पृष्ठम्:Laghu paniniyam vol1.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये अथ परमस्मैपदविधिः ॥ शेषात् कर्तरि परस्मैपदम् । (१-३-७८) व्याख्यातं (४२१)। उक्तान्यात्मनेपदनिमित्तानि यत्र न विद्यन्ते तत्र परस्मैपदम् ।। २९० ९६४ । अनुपराभ्यां कृञः । (१-३-७९) कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहि- तम् । तत्राप्यनुपराभ्यां परस्मैपदार्थमिदम् । यथा - अनुकरोति, पराकरोति । [पदव्यवस्था ९६५ । अभिप्रत्यतिभ्यः क्षिपः । (१-३-८०) अभिक्षिपति, प्रतिक्षिपति, अतिक्षिपति । ९६६ | माहः । (१-३-८१) ९६७ । परेर्मृषः । (१-३-८२) प्रवहति, परिमृष्यति । ९६८ | व्याङ्परिभ्यो रमः । (१-३-८३) ९६९ | उपाच्च । (१-३-८४) विरमति, आरमति, परिरमति, उपरमति । योगविभाग उत्तरार्थः । ९७० । विभाषाकर्मकात् । (१-३-८५) उपाद्रमतेरकर्मकाद्विकल्पः । यथा- - उपरमति --उपरमते वा । निवर्तत इत्यर्थः । ९७१ । बुधयुधनशजनेङ्दुस्रुभ्यो णेः । (१-३-८६) ण्यन्तेभ्य एभ्यः कर्तृगामिन्यपि क्रियाफले परस्मैपदम् । यथा- बोधयति, योधयति, नाशयतीत्यादि । ९७२ । निगरणचलनार्थेभ्यश्च । (१-३-८७) भक्षणार्थेभ्यश्चलनार्थेभ्यश्च ण्यन्तेभ्यः परस्मैपदम् । यथा- निगारयति, आशयति, भोजयति । चलयति, कम्पयतीत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०९&oldid=347782" इत्यस्माद् प्रतिप्राप्तम्