पृष्ठम्:Laghu paniniyam vol1.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० [विभक्त्यर्थप्र० लघुपाणिनीये १२५७ । चतुर्थी संप्रदाने । (२-३-१३) विप्राय गां ददातीत्यायुदाहरणम् । ॥ * ॥ तादर्थ्ये चतुर्थी वाच्या ॥ यथा-- यूपाय दारु । कुण्डलाय हिरण्यम् । अवहननायोलूखलम् । || क्लपि सम्पद्यमाने च ॥ क्लप्त्यर्थकधातुप्रयोगे यः सम्पद्यते तस्मात् चतुर्थीत्यर्थः । यथा- भक्तिर्मोक्षाय कल्पते, सम्पद्यते, जायते भवति वा । प्रकृतिविकृत्योर्भेदविवक्षायामेवेदम् । अभेदविवक्षायां तु प्रथमैव । यथा- मृद् घटः सम्पद्यते । ॥ * ॥ हितयोगे च ॥ यथा - ब्राह्मणाय हितम् । - १२५८ | क्रियार्थोपपदस्य च कर्मणि स्थानिनः । (२-३-१४) क्रियार्था क्रिया उपपदं यस्य सोऽयं क्रियार्थोपपदः, 'तुमुनण्वुलौ क्रियायां क्रियार्थायाम्' इत्यस्य विषयो लक्ष्यते । अर्थसिद्धस्य तुमुन्नन्तस्य कर्मणि चतुर्थी स्यादित्यर्थः । यथा- पुष्पाय व्रजति – पुष्पमाहर्तुमित्यर्थः । नगराय प्रतिष्ठते–नगरं गन्तुम् । "" पत्ये शेते —पतिमनुकूलयितुमित्यर्थः । - १२५९ । नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । (२-३-१६) निपातैरेतैर्योगे चतुर्थी खात् । यथा - - स्वधा पितृभ्यः । नमो देवेभ्यः । स्वस्ति प्रजाभ्यः । स्वाहा अग्नये । दैत्येभ्यो हरिरलम् – पर्याप्त इत्यर्थः । वषडिन्द्राय | अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यः पर्याप्तः इत्याद्यपि ॥ १२६० । मन्यकर्मण्यनादरे विभाषाप्राणिषु । (२-३-१७) मन्यते: कर्मणि प्राणिवर्जिते चतुर्थी वा स्यादनादरे गम्यमाने -न त्वां तृणाय मन्ये, तृणं मन्ये वा । न त्वां लोष्टाय मन्ये, लोष्टं मन्ये वा मादनाव जय यथा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६९&oldid=347964" इत्यस्माद् प्रतिप्राप्तम्