पृष्ठम्:Laghu paniniyam vol1.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० लघुपाणिनीये [विभक्त्यर्थप्र ० धावतोऽश्वात् पततीत्यादौ चलतोऽप्यश्वस्त्र पतनक्रियापेक्षं स्थिरत्वमादा- यापादानसंज्ञा प्रवर्तते । बुद्धिकृतमपि सम्बन्धं पुरस्कृत्य कारकाणि भवन्ति । तेन— - आचार्याद्वेदमधीते । पापात् विरमति । हिमवतो गङ्गा प्रवहति । | चोरात् बिभेति । इत्यादिषु बौद्धं विश्लेषमवलम्ब्यापादानत्वम् । अत उपलक्षणार्थकै: 'भी- त्रार्थानाम् .... इत्यादिभिरुत्तरसूत्रैः प्रकृतसूत्रस्य प्रपञ्च एव क्रियत इति बोध्यम् । ॥ * ॥ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् ॥ जुगुप्सादीनां विषयभूतं कारकमपादानम् । अत्रापि बौद्धो विश्लेषः सम्भव- तीति प्रपञ्चार्थमेव वार्तिकमिदम् । यथा - पापाज्जुगुप्सते, विरमति, स्खलति वा । १२१७ । भीत्रार्थानां भयहेतुः । (१-४-२५) - एषां प्रयोगे भयहेतुरपादानम् । यथा-चोरात् बिभेति । चोरात् त्रायते । १२१८ । पराजेरसोढः । (१४-२६) असोढः असह्य इत्यर्थः । यथा- अध्ययनात् पराजयते – अध्ययनस्यासह्यत्वात् ग्लानो भवतीत्यर्थः । - foun १२१९ । वारणार्थानामीप्सितः । (१-४-२७) - यवेभ्यो गां वारयति । निवर्तयतीत्यर्थः । यथा- १२२० । अन्तर्धी येनादर्शनमिच्छति । (१-४-२८) यत्कर्तृकमदर्शनमिच्छतीत्यर्थः । यथा - मातुर्निलीयते बालः, अन्तर्धत्ते वा । १२२१ । आख्यातोपयोगे । (१-४-२९) नियमपूर्वकविद्यास्वीकारे गुरुरपादानम् । यथा - उपाध्यायादधीते, पठति वा । १२२२ । जनिकर्तुः प्रकृतिः । (१-४-३०) जायमानस्य हेतुरपादानं स्यात् । थया-गोमयाद्वृश्चिको जायते । ve १२२३ । भुवः प्रभवः । (१-४-३१) हिमवतो गङ्गा प्रभवति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५९&oldid=347954" इत्यस्माद् प्रतिप्राप्तम्