पृष्ठम्:Laghu paniniyam vol1.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ]
शिक्षाकाण्डः ।
१. महेश्वरादधिगतानीत्यैतिह्यात् माहेश्वरसूत्राणीति,
२. अक्षरपाठरूपत्वात् अक्षरसमाम्नाय इति,
३. प्रत्याहाराख्यसंकेतोपयोगित्वात् प्रत्याहारसूत्राणीति,
४. चतुर्दशसंख्याकत्वात् चतुर्दशसूत्रीति च व्यवह्रियते । तानि
चेमानि-
१. अ इ उ ( ण् )
२. ऋ ऌ ( क् )
३. ए ओ ( ङ् )
४. ऐ औ (च् )
५. [ ह ] य व र ( ट् )
६. ल ( ण् )
७. ञ म ङ ण न ( म् )
१३
८. झ भ ( ञ् )
९. घ ढ ध ( ष् )
१०. ज ब ग ड द ( श् )
११. ख फ छ ठ थ च ट त ( व् )
१२. क प ( य् )
१३. श ष स ( र् )
१४. ह ( ल् )

अत्र चायं रचनाक्रम:- प्राधान्यात् प्रथमं स्वराः । तत्र अ,
इ, उ इति मूलस्वरैः प्रथमं सूत्रम् । रेफलकाररूपव्यञ्जनांशोपस्कृता-
भ्याम् ऋ ऌ-भ्यां द्वितीयम् । अ + इ = ए; अ + उ = ओ इति
मूलस्वरद्वयसंकीर्णाभ्याम् ए-ओ-भ्यां तृतीयम् । अ + अ = आ ;
आ + ए = ऐ; आ + ओ = औ इति संकीर्णाकारविशिष्टसंसृष्टि-
रूपाभ्याम् ऐ-औ-भ्यां चतुर्थम् । ए, ओ, ऐ, औ इत्येते स्वराः संकर-
रूपत्वात् संध्यक्षराणीत्युच्यन्ते । स्वरानन्तरं स्वराणां पूर्णव्यञ्जनानां च
मध्यपतितत्वात् मध्यमव्यपदेशभाग्भिः यवरलैः पञ्चमषष्ठे सूत्रे । इ,
उ, ऋ, ऌ इति स्वराणां यवरल इति मध्यमानां च सगर्भ्याणां भ्रातॄणामिव कोऽपि सजातीयो धर्मः प्रकटमुपलभ्यते; तत्र इ, उ, ऋ, ऌ
इति स्वराणां क्रममनुसर्तुं यवरल इति (यरलव इति लौकिकक्रमात्
भिन्नः) क्रम उपात्तः । मध्यमानन्तरं वर्ग्याः पठ्यन्ते । ते च सांप्रदायिकीं
रीतिमुल्लङ्घ्य खराः पृथक्, अतिखराः पृथक् इत्यादि भङ्ग्या संघीकृत्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०&oldid=399840" इत्यस्माद् प्रतिप्राप्तम्