पृष्ठम्:Laghu paniniyam vol1.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [आख्यातकानि पठिष्यन् गच्छति देवदत्तः । पठिष्यन्तमानय देवदत्तम् । पठिष्यन् वसांत नगरे देवदत्तः। एधिष्यमाणं पश्य वृक्षं, छेत्स्यमानमित्यादि । अथ लिडादेश:- ३०२ - १००० । छन्दसि लिट् । (३-२-१०५) १००१ । लिटः कानज्वा । (३-२-१०६) १००२ | कसुश्च । (३-२-१०७) ये भूतसामान्ये धातोर्लिट् छन्दसि तस्य पूर्वोक्तवदप्रथमासामाना- । तत्र 'तङानावात्मनेपदम्' इति कानजात्मने- पदम् । कसुस्तु शेषत्वात् परस्मैपदम् । एष लिट् तदादेशौ च छन्दस्येव पाणिनेरभिमतौ । कवयस्तु लोकेऽपि क्वसुं यथेच्छं प्रयुञ्जते – ‘तं तस्थिवांसं नगरोपकण्ठे'–‘श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि । लिडादेशत्वात् द्वित्वम्, इट्, एत्वाभ्यासलोपौ च । यथा - कृ – चकृवस् चक्राण: भू–बभूवस् बभूवान् पांचवान् पेचुषी पच- –पचिवस् सु– सुषुत्राणः । दा— ददिवस् — ददिवान् - चि – चिक्यानः । चकृवान् चक्रुषी चकृवत् चक्राणा | बभूवत् । बभूवुषी पेचिवत् । ददुषी ददिवत् ददानः ददाना । १००३ । भाषायां सदवसवः । (३-२-१०८) एभ्यो लिटि भाषायां क्वसुः । सेदिवस्, ऊषिवस्, शुश्रुवस् | उक्तमेव ह्यन्येभ्योऽपि कवयः प्रयुञ्जत इति ॥ १००४ । उपेयिवाननाश्वाननूचानश्च | (३-२-१०९) एते प्रक्रियाविशेषप्रापणाय निपात्यन्ते । यथा— उप + इण्– उपेयिवान् । न + अश् = अनाश्वान् । अनु + वच्–अनूचानः । वेदानुवचनं कृतवान् अनूचान इत्युच्यते । भावकर्मणोलिंडादेशो न दृश्यते ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२१&oldid=347794" इत्यस्माद् प्रतिप्राप्तम्