पृष्ठम्:Laghu paniniyam vol1.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ [पदव्यवस्था लघुपाणिनीये ९५२ । समः क्ष्णुवः । (१-३-६५) संक्ष्णुते शस्त्रम् । ९५३ । भुजोऽनवने । (१-३-६६) भुज पालनाभ्यवहारयोः । तत्र पालनभिन्नेऽर्थे आत्मनेपदम् । यथा— ओदनं भुङ्क्ते । भोगान् भुते । पालने तु– राजा महीं भुनक्ति । ‘बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्' । इति कालिदासप्रयोगे तु अनुभोगोऽर्थो न तु रक्षणम् । 'कृतसीतापरित्यागः स रत्नाकरमेखलाम्' । इति पूर्वार्धेन तस्यैवार्थस तत्र विवक्षा स्पष्टीकृता । ९५४ । णेरणौ यत्कर्म णौ चेत् स कर्तानाध्याने । (१-३-६७) णिचश्चेति कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्र- भिप्रायार्थमारम्भः । ण्यन्तादात्मनेपदं स्यात् अणौ यत् कर्मकारकं स एव णौ कर्ता भवति चेत् । न तु उत्कण्ठापूर्वक स्मरणे । यथा- । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयते हस्ती स्वयमेव | उपसिञ्चन्ति हस्तिनं हस्तिपकाः। उपसेचयते इस्ती स्वयमेव । पश्यन्ति भृत्याः राजनम् । दर्शयते राजा स्वयमेव । प्रत्यु० – ('अनाध्याने' किम् ? ) स्मरति वनगुल्मस्य शुकः । स्मरयत्येनं वनगुल्मः स्वयमेव । ननु सिद्धमिदं 'कर्मवत् कर्मणा तुल्यक्रियः' इति कर्मद्भावेन इति चेत्, न । कर्मस्थक्रियाणां कर्मस्थभावानां चैव कर्मवद्भावो भवति । कर्तृस्थक्रियाणां कर्तृस्थभावानां च सिद्ध्यर्थमिदम् ॥ ९५५ । भीस्म्योर्हेतुभये । (१-३-६८) णोरत्येव । अत्रैव विषये षुक् आत्वं च विहितम् । यथा- मुण्डो भीषयते, भापयते । जटिलो विस्मापयते । प्रत्यु० – ('हेतुभये' किम् ? ) कुञ्चिकया बालं भाययति । जटाभिर्विस्माययति ९५६ | गृधिवञ्च्योः प्रलम्भने । (१-३-६९) णेरित्येव । प्रलम्भनं प्रतारणम् । तत्र ण्यन्तयोरनयोस्तङानौ । यथा- माणवकं गर्धयते । वञ्चयते । स्तानी । यथा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०७&oldid=347780" इत्यस्माद् प्रतिप्राप्तम्