पृष्ठम्:Laghu paniniyam vol1.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनी अथ प्राक्क्रीतीयच्छयतोरधिकारः ॥ १४३१ । प्राक् क्रीताच्छ: । (५-१-१) तेन क्रीतमित्यतः प्राक् छः । १४३२ । उगवादिभ्यो यत् । (५-१-२) उवर्णान्तगवादिभ्यां तु यत् । १४३३ । तस्मै हितम् । (५-१-५) वत्संभ्या हितं वत्सीयम् । गोभ्यो हितं गव्यम् | वटवे हितं वटव्यम् । ३८४ [तद्धितेषु छ-यत्-ठञः १४३४ । आत्मन्विश्वजनंभोगोत्तरपदात् खः । (५-१-९) आत्मने हितमात्मनीयम् । विश्वजनीनम् । राजभोगीणम् । (Ber-g.४) इति प्राक्क्रीतीयौ छयतौ ॥ अथ प्राग्वतीयष्ठअधिकारः ॥ 983 १४३५ । माग्वतेष्ठञ् । (५-१-१८) वतिप्रत्ययविधिं यावत् ठञ् । १४३६ । संख्याया अतिशदन्तायाः कन् । (५-१-२२) ठञोऽपवादः कन् ।॥ 6-POTR १४३७ । तेन क्रीतम् । (५-१-३७) पञ्चकम् । सप्तत्या क्रीतं- साप्ततिकम् । विंशत्या तु-विंशतिकम् । त्रिंशता-त्रिंशत्कम् ।' १४३८ । तदर्हति । (५-१-६३) श्वेतच्छत्र मर्हति–श्वैतच्छत्रिकः । १४३९ । कालात् । (५-१-७८) इत्यधिकृत्य । (४० १ १४४० । तेन निर्वृत्तम् । (५-१-७९) ६us अह्ना निर्वृत्तमाह्निकम् मासिकं, वार्षिकमित्यादि । इति प्राग्वतीयष्ठजधिकारः ॥ १. विंशतित्रिंशद्भ्यां कन् संज्ञायामिष्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४०३&oldid=347999" इत्यस्माद् प्रतिप्राप्तम्