पृष्ठम्:Laghu paniniyam vol1.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्त्रर्थककृत्प्र ० ] O परिनिष्ठाकाण्ड: । १११० । ण्वुल्ऌचौ । (३-१-१३३) = धातोः कालसामान्ये कर्तर्येतौ । ण्वुल् = अक । णित्त्वाद्वृद्धिः । आदन्तेषु 'आतो युक् चिकृतो:' (८९२) इति युक् । यथा- कारकः कारिका करोतीति – कर्ता कर्त्री कर्तृ । भवतीति - भविता भवित्री भवितृ । - कारकम् । भावकः भाविका भावकम् । ददातीति – दाता दात्री दातृ । - दायकः दायिका दायकम् । ११११ । नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । (३-१-१३४) नन्द्यादिभ्यो ल्युः, ग्रह्यादिभ्यो णिनिः, पचादिभ्योऽच् । यथा— नन्दयतीति – नन्दनः, - ना, -नम् । गृह्णातीति—ग्राही, हिणी, - हि पचतीति -पचः, -चा,-चम् । त्रयोऽपि गणा आकृतिगणाः ॥ ु ३२१ मदन:, दूषणः, साधनः इत्यादि । उत्साही, स्थायी, मन्त्री पतः, वदः, चलः, जरः १११२ । इगुपधज्ञामीकिरः कः । (३-१-१३५) इगुपध – बुध्यत इति बुधः । विलिखः । विक्षिपः । ज्ञा–ज्ञः । प्री - - प्रियः, कृ-किरः । कित्त्वाद्गुणाभावः । प्रिय इति संयोगादित्वादियङ् । 1:1 १११३ । आतचोपसर्गे । (३-१-१३६) आदन्तादुपसर्गे उपपदे कः । प्रदः, प्रस्थः, प्रपः इत्यादि । १११४ । पाघ्राध्माधेड्दृशः शः । (३-१-१३७) उपसर्गे सत्यसति च । शित्त्वात् पिबाद्यादेशाः । यथा— प्रपिबः, जिघ्रः, विधमः, धयः, उत्पश्यः इत्यादि । १११५ । कर्मण्यण् । (३-२-१) कर्मण्युपपदे धातोरण । वृत्त्यादौ द्योत्य एवोपयुज्यते । यथा— कुम्भं करोतीति कुम्भकारः, काण्डलावः, वेदाध्यायः । १११६ । आतोऽनुपसर्गे कः । (३-२-३) कर्मण्युपपदे । यथा— - गोदः, धनदः । कर्मणोऽन्यत्राप्ययं दृश्यते । आतपत्रं, करस्थं, नदीष्णः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४०&oldid=347934" इत्यस्माद् प्रतिप्राप्तम्