पृष्ठम्:Laghu paniniyam vol1.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र०] धात्वन्तरेष्वपि सर्वस्वकारः-- परिनिष्ठाकाण्डः । ३४५ अणिकर्तुः कर्मत्वं दृश्यते । यथाह प्रक्रिया- “श्रुदृशोर्णैर्द्विकर्मत्वमाह भोजश्च कौमुदी- , मां वेणुं श्रावयेत् कृष्णो, रूपं मां दर्शदेदसौ ॥ तारेर्ग्राहेस्तथा मोचेस्त्याजेर्दापेश्च संग्रहः । इत्युक्तं माधवेनापि – भवाब्धि तारयेत् स माम् ॥ - ग्राहयेन्मां निजं रूपं रागादीन्मां विमोचयेत् । मां पापं त्याजयेत् सद्यो धनं मां दापयेद्धरिः ॥ " 8 PEP तथा हि प्रयोगाश्च-- ‘अयाचितारं न हि देवमद्भिः सुतां प्रतिग्राहयितुं शशाक '— कुमारसम्भवम् । ‘त्याजितैः फलमुत्खातैः'—रघुवशम् । १२४५ । हृक्रोरन्यतरस्याम् । (१-४-५३) अणिकर्ता णौ वा कर्म स्यात् । यथा- हारयति भारं भृत्यान्, भृत्यैर्वा । कारयति कटं देवदत्तं, देवदत्तेन वा । ॥ * ॥ अकर्मकधातुभियगे देशः कालो भावो गन्तव्योऽध्वा च कर्म- संज्ञक इति वाच्यम् ॥ यथा – देशः कुरुपाञ्चालादिः— कुरून् स्वपिति । कालो मुहूर्तमासादिः--निशां जागर्ति । भावः क्रियोपयुक्तः कालः– गोदोह विहरति बालः । गन्तव्योऽध्वा क्रोशयोजनादिः- क्रोशं धावति रथी । ॥ * ॥ क्रियाविशेषणानां कर्मसंज्ञा वाच्या ॥ यथा- मन्दं गच्छति । मृदु हसति । व्यक्तमाह - अथ कर्ता--- -- स्वतन्त्रः कर्ता । (१-४-५४) (व्याख्यातं ७७८) । यथा— देवदत्तेन पच्यते । वृक्षेण स्थीयते । देवो वर्षति । स्थाली पचति । तूलिका लिखति । कालिदासेन कृतो प्रन्थः । १. प्राचीना प्रक्रियाकौमुदी न तु सिद्धान्तकौमुदी ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६४&oldid=347959" इत्यस्माद् प्रतिप्राप्तम्