पृष्ठम्:Laghu paniniyam vol1.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्त्रर्थककृत्प्र ०] परिनिष्ठाकाण्डः । ११२५ । कर्तर्युपमाने । (३-२-७९) कर्तृवाचिन्युपमाने उपपदे धातोर्णिनिः । यथा— उष्ट्र इव क्रोशतीत्युष्ट्रकोशी । गजगामिनी । ११२६ । व्रते । (३-२-८०) व्रते द्योत्ये सुप्युपपदे धातोर्णिनिः । यथा - स्थण्डिलशायी । मासोपवासी । अश्रद्धभोजी । ११२७ । मनः । (३-२-८२) पण्डितं (आत्मानमन्यं वा) मन्यते पण्डितमानी । ११२८ । आत्ममाने खश्च । (३-२-८३) आत्मानं मन्यते इत्यर्थे मन्यतेर्णिनिः खञ्च | खित्त्वादजन्तस्यो- पपदस्य मुम् | शित्त्वात् श्यन् विकरणप्रत्ययश्च । यथा- आत्मानं सुभगं मन्यत इति सुभगम्मन्यः, सुभगमानी । ११२९ । सप्तम्यां जनेर्ड: । (३-२-९७) ११३० । अन्येष्वपि दृश्यते । (३-२-१०१) डित्त्वाट्टिलोपः– पङ्कजं, द्विज', अनुज । ११३१ । आ केस्तच्छीलतद्धर्मतत्साधुकारिषु । (३-२-१३४) इत्यधिकृत्य- - ३२३ ११३२ । तृन् । (३-२-१३५) - यथा - कर्ता कटान्– कटकरणशीलस्तद्धर्मा, तत्साधुकारी वा । ११३३ | अलंकृन्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतु- वृधुसहचर इष्णुच् । (३-२-१३६) अलङ्करिष्णुः, निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुरित्यादि । ११३४ । लषपतपदस्थाभूवृषहनकमगमगृभ्य उकञ् । (३-२-१५४) अभिलाषुकः, प्रपातुकः, उपपादुकः, स्थायुकः, भावुकः, कामुक इत्यादि । ११३५ । जल्पभिक्षकुट्टलुण्टवृङः षाकन् । जल्पाकः, भिक्षाकः इत्यादि । (३-२-१५५)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४२&oldid=347936" इत्यस्माद् प्रतिप्राप्तम्