पृष्ठम्:Laghu paniniyam vol1.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ लघुपाणिनीये १४१७ । फले लुक् । (४-३-१६३) फले विवक्षिते विकारावयवप्रत्ययस्य लुक् । यथा- आम्रस्य फलं आम्रम् । [तद्धितेषु ठक् - १४१८ । लुप् च । (वा) । (४-३-१६६) 'लुपि युक्तवव्यक्तिवचने'. '— जम्ब्वाः फलं-- जम्बूः । जाम्बवं वा । ॥ * ॥ पुष्पमूलेषु बहुलं लुप् । जात्याः पुष्पं मूलं वा जातिः । इति प्राग्दीव्यतीयाणधिकारः । ठक्स्यात् पूर्व वहत्यर्थाही व्यत्यथ खनन् जयन् । जितं च संस्कृततरच्चरन्तश्चाथ जीवति || हरन् निर्वृत्तसंसृष्ठे उपसिक्तं च वर्तते । यच्छत्युञ्छन्नवन् कुर्वन् हन्ति तिष्ठति धावति ॥ गृह्णाति च चरत्येति समवैति च पश्यति । धर्म्यं चावक्रयः पण्यं शिल्पं प्रहरणं मतिः ॥ शीलं वृत्तं हितं भक्षा दीयते च नियोजितः । अध्यायी च व्यवहरन् वसतीत्यर्थसंग्रहः ॥ 99 अथ प्राग्वहतीयष्टगधिकारः ॥ १४१९ । प्राग्वहतेष्ठक् । (४-४-१) ‘तद्वइति......' इत्यतः प्राक् ठगधिक्रियते । अत्राप्यधिकार- संग्रहः प्रक्रियासर्व- 66 १४२० । तेन दीव्यति-खनति-जयति-जितम् । (४-४-२) अक्षैर्दीव्यति जयति वा आक्षिकः । १४२१ । शिल्पम् । (४-४-५५) तदस्येत्यनुवर्तते । तदस्य शिल्पमित्यर्थे प्रथमासमर्थाटृक् । मृदङ्गं शिल्पमस्य – मार्दङ्गिकः । वांशिकः इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४०१&oldid=347997" इत्यस्माद् प्रतिप्राप्तम्