पृष्ठम्:Laghu paniniyam vol1.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [आख्यातकोनि अम्प्रत्ययवत् (अम् इति सुप्प्रत्ययवत्) स्यात् । अतिदेशात् 'अमि पूर्वः', 'औतोंऽशसोः' इत्यादयो विधयः प्रवर्तन्ते । यथा - गो + मन्यः = गाम्मन्यः । स्त्री + मन्यः = स्त्रीम्मन्यः, स्त्रियम्मन्यः । १०५६ | वाचंयमपुरन्दरौ च । (६-३-६९) १०५७ । कारे सत्यागदस्य । (६-३-७०) वाचंयमः । पुरन्दरः । सत्यङ्कारः । अगदङ्कारः । DIE ३१२ १०५८ । रात्रेः कृति विभाषा । (६-३-७२) रात्रिंचरः । रात्रिचरः । रात्रिमटः । राज्यटः । उक्तानि नामविशेषणान्याख्यातकानि । अनन्तरं क्रियाविशे- षणानि तान्युच्यन्ते — क्रियाविशेषणाख्यातकानि || १०५९ । समानकर्तृकयोः पूर्वकाले । (क्त्वा) (३-४-२१) यदैक एव कर्ता पर्यायेणानेकाः क्रिया: करोति तदा पूर्वकाल- वर्तिक्रियावाचिनो धातोः क्त्वा । उत्तरकालक्रियानुरोधेन कर्ता कर्म भावो वा क्त्वाप्रत्ययार्थः । विशेष्यवशवर्तीनि हि विशेषणानि । तुमुनो- ऽपि क्रियाविशेषणाख्यातकस्यैवमेव विशेष्यानुरोधादर्थनिर्णयः । यथा- देवदत्तः पूर्वं स्नाति, ततो भुङ्क्ते – तल स्नात्वा भुङ्क्ते इति स्ना-धातोः क्त्वा । = एवं भुक्ता पिबति । पीत्वा स्वपिति । सुप्त्वा व्रजति । देवदत्तः स्नात्वा भुक्त्वा पीत्वा सुप्त्वा व्रजति इति वा । देवदत्तस्तण्डुलान् पक्त्वा भुङ्क्ते–कर्तरि क्त्वा । देवदत्तेन तण्डुलाः पक्त्ता भुज्यन्ते-कर्मणि क्त्वा । देवदत्तेन भुक्त्वा सुप्यते । देवदत्तो भुक्त्वा प्रतिष्ठते । भुक्ता प्रस्थितेन देवदत्तेन मार्गे विश्रान्तम् इत्यादि यथायोगं पूर्वकालः । अव्ययत्वात् क्त्वाप्रत्ययस्य लिङ्गवचनविभक्तिभेदा न भवन्ति । स्नात्वा गच्छन्तीर्नारीः पश्य । -भावे -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३१&oldid=347905" इत्यस्माद् प्रतिप्राप्तम्