पृष्ठम्:Laghu paniniyam vol1.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र ० ] O औपश्लेषिकः, संभवति । यथा- - " परिनिष्ठाकाण्डः । अभिव्यापकः, वैषयिकश्चेति त्रिविध आधारः, प्रामे वसति–प्रामस्यैकदेश एव वसतीत्यौपश्लेषिक आधारः । तिले तैलं वर्तते—सर्वत्र व्याप्यं तैलमित्यभिव्यापकः । मोक्षे इच्छास्ति — इच्छाया मोक्षविषयत्वाद्वैषयिकः । १२३८ । अधिशीस्थासां कर्म । (१-४-४६) अधिपूर्वव्वे शीस्थासामाधारः कर्मसंज्ञः । यथा- तल्पमधिशेते, अधितिष्ठति, अध्यास्ते वा । १२३९ । अभिनिविशश्च । (१-४-४७) आधारः कर्म स्यात् । प्रायिकश्चायं विधिः । 'एष्वर्थेष्वभिनिविष्टानाम्' इति भाष्य एव प्रयोगदर्शनात् । यथा— सन्मार्गमभिनिविशते । - १२४० । उपान्वध्याङ् वसः । (१-४-४८) यथा – प्राममुपवसति, अनुवसति, अधिवसति, आवसति वा सेना । अथ कर्म- -- १२४१ । कर्तुरीप्सिततमं कर्म । (१-४-४९) कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञम् । यथा- प्रामं गच्छति । ओदनं भुङ्क्ते । कटं करोति । हरिं भजति । प्रत्यु० ('कर्तुः' किम् ?) माषेष्वश्वं बध्नाति — अत्र कर्मण ईप्सिता माषा:, न तु कर्तुः । ( 'तमब्प्रद्दणं' किम् ? ) पयसा ओदनं भुङ्गे–पयोऽपेक्षया ओदनस्य ईप्सित- तमत्वात् करणत्वमेव । - “त्रिविधं कर्म निर्वर्त्यविकार्यप्राप्यभेदतः । घटं करोति, तक्ष्णोति वृक्षम्, आदित्यमीक्षते ॥” १२४२ | तथायुक्तं चानीप्सितम् । (१-४-५०) अनीप्सितमीप्सितवत् क्रियया युक्तं कर्म वात् । यथा विषं भुङ्क्ते । ग्रामं गच्छंस्तृणं स्पृशति । १२४३ । अकथितं च । (१-४-५१) ड्रि अपादानाविशेषैरविवक्षितं च कारकं कर्मसंज्ञम् । ईदृश्यः किया ईवश्यः क्रिया - एता एवेति व्याख्यातृभिः परिगणिता:- 1575

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६२&oldid=347957" इत्यस्माद् प्रतिप्राप्तम्