्वौ । यथा- - अशुक्लः शुक्लो भवति शुक्लीभवति । पटीस्यात्तन्तुः । अशुक्लं शुक्लं करोति शुक्लीकरोति । घटीकरोति मृदम् । १५४१ । विभाषा साति कार्ये । (५-४-५२) पूर्वसूत्रविषये सातिर्वा कायें गम्यमाने । भस्मसाद्भवति, भस्मीभवति काष्ट– कात्स्ये॑न भस्म सम्पद्यते । एकदेशे तु भस्मीभवतीत्येव । १५४२ । अभिविधौ सम्पदा च । (५-४-५३) अभिव्याप्तौ गम्यमानायां विविषये साति: सम्पद्यतेर्योगे च । उदकसात् सम्पद्यते भवति वा लवणम् । उदकीभवति इति च । १५४३ । तदधीनवचने । (५-४-५४) स्वामिविशेषवाचिनः प्रातिपदिकादीशितव्येऽर्थे सांतिः कृभ्वस्ति- सम्पद्यतिभिर्योगे । यथा- राज्ञोऽधीनं करोति राजसात्करोति महीम् । एवं राजसात्भवति सम्पद्यतेऽस्ति वा १५४४ । देये वा च । (५-४-५५) ब्राह्मणत्राकरोति, ब्राह्मणसात्करोति वा गाम् । १५४५ । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् । देवादिभ्यो द्वितीयासप्तम्योरर्थे बहुलं त्रा । यथा-[(५-४-५६) देवान् गच्छति — देवत्रा गच्छति । मनुष्येषु वसति- मनुष्यत्रा वसति । बहुलग्रहणादन्यत्रापि- 'बहुत्रा जीवतो मनः' । १५४६ । अव्यक्तानुकरणायजवरार्धादनितौ डाच् । (५-४-५७) द्व्यजवरम् अक्षरद्वयादन्यूनमधै यस्य तस्मादव्यक्तानुकरणशब्दात् कृभ्वस्तियोगे डाच् न त्वितिशब्दे परे । यथा- - पटपटाकरोति पटः । चटचटाकरोतीन्धनम् । - इतः परं तद्धितेषु समासान्ताः शिष्यन्ते । तान् समासविधेरनन्तरं SGDF वक्ष्यामः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१८&oldid=348015" इत्यस्माद् प्रतिप्राप्तम्