पृष्ठम्:Laghu paniniyam vol1.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । ३६५ १३१५ । अपिः पदार्थसम्भावनान्ववसर्गगर्हा समुच्चयेषु । (१-४-९६) पदस्याप्रयुज्यमानस्यार्थ: पदार्थः । यथा - - सर्पिषोऽपि स्यात्—माना, बिन्दुः, स्तोकमित्यर्थे अपिः । सम्भावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । यथा— अपि स्तुयाद्विष्णुम् । अपि सिञ्चेद्वृक्षसहस्रम् | — अन्ववसर्गः कामचारानुज्ञा । यथा- अपि सिञ्च, अपि स्तुहि । गर्हा निन्दा — धिग्देवदत्तम् अपि सिञ्चत् स पलण्डुम् । - समुच्चये— अपि सिञ्च, अपि स्तुहि - सिञ्च स्तुहि चैत्यर्थः । इहापि षत्वनिषेध एव संज्ञाप्रयोजनम् । द्वितीया त्वर्थासाङ्गत्यान्न प्रवर्तते । १३१६ । अधिरीश्वरे । (१-४-९७) ईश्वरः स्वामी । स्वस्वामिसम्बन्धे इत्यर्थः । अत्र च ... यस्य चेश्वरवचनम्....' (१२५३) इति सप्तमी विहिता । सा च स्वात् स्वामिनश्चेष्यते । यथा- अधि रामे भूः । अधि भुवि रामः इति वा — - रामाधीना भूरित्यर्थः । - - १३१७ । विभाषा कृषि । (१-४-९८) अधिः करोतौ कर्मप्रवचनीयो वा । स्वरभेद एव विकल्पप्रयोजनम् ।। ॥ इति विभक्त्यर्थप्रकरणं परिनिष्ठाकाण्डश्च ॥ गुड

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३८४&oldid=347979" इत्यस्माद् प्रतिप्राप्तम्