पृष्ठम्:Laghu paniniyam vol1.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदव्यवस्था] परिनिष्ठाकाण्डः । पदव्यवस्था । २८१ लकारार्थोपसर्गाणां तथा विकरणस्य च । इतां च बहुधा भेदाद् धातूनां भिद्यते पदम् - यथा वर्त्स्यत्यद्युतच्च, यथा भुङ्क्ते च तिष्ठते, यथाहते च संवित्ते, यथा बोधति बुध्यते, यथास्त्यास्ते, लेढि लीढे, धियते, स्तौति च स्तुते ॥ इति नानोपाधिभिर्भिद्यमानस्य धातोः पदस्य काचिद्वयवस्था क्रियते— आत्मनेपदविधिः ॥ अनुदात्तङित आत्मनेपदम् । (१-३-१२) व्याख्यातम् – (४१९) आस-आस्ते । शीङ्-शते । ९०१ । भावकर्मणोः । (१-३-१३) यथा – भूयते । अनुभूयते । - ९०२ । कर्तरि कर्मव्यतीहारे। (१-३-१४) कर्मव्यतीहारः क्रियाविनिमयः । यत्रान्य सम्बन्धिनी क्रियामन्य: करोति, इतरसंबन्धिनीं चेतरः स कर्मव्यतीहारः । तस्मिन् द्योत्ये धातोः कर्तर्यात्मनेपदम् । भावकर्मणोस्तु पूर्वेण सिद्धमेव सर्वत्रात्मनेपदम् । 'व्यति' इत्युपसर्गद्वयं कर्मव्यतीहारं द्योतयति । यथा - - रामकृष्णौ व्यत्यश्नाते-रामस्य भोज्यं कृष्णः, कृष्णस्य भोज्यं रामश्चाश्नातीत्यर्थः । रामकृष्णौ व्यतितिष्ठेते – स्थानविनिमयेन तिष्ठत इत्यर्थः । - ९०३ । न गतिहिंसार्थेभ्य: । (१-३-१५) कर्मव्यतीहारे विहितमात्मनेपदं गतिहिंसार्थेभ्यो न । यथा- बाला व्यतिगच्छन्ति । योधा व्यतिघ्नन्ति । ९०४ । इतरेतरान्योन्योपपदाच्च । (१-३-१६)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३००&oldid=347672" इत्यस्माद् प्रतिप्राप्तम्