पृष्ठम्:Laghu paniniyam vol1.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[तद्धितभावार्थकाः लवणवटबुधकतरस- लसेभ्यः । (५-१-१२१) इत ऊर्ध्वमुपक्रमिष्यमाणा भावकर्मार्थकप्रत्यया नञपूर्वात्तत्पु - रुषान्न भवेयुः चतुरादीन् वर्जयित्वा । तेन नञ्तपुरुषात् भावार्थे त्वतलावेव । न तु वक्ष्यमाणाः ष्यनादयः । ३८६ लघुपाणिनीये १४४६ । न नञ्पूर्वात्तत्पुरुषादचतुरसङ्गत १४४७ । पृथ्वादिभ्य इमनिज्वा । (५-१-१२२) वावचनं यथायोगमणादिसमावेशार्थम् । यथा- पृथोर्भावः प्रथिमा–‘रऋतो हलादेर्लघोः' इति रादेशः-पार्थवं, पृथुत्वं, पृथुता वा १४४८ । वर्णदृढादिभ्यः ष्यञ्च । (५-१-१२३) वर्णविशेषवाचिभ्यो दृढादिभ्यश्च ष्यञ् इमनिच्च । यथा - शुक्लस्य भावः शौक्ल्यम् । शुक्लिमा, शुक्लत्वं, शुक्लता वा — वर्णवाचि । दृढस्य भावः दार्ढ्य, द्रढिमा, दृढत्वं, दृढता वा — दृढादिः । - १४४९ । गुणवचनब्राह्मणादिभ्यः कर्मणि च । (५-१-१२४) गुणवचना गुणवाचिन:, भेदकाः । तेभ्यो ब्राह्मणादिभ्यश्च ध्यन् । तस्य भावः तस्य कर्म इति चार्थयोः । यथा- - जडस्य भावः कर्म वा जाड्यम् । ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् । ब्राह्मणादिराकृतिगणः । एवमनन्तरोक्तश्चतुर्वर्णादिरपि । || चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् ॥ चत्वारो वर्णा एव चातुर्वर्ण्यम् । एवं त्रैलोक्यमित्यादि । D १४५० । हायनान्तयुवादिभ्योऽण् । (५-१-१३०) द्विहायनस्य भावः कर्म वा द्वैहायनम् । यूनः- भावः, कर्म वा यौवनम् । १४५१ । इगन्ताच्च लघुपूर्वात् । (५-१-१३१) १४५२ । योपधागुरूपोत्तमाहुञ् । (५-१-१३२) DF शुचि – शौचम् । मुनि–मौनम् । लघु-लाघवम् । पृथु -पार्थवम् । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४०५&oldid=348001" इत्यस्माद् प्रतिप्राप्तम्