पृष्ठम्:Laghu paniniyam vol1.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ लघुपाणिनीये ॥ * ॥ अभितःपरितः समयानिकषाहाप्रतियावदृतेयोगेऽपि ॥ यथा- अभितः परितो वा कृष्णं गोप्यः–कृष्णस्य समन्तात् । ग्रामं समया निकषा वा नदी — प्रामस्य समीपे । हा कृष्णाभक्तं – तस्य शोच्यतेत्यर्थः । बुभुक्षितं न प्रति भाति किञ्चित् – बुभुक्षित खेत्यर्थः । नदीं यावत् — नदीपर्यन्तमित्यर्थः । श्रद्धामृते—श्रद्धां विनेत्यर्थः । - १२४८ । अन्तरान्तरेण युक्ते । (२-३-४) यथा - 'अङ्गनामङ्गनामन्तरा माधवो माधवं माधवं चान्तरेणाङ्गना ' } अङ्गनयोर्माधवयोश्च मध्ये । द्योत्ये कालवाचिभ्योऽध्ववाचिभ्यश्च द्वितीया । यथा- [विभक्त्यर्थप्र० ८ अथ त्वामन्तरेण कीदृशी तस्या दृष्टि:'- त्वामधिकृत्य | - अन्तरेण हरिं न सुखं—हरिं विनेत्यर्थः । १२४९ । कालाध्वनोरत्यन्तसंयोगे । (२-३-५) द्रव्यगुणक्रियाभिः साकल्येन सम्बन्धोऽत्यन्तसंयोगः । तस्मिन मासम् अधीते - मासव्यापकमध्ययनम् । - कल्याणी कल्याणत्व विशिष्टा " " गुणेन द्रव्येण ० कालस्य क्रियया अत्यन्त संयोगः । गुडधानाः मासव्यापिन्यः " एवमध्वनोऽपि —कोशमधीते । क्रोशं कुटिला नदी | क्राशं गिरिः । १२५० । अपवर्गे तृतीया । (२-३-६) अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः । तस्मिन् द्योत्ये का- लाध्वनोरत्यन्तसंयोगे तृयीया स्याद् द्वितीयापवादः । यथा— क्रोशेनानुवाकोऽधीतः अधीतो ज्ञातश्चत्यर्थः । १२५१ । सप्तमीपञ्चम्यौ कारकमध्ये । (२-३-७) ‘अत्यन्तसंयोगे' इति निवृत्तत् । 'कालाध्वनो: ' इति परमनुवर्तते । कारकयोर्मध्ये यौ कालाध्वानौ तद्वाचिभ्यः सप्तमीपञ्चम्यौ स्तः । यथा- अद्य भुक्त्वा देवदत्तः व्यहात् त्र्यहे वा भोक्ता- -अत्र भुक्तिकत्रमध्यकालो विभक्त्यर्थः । अत्र भुक्तिकत्रों

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६७&oldid=347962" इत्यस्माद् प्रतिप्राप्तम्